कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 1 to 10 of 95 verses
Verse 1
अथ विश्वात्मने गौरी संदिदेश मिथः सखीम् । दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथ देवदेवानुग्रहानन्तरं गौरी पार्वती विश्वमात्मा स्वरुपं यस्येति । विश्वस्यात्मेति वा । विश्वात्मने शिवाय मिथो रहसि । `मिथोऽन्योऽन्थं रहस