अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया । अभिययौ स हिमाचलमुच्छ्रितं समुदितं नु विलङ्घयितुं नभः ॥
Metre: द्रुतविलम्बितम्
तपनमण्डलदीतितमेकतः सततनैशतमोवृतमन्यतः । हसितभिन्नतमिस्रचयं पुरः शिवमिवानुगतं गजचर्मणा ॥
Metre: द्रुतविलम्बितम्
क्षितिनभःसुरलोकनिवासिभिः कृतनिकेतमदृष्टपरस्परैः । प्रथयितुं विभुतामभिनिर्मितं प्रतिनिधिं जगतामिव शम्भुना ॥
Metre: द्रुतविलम्बितम्
भुजगराजसितेन नभःश्रिया कनकराजिविराजितसानुना । समुदितं निचयेन तडित्वतीं लघयता शरदम्बुदसंहतिम् ॥
Metre: द्रुतविलम्बितम्
मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहाः । दधतमुच्चशिलान्तरगोपुराः पुर इवोदितपुष्पवना भुवः ॥
Metre: द्रुतविलम्बितम्
अविरतोज्झितवारिविपाण्डुभिर्विरहितैरचिरद्युतितेजसा । उदितपक्षमिवारतनिःस्वनैः पृथुनितम्बविलम्बिभिरम्बुदैः ॥
Metre: द्रुतविलम्बितम्
दधतमाकरिभिः करिभिः क्षतैः समवतारसमैरसमैस्तटैः । विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः ॥
Metre: द्रुतविलम्बितम्
नवविनिद्रजपाकुसुमत्विषां द्युतिमतां निकरेण महाश्मनाम् । विहितसांध्यमयूखमिव क्वचिन्निचितकाञ्चनभित्तिषु सानुषु ॥
Metre: द्रुतविलम्बितम्
पृथुकदम्बकदम्बकराजितं ग्रहितमालतमालवनाकुलम् । लघुतुषारतुषारजलश्च्युतं धृतसदानसदाननदन्तिनम् ॥
Metre: द्रुतविलम्बितम्
रहितरत्नचयान्न शिलोच्चयानफलताभवना न दरीभुवः । विपुलिनाम्बुरुहा न सरिद्वधूरकुसुमान्दधतं न महीरुहः ॥
Metre: द्रुतविलम्बितम्