संमूर्छतां रजतभित्तिमयूखजालैरालोकपादपलतान्तरनिर्गतानाम् । घर्मद्युतेरिह मुहुः पटलानि धाम्नामादर्शमण्डलनिभानि समुल्लसन्ति ॥
Metre: वसन्ततिलका
शुक्लैर्मयूखनिचयैः परिवीतमूर्तिर्वप्राभिघातपरिमण्डलितोरुदेहः । शृङ्गाण्यमुष्य भजते गणभर्तुरुक्षा कुर्वन्वधूजनमनःसु शशाङ्कशङ्काम् ॥
Metre: वसन्ततिलका
सम्प्रति लब्धजन्म शनकैः कथमपि लघुनि क्षीणपयस्युपेयुषि भिदां जलधरपटले । खण्डितविग्रहं बलभिदो धनुरिह विविधाः पूरयितुं भवन्ति विभवः शिखरमणिरुचः ॥
Metre: वंशपत्रपतितम्
स्नपितनवलतातरुप्रवालैरमृतलवस्रुतिशालिभिर्मयूखैः । सततमसितयामिनीषु शम्भो अमलयतीह वनान्तमिन्दुलेखा ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
क्षिपति योऽनुवनं विततां बृहद्बृहतिकामिव रौचनिकीं रुचम् । अयमनेकहिरण्मयकंदरस्तव पितुर्दयितो जगतीधरः ॥
Metre: द्रुतविलम्बितम्
सक्तिं लवादपनयत्यनिले लतानां वैरोचनैर्द्विगुणिताः सहसा मयूखैः । रोधोभुवां मुहुरमुत्र हिरण्मयीनां भासस्तडिद्विलसितानि विडम्बयन्ति ॥
Metre: वसन्ततिलका
कषणकम्पनिरस्तमहाहिभिः क्षणविमत्तमतङ्गजवर्जितैः । इह मदस्नपितैरनुमीयते सुरगजस्य गतं हरिचन्दनैः ॥
Metre: द्रुतविलम्बितम्
जलदजालघनैरसिताश्मनामुपहतप्रचयेह मरीचिभिः । भवति दीप्तिरदीपितकंदरा तिमिरसंवलितेव विवस्वतः ॥
Metre: द्रुतविलम्बितम्
भव्यो भवन्नपि मुनेरिह शासनेन क्षात्रे स्थितः पथि तपस्य हतप्रमादः । प्रायेण सत्यपि हितार्थकरे विधौ हि श्रेयांसि लब्धुमसुखानि विनान्तरायैः ॥
Metre: वसन्ततिलका
मा भूवन्नपथहृतस्तवेन्द्रियाश्वाः संतापे दिशतु शिवः शिवां प्रसक्तिम् । रक्षन्तस्तपसि बलं च लोकपालाः कल्याणीमधिकफलां क्रियां क्रियायुः ॥
Metre: प्रहर्षिणी