जगाद वानरान्पक्षी-"नाध्यगीढ्वं ध्रुवं स्मृतिम् । यूयं संकुटियुं यस्मात्कालेऽस्मिन्नध्यवस्यथ ॥
Metre: अनुष्टुप्
नाऽयमुद्विजितुं कालः स्वामि-कार्याद्भवादृशाम् । हृत-भार्ये च्युते राज्याद्रामो पर्युत्सुके भृशम् ॥
Metre: अनुष्टुप्
यत्नं प्रोर्णवितुं तूर्णं दिशं कुरुत दक्षिणाम् । प्रोर्णुवित्रीं दिवस्तत्र पुरीं द्रक्ष्यथ काञ्चनीम् ॥
Metre: अनुष्टुप्
लङ्कां नाम्ना गिरेर्मूर्ध्नि राक्षसेन्द्रेण पालिताम् । निर्जित्य शक्रमानीता ददृशुर्यां सुर-स्त्रियः ॥
Metre: अनुष्टुप्
बभूव याऽधिशैलेन्द्रं मृदित्वेवेन्द्र-गोचरम् । कुषित्वा जगतां सारं सैका शङ्के कृता भुवि ॥
Metre: अनुष्टुप्
अ-मृडित्वा सहस्राऽक्षं क्लिशित्वा कौशलैर्निजैः ।उदित्वाऽलं चिरं यत्नात्सैका धात्रा विनिर्मिता ॥
Metre: अनुष्टुप्
मुषित्वा धन-दं पापो यां गृहीत्वाऽऽवसद्द्विषन् । तां रुदित्वेव शक्रेण यात लङ्कामुपेक्षिताम् ॥
Metre: अनुष्टुप्
विदित्वा शक्तिमात्मीयां रावणं विजिघृक्षवः ।उक्तं पिपृच्छिषूणां वो मा स्म भूत सुषुप्सवः ॥
Metre: अनुष्टुप्
नाऽविविदिषुम्भ्येति सम्पद्रुरुदिषुं नरम् । किं मुमुषिषु-वद्यात द्विषो नाऽपचिकीर्षया ॥
बुभुत्सवो द्रुतं सीतां भुत्सीध्वं प्रब्रवीमि वः । मा च भुद्ध्वं मृषोक्तं नः कृषीढ्वं स्वामिने हितं ॥
Metre: अनुष्टुप्