कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 71 to 80 of 95 verses
Verse 71
तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमा हरेः । त्रिविक्रमोद्यतस्यासीत्स च स्वाभाविकस्तव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तिर्यगिति । तिर्यगूर्ध्वमधस्ताच्च व्यापकः । सर्वव्यापीत्यर्थः । महिमा महत्त्वं हरेर्विष्णोस्त्रिषु विक्रमेषूद्यतस्य सत आसीत् । त्रिविक्रमोद्यतस्यास्ति कदाचिदेव न तु सर्वदेत्यर्थः । तव तु व्यापको महिमा स्वाभाविकः । नित्यसिद्ध इत्यर्थः
अन्वयः: तिर्यक् ऊर्ध्वम् अधस्ताच्च व्यापको महिमा त्रिविक्रमोद्यतस्य हरेः आसीत्, तव तु व्यापको महिमा स्वाभाविकः ।

Verse 72
यज्ञभागभुजां मध्ये पदमातस्थुषा त्वया । उच्चैर्हिरण्मयं शृङ्गं सुमेरोर्वितथीकृतम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): यज्ञेति । यज्ञभागभुजामिन्द्रादीनां मध्ये पदमातस्थुषा निहितवता त्वयोच्चैरुन्नतं हिरण्यस्य विकारो हिण्मयम् । `दाण्डिनायनहास्तिनायने-` त्यादिनिपातनात्साधु । सुमेरोः श्रृङ्गं शिखरम् । प्राधान्यं च ध्वन्यते । `श्रृङ्गं प्राधान्यसान्वोश्च` इत्यमरः । वितथीकृतं व्यर्थीकृतम् । तस्य यज्ञभागाभावादिति भावः । अस्य तु तत्सद्भावे प्रमाणम्- `हिमवतो हस्ती` ति श्रुतिः
अन्वयः: यज्ञभागभुजां मध्ये पदम् आतस्थुषा त्वया सुमेरोः हिरण्मयम् उच्चैः श्रृङ्गं वितथीकृतम् ।

Verse 73
काठिन्यं स्थावरे काये भवता सर्वमर्पितम् । इदं तु भक्तिनम्रं ते सतामाराधनं वपुः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): काठिन्यमिति । भवता सर्वं काठिन्यम् । अनम्रत्वमित्यर्थः । स्थावरे स्थिरे काये । शिलामय इत्यर्थः । अर्पितं न्यस्तम् । सतामर्हतामाराधनं पूजासाधनं त इदं वपुस्तु जङ्गममित्यर्थः । भक्तिनम्रम् । काठिन्यलेशोऽप्यत्र नास्त्यन्यथा नम्रत्वासंभवादित्यर्थः । तथा चासाधारण्यं ध्वन्यते
अन्वयः: भवता सर्वं काठिन्यं स्थावरे काये समर्पितम्, सताम् आराधनं ते इदं वपुस्तु भक्तिनम्रम् ।

Verse 74
तदागमनकार्यं नः शृणु कार्यं तवैव तत् । श्रेयसामुपदेशात्तु वयमत्रांशभागिनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तदिति । तत्तस्मान्नोऽस्माकमागमनस्य कार्यं प्रयोजनं श्रृणु । तत्कार्यं च तवैव, न त्वस्माकमित्यवधारणार्थ एवकारः । वयं तु श्रेयसामुपदेशादत्र कार्येंऽशभागिनः । त्वमेवात्र फलभाग्वयमुपदेष्टार इति भावः
अन्वयः: तत् नः आगमनकार्यं श्रृणु । तत् कार्यं तव एव । वयं तु श्रेयसाम् उपदेशात् अत्र अंशभागिनः ।

Verse 75
अणिमादिगुणोपेतमस्पृष्टपुरुषान्तरम् । शब्दमीश्वर इत्युच्चैः सार्धचन्द्रं बिभर्ति यः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अणिमेति । यः शंभुरणिमादिगुणोपेतमणिमादिभिरष्टाभिर्गुणैर्वाच्यभूतैरुपेतम् । अष्टैश्वर्यवाचकमित्यर्थः, अतएवास्पृष्टं पुरुषान्तरं येन तं तथोक्तम् पुरुषान्तरस्यानभिधायकम् । तस्यैवैवंगुणत्वादित्यर्थः, उच्चः परमेश्वर इति शब्दम् । निरुपपदेश्वरशाब्दमित्यर्थः । सार्धचन्द्रमर्धचन्द्रयुक्तम् । अर्धचन्द्रं चेत्यर्थः । बिभर्ति
अन्वयः: यः अणिमादिगुणोपेतम् अस्पृष्टपुरुषाऽन्तरम् उच्चैः ईश्वर इति शब्दं सार्धचन्द्रं बिभर्ति ।

