समगध्वं पुरः शत्रोर्मोदयध्वं रघूत्तमम् । नोपायध्वं भयं सीतां नोपायंस्त दशाननः ॥
Metre: अनुष्टुप्
ततः प्रास्थिषताऽद्रीन्द्रं महेन्द्रं वानरा द्रुतम् । सर्वे किलकिलायन्तो धैर्यं चाऽऽधिषताऽधिकम् ॥
Metre: अनुष्टुप्
निकुञ्जे तस्य वर्तित्वा रम्ये प्रक्ष्वेदिताः परम् । मणि-रत्नाऽधिशयितं प्रत्युदैक्षन्त तोय-धिम् ॥
Metre: अनुष्टुप्
अ-मर्षितमिव घ्नन्तं तटाऽद्रीन्मलिलोर्मिभिः । श्रिया समग्रं द्युतितं मदेनेव प्रलोठितम् ॥
Metre: अनुष्टुप्
पूतं शीतैर्नभस्वद्भिर्ग्रन्थित्वेव स्थितं रुचः । गुम्फित्वेव निरस्यन्तं तरङ्गान्सर्वतो मुहुः ॥
Metre: अनुष्टुप्
वञ्चित्वाऽप्यम्बरं दूरं स्वस्मिंस्तिष्ठन्तमात्मनि । तृषित्वेवाऽनिशं स्वादु पिबन्तं सरितां पयः ॥
Metre: अनुष्टुप्
द्युतित्वा शशिना नक्तं रश्मिभिः परिवर्धितम् । मेरोर्जेतुमिवाऽऽभोगमुच्चैर्दिद्योतिषुं मुहुः ॥
Metre: अनुष्टुप्
विलोक्य सलिलोच्चयानधि-समुद्रमभ्रंलिहान्भ्रमन्-मकर भीषणं समधिगम्य चाऽधः पयः । गमाऽऽगम-सहं द्रुतं कपि-वृषाः परिप्रैषयन्गजेन्द्र-गुरु-विक्रमं तरु-मृगोत्तमं मारुतिम् ॥
Metre: पृथ्वी