"जटायुः पुण्य-कृत्पक्षी दण्डकारण्य-सञ्चरः । कृत्वा राघव-कार्यं यः स्वराऽऽरूढोऽग्नि-संस्कृतः ॥
Metre: अनुष्टुप्
नरकस्याऽवतारोऽयं प्रत्यक्षोऽस्माकमागतः ।अ-चेष्टा यदिहाऽन्यायादनेनाऽत्स्यामहे वयं ॥
Metre: अनुष्टुप्
हृदयोदङ्क-संस्थानं कृतान्ताऽऽनाय-सन्निभम् । शरीराऽऽखन-तुण्डाऽग्रं प्राप्या-ऽमुं शर्म दुर्लभम् ॥
Metre: अनुष्टुप्
ईषदाढ्यङ्करोऽप्येष न परत्राऽशुभ-क्रिया ।अस्मानत्तुमितोऽभ्येति परिग्लानो बुभुक्षया।" ॥
Metre: अनुष्टुप्
संप्राप्य वानरान्पक्षी जगाद मधुरं वचः । "के यूयं दुरुपस्थाने मनसाऽप्यद्रि-मूर्धनि ॥
Metre: अनुष्टुप्
आत्मनः परिदेवध्वे कुर्वन्तो राम-संकथाम् । समानोदर्यमस्माकं जटायुं च स्थुथाऽऽदरात् ॥
Metre: अनुष्टुप्
शङ्का-धवित्र-वचनं प्रत्यूचुर्वानराः खगम् । "वयं शत्रु-लवित्रेषोर्दूता रामस्य भू-पतेः ॥
Metre: अनुष्टुप्
केनाऽपि दौष्कुलेयेन कुल्यां माहाकुलीं प्रियाम् । हृतां माहाकुलीनस्य तस्य लिप्सामहे वयम् ॥
Metre: अनुष्टुप्
त्रिंशत्तममहर्यातं मत्वा प्रत्यागमाऽवधिम् ।अ-कृताऽर्था विशीदन्तः पर-लोकमुपास्महे ॥
Metre: अनुष्टुप्
म्रियामहे न गच्छामः कौशल्यायनि-वल्लभाम् ।उपलम्भ्याम-पश्यन्तः कौमारीं पततां वर !" ॥
Metre: अनुष्टुप्