Verse 76
कल्पितान्योन्यसामर्थ्यैः पृथिव्यादिभिरात्मनि । येनेदं ध्रियते विश्वं धुर्यैर्यानमिवाध्वनि ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): कलितेति । येन शंभुना कलितं धृतिसंग्रहादिस्वस्वगुणसंपादितमन्योन्यसामर्थ्यं परस्परसहकाररुपं यैस्तथोक्तैः । स्वस्वरुपसामर्थ्यमन्योन्याधेयमेवेति भावः । पृथिव्यादिभिरात्मभिः । अष्टाभिर्मूर्तिभिरित्यर्थः । इदं व्यक्तं विश्वं धुरं वहन्तीति धुर्यैरश्वैः । `धुरो यड्ढको` इति यत्प्रत्ययः । अध्वनि यानं रथ इव ध्रियते
अन्वयः: येन कलिताऽन्योन्यसामर्थ्यैः पृथिव्यादिभिः आत्मभिः इदं विश्वं धुर्यैः अध्वनि यानम् इव ध्रियते ।

Verse 77
योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम् । अनावृत्तिभयं यस्य पदमाहुर्मनीषिणः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): योगिन इति । योगिनोऽध्यात्मवेदिनः क्षेत्राभ्यन्तरवर्तिनं शरीरान्तश्चरं सर्वभूतान्तर्यामिणम् । परमात्मस्वरूपिणमित्यर्थः । `क्षेत्रं पत्नीशरीरयोः` इत्यमरः (अ.को.3|3|188) । यं शंभुं विचिन्वन्ति मृगयन्ते, मनीषिणो विद्वांसो यस्य शंभोः पदं स्थानमविद्यमानमावृत्तेः पुनः संसारापत्तेर्भयं यत्र तत्तथाभूतमाहुः
अन्वयः: योगिनः क्षेत्राऽभ्यन्तरवरवर्तिनं यं विचिन्वन्ति, मनीषिणो यस्य पदम् अनावृत्तिभयम् आहुः ।

Verse 78
स ते दुहितरं साक्षात्साक्षी विश्वस्य कर्मणः । वृणुते वरदः शंभुरस्मत्संक्रामितैः पदैः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति । विश्वस्य जगतः कर्मणां साक्षी द्रष्टा । `साक्षाद्द्रष्टरि संज्ञायाम्` (पा.5|2|91) इतिनिप्रत्ययः । वरानिष्टान्ददातीति वरदः । `आतोऽनुपसर्गे कः` (पा.3|2|3) इति कप्रत्ययः । स पूर्वोक्तः शंभुरस्मत्संक्रामितैः पदैरस्मासु निवेशितैर्वाक्यैस्ते दुहितरं साक्षाद् वृणुते । अस्मन्मुखेन स्वयमेव याचत इत्यर्थः
अन्वयः: विश्वस्य कर्मणां साक्षी वरदः स शम्भुः अस्मत्संक्रामितैः पदैः ते दुहितरं साक्षात् वृणुते ।

Verse 79
तमर्थमिव भारत्या सुतया योक्तुमर्हसि । अशोच्या हि पितुः कन्या सद्भर्त्रे प्रतिपादिता ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तमिति । तं शंभुं भारत्या वाचार्थमभिधेयमिव सुतया दुहित्रा योक्तुं संघटयितुमर्हसि । अत्र वागर्थयोरुपमानत्वसामर्थ्याच्छिवयोर्नित्ययोगो विवक्षित इत्युक्तम् `वागर्थाविव संपक्तौ` (रघुवंशे १/१) इत्यत्रापि । तथाहि सद्भर्त्रे प्रतिपादिता दत्ता कन्या पितुरशोच्या
अन्वयः: भारत्या अर्थम् इव तं सुतया योक्तुम् अर्हसि । हि सद्भर्तृप्रतिपादिता कन्या पितुः अशोच्या ।

Verse 80
यावदेतानि भूतानि स्थावराणि चराणि च । मातरं कल्पयन्त्येनामीशो हि जगतः पिता ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): यावन्तीति । स्थावराणि चराणि च यावन्त्येतानि भूतानि सन्तीति शेषः । सर्वाणि भूतानीत्यर्थः । एनां ते दुहितरं मातरं कल्पयन्तु । हि यस्मादीशो जगतः पिता । पितृदारेषु मातृभावो न्याय्य इति भावः
अन्वयः: स्थावराणि चराणि च यावन्ति एतानि भूतानि एनां मातरं कल्पयन्तु, हि ईशो जगतः पिता ।