कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 81 to 90 of 95 verses
Verse 81
प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम् । चरणौ रञ्जयन्त्यस्याश्चूडामणिमरीचिभिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): प्रणम्येति । विबुधा देवाः शितिकण्ठाय शिवाय प्रणाम्य तदनन्तरं नीलकण्ठप्रणामानन्तरमस्याश्चरणौ चूडामणिमरीचिभी रञ्जयन्तु । ईश्वरपरिग्रहादखिलदेवतावन्द्या भवत्वित्यर्थः
अन्वयः: विबुधाः शितिकण्ठाय प्रणम्य तदनन्तरम् अस्याः चरणौ चूडामणिमरीचिभिः रञ्जयन्तु ।

Verse 82
उमा वधूर्भवान्दाता याचितार इमे वयम् । वरः शंभुरलं ह्येष त्वत्कुलोद्भूतये विधिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): उमेति । उमा वधूः । इमे वयं याचितारः प्रार्थकाः । शंभुर्वरो वोढा । एष विधिरेषा सामग्री त्वत्कुलस्योद्भूतये उच्छ्रयायालं पर्याप्तं हि । `नमः स्वस्तिस्वाहास्वधे-` त्यादिना चतुर्थी
अन्वयः: उमा वधूः, भवान् दाता, इमे वयं याचितारः, शम्भुः वरः, हि एष विधिः त्वत्कुलोद्भूतये अलम् ।

Verse 83
अस्तोतुः स्तूयमानस्य वन्द्यस्यानन्यवन्दिनः । सुतासंबन्धविधिना भव विश्वगुरोर्गुरुः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अस्तोतुरिति । स्वयमन्यस्तोता न भवतीत्यस्तोतुः, किंतु स्तूयमानस्य सर्वस्तुत्यस्य, वन्द्यस्य, जगद्वन्द्यस्य स्वयमन्यं न वन्दत इत्यनन्यवन्दिनो विश्वगुरोर्देवस्य सुतासंबन्धविधिना यौवनसंबन्धाचरणेन गुरुर्भव । यो नान्यं स्तौति न वन्दते तस्यापि त्वं स्तुत्यो वन्द्यश्चेत्यहो तव भाग्यवत्तेत्यर्थः
अन्वयः: अस्तोतुः स्तूयमानस्य, वन्द्यस्य अनन्यवन्दिनो विश्वगुरोः सुतासम्बन्धविधिना गुरुः भव ।

Verse 84
एवं वादिनि देवर्षौ पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): एवमिति । देवर्षावङ्गिरस्येवंवादिनि सति पार्वती पितुः पार्श्वेऽधोमुखी सती । लज्जयेति शेषः । लीलाकमलपत्राणि गणयामास संचख्यौ । लज्जावशात्कमलदलगणनाव्याजेन हर्ष जुगोपेत्यर्थः । अनेनावहित्याख्यः संचारी भाव उक्तः । तदुक्तम्- `अवहित्था तु लज्जादेर्हर्षादाकारगोपनम्` । इति
अन्वयः: देवर्षौ एवंवादिनि (सति) पार्वती पितुः पार्श्वे अधोमुखी (सती) लीलाकमलपत्राणि गणयामास ।

Verse 85
शैलः संपूर्णकामोऽपि मेनामुखमुदैक्षत । प्रायेण गृहिणीनेत्राः कन्यार्थे हि कुटुम्बिनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): शैल इति । शैलो हिमवान्संपूर्णकामोऽपि । दातुं कृतनिश्चयोऽपीत्यर्थः । मेनामुखमुदैक्षत । उचितोत्तरजिज्ञासयेति भावः । तथा हि । प्रायेण कुटुम्बिनो गृहस्थाः कन्यार्थेषु कन्याप्रयोजनेषु गृहिण्येव नेत्रं कार्यं ज्ञानकारणं येषां ते तथोक्ताः । कलत्रप्रधानवृत्तय इत्यर्थः
अन्वयः: शैलः सम्पूर्णकामः अपि मेनामुखम् उदैक्षत, (हि) प्रायेण कुटम्बिनः कन्यार्थेषु गृहिणीनेत्राः ।

