तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमा हरेः । त्रिविक्रमोद्यतस्यासीत्स च स्वाभाविकस्तव ॥
Metre: अनुष्टुप्
यज्ञभागभुजां मध्ये पदमातस्थुषा त्वया । उच्चैर्हिरण्मयं शृङ्गं सुमेरोर्वितथीकृतम् ॥
Metre: अनुष्टुप्
काठिन्यं स्थावरे काये भवता सर्वमर्पितम् । इदं तु भक्तिनम्रं ते सतामाराधनं वपुः ॥
Metre: अनुष्टुप्
तदागमनकार्यं नः शृणु कार्यं तवैव तत् । श्रेयसामुपदेशात्तु वयमत्रांशभागिनः ॥
Metre: अनुष्टुप्
अणिमादिगुणोपेतमस्पृष्टपुरुषान्तरम् । शब्दमीश्वर इत्युच्चैः सार्धचन्द्रं बिभर्ति यः ॥
Metre: अनुष्टुप्
कल्पितान्योन्यसामर्थ्यैः पृथिव्यादिभिरात्मनि । येनेदं ध्रियते विश्वं धुर्यैर्यानमिवाध्वनि ॥
Metre: अनुष्टुप्
योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम् । अनावृत्तिभयं यस्य पदमाहुर्मनीषिणः ॥
Metre: अनुष्टुप्
स ते दुहितरं साक्षात्साक्षी विश्वस्य कर्मणः । वृणुते वरदः शंभुरस्मत्संक्रामितैः पदैः ॥
Metre: अनुष्टुप्
तमर्थमिव भारत्या सुतया योक्तुमर्हसि । अशोच्या हि पितुः कन्या सद्भर्त्रे प्रतिपादिता ॥
Metre: अनुष्टुप्
यावदेतानि भूतानि स्थावराणि चराणि च । मातरं कल्पयन्त्येनामीशो हि जगतः पिता ॥
Metre: अनुष्टुप्