निष्क्रम्य शिक्षया तस्यास्त्रपा-वन्तो रसा-तलात् । ज्ञात्वा मासुमतिक्रान्तं व्यथामवललम्बिरे ॥
Metre: अनुष्टुप्
चिन्ता-वन्तः कथां चक्रुरुपधा-भेद-भीरवः । "अ-कृत्वा नृ-पतेः कार्यं पूजां लप्स्यामहे कथम् ॥
Metre: अनुष्टुप्
प्रायोपासनया शान्तिं मन्वानो वालि-संभवः । युक्त्वा योगं स्थितः शैले विवृण्वंश्चित्त-वेदनाम् ॥
Metre: अनुष्टुप्
प्रस्कन्दिकामिव प्राप्तो ध्यात्वा ब्रूते स्म जाम्बवान् । "धिक्शालभञ्जिका-प्रख्यान्विशयान्कल्पना-रुचीन् ॥
Metre: अनुष्टुप्
यां कारिं राज-पुत्रोऽयमनुतिष्ठति तां क्रियाम् ।अहमप्यनुतिष्ठामि" सोऽप्युक्त्वैवमुपाविशत् ॥
Metre: अनुष्टुप्
उवाच मारुतिर्वृद्धे संन्यासिन्यत्र वानरात् । "अहं पर्यायसंप्राप्तां कुर्वे प्रायोपवेशिकाम् ॥
Metre: अनुष्टुप्
अ-भावे भवतां योऽस्मिन्जीवेत्तस्याऽस्त्व-जीवनिः" ।इत्युक्त्वा सर्व एवाऽस्थुर्बद्ध्वा योगाऽऽसनानि ते ॥
Metre: अनुष्टुप्
अ-क्लेश्यमसिनाऽग्न्यन्तं कबन्ध-वधमभ्यधुः । धिङ्नः प्रपतनं घोरं क्लेदाऽन्तत्वम-नाथ-वत् ॥
Metre: अनुष्टुप्
ततो मन्द-गतः पक्षी तेषां प्रायोपवेशनम् ।अशनीयमिवाशंसुर्महानायाद-शोभनः ॥
Metre: अनुष्टुप्
देह-व्रश्चन-तुण्डाऽग्रं तं विलोक्याऽशुभाऽऽकरम् । पाप-गोचरमात्मानमशोचन्वानरा मुहुः ॥
Metre: अनुष्टुप्