व्यथितसिन्धुमनीरशनैः शनैरमरलोकवधूजघनैर्घनैः । फणभृतामभितो विततं ततं दयितरम्यलताबकुलैः कुलैः ॥
Metre: द्रुतविलम्बितम्
ससुरचापमनेकमणिप्रभैरपपयोविशदं हिमपाण्डुभिः । अविचलं शिखरैरुपबिभ्रतं ध्वनितसूचितमम्बुमुचां चयम् ॥
Metre: द्रुतविलम्बितम्
विकचवारिरुहं दधतं सरः सकलहंसगणं शुचि मानसम् । शिवमगात्मजया च कृतेर्ष्यया सकलहं सगणं शुचिमानसम् ॥
Metre: द्रुतविलम्बितम्
ग्रहविमानगणानभितो दिवं ज्वलयतौषधिजेन कृशानुना । मुहुरनुस्मरयन्तमनुक्षपं त्रिपुरदाहमुपापतिसेविनः ॥
Metre: द्रुतविलम्बितम्
विततशीकरराशिभिरुच्छ्रितैरुपलरोधविवर्तिभिरम्बुभिः । दधतमुन्नतसानुसमुद्धतां धृतसितव्यजनामिव जाह्नवीम् ॥
Metre: द्रुतविलम्बितम्
अनुचरेण धनाधिपतेरथो नगविलोकनविस्मितमानसः । स जगदे वचनं प्रियमादरान्मुखरतावसरे हि विराजते ॥
Metre: द्रुतविलम्बितम्
अलमेष विलोकितः प्रजानां सहसा संहतिमंहसां विहन्तुम् । घनवर्त्म सहस्रधेव कुर्वन्हिमगौरैरचलाधिपः शिरोभिः ॥
Metre: औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
इह दुरधिगमैः किंचिदेवागमैः सततमसुतरं वर्णयन्त्यन्तरम् । अमुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम् ॥
Metre: क्षमा
रुचिरपल्लवपुष्पलतागृहैरुपलसज्जलजैर्जलराशिभिः । नयति संततमुत्सुकतामयं धृतिमतीरुपकान्तमपि स्त्रियः ॥
Metre: द्रुतविलम्बितम्
सुलभैः सदा नयवतायवता निधिगुह्यकाधिपरमैः परमैः । अमुना धनैः क्षितिभृतातिभृता समतीत्य भाति जगती जगती ॥
Metre: प्रमिताक्षरा