Verse 86
मेने मेनापि तत्सर्वं पत्युः कार्यमभीप्सितम् । भवन्त्यव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): मेना इति । मेनापि पत्युर्हिमालयस्य तत्सर्वमभीप्सितं कार्यं मेनेऽङ्गीचकार । तथाहि । पतिरेव व्रतं यासां ता भर्तुरिष्टेऽभीप्सिते न विद्यते व्यभिचारो यासां ता अव्यभिचारिण्यो भवन्ति भर्त्तुचित्ताभिप्रायज्ञा भवन्तीति भावः
अन्वयः: मेना अपि पत्युः तत् सर्वम् अभीप्सितं कार्यं मेने । (तथा हि) पतिव्रता भर्तुः इष्टे अव्यभिचारिण्यो भवन्ति ।

Verse 87
इदमत्रोत्तरं न्याय्यमिति बुद्ध्या विमृश्य सः । आददे वचसामन्ते मङ्गलालङ्कृतां सुताम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): इदमिति । स हिमवान्वचसामन्ते मुनिवाक्यावसानेऽत्र मुनिवाक्य इदमुत्तरश्लोके वक्ष्यमाणं दानमेव न्याय्यं न्यायादनपेतमुत्तरमिति बुद्ध्या चित्तेन विमृश्य विचिन्त्य मङ्गलं यथा तथालंकृतां सुतामाददे हस्ताभ्यां जग्राह
अन्वयः: स वचसाम् अन्ते अत्र इदं न्याय्यम् उत्तरम् इति बुद्ध्या विमृश्य मङ्गलाऽलंकृतां सुताम् आददे ।

Verse 88
एहि विश्वात्मने वत्से भिक्षासि परिकल्पिता । अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): एहीति । हे वत्से पुत्रि ! एह्यागच्छ । त्वं विश्वात्मने शिवाय भिक्षा परिकल्पितासि निश्चितासि । `रत्नादिस्तम्बपर्यन्तं सर्वं भिक्षा तपस्विनः` । इति वचनादिति भावः । अर्थिनो याचितारो मुनयः । मया गृहमेधिनो गृहस्थस्य फलं प्राप्तम् । इह परत्र च तारकत्वात्पात्रे कन्यादानं गार्हस्थ्यस्य फलमित्यर्थः
अन्वयः: हे वत्से ! एहि । त्वं विश्वात्मने भिक्षा परिकल्पिता असि । अर्थिनो मुनयः । मया गृहमेधिफलं प्राप्तम् ।

Verse 89
एतावदुक्त्वा तनयाम् ऋषीनाह महीधरः । इयं नमति वः सर्वांस्त्रिलोचनवधूरिति ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): एतावदिति । महीधरो हिमवांस्तनयामेतावत्पूर्वोक्तमुक्त्वार्षीनाह-किमिति । इयं त्रिलोचनवधूस्त्र्यम्बकपत्नी वः सर्वान्नमतीति । त्रिलोचनवधूरितिसिद्धवदभिधानेनाविप्रतिपन्नं दानमिति सूचयति
अन्वयः: महीधरः तनयाम् एतावत् उक्त्वा `इयं त्रिलोचनवधूः सर्वान् वो नमति` इति ऋषीन् आह ।

Verse 90
ईप्सितार्थक्रियोदारं तेऽभिनन्द्य गिरेर्वचः । आशीर्भिरेधयामासुः पुरःपाकाभिरम्बिकाम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): ईप्सितार्थेति । ते मुनयः । ईप्सितार्थक्रिययेष्टार्थकरणेनोदारं महत् । `उदारो दातृमहतोः` इत्यमरः (अ.को.3|3|200) । गिरेर्हिमवतो वचो वचनमभिनन्द्य साध्विति संस्तुत्याम्बिकामम्बाम् । पच्यत इति पाकः फलम् । पुरःपाकाभिः पुरस्कृतफलाभिराशीर्भिराशीर्वादैरेधयामासुः संवर्धयामासुः
अन्वयः: ते ईप्सिताऽर्थक्रियोदारं गिरेः वचः अभिनन्द्य अम्बिकां पुरःपाकाभिः आशीर्भिः एधयामासुः ।

Showing 81 to 90 of 95 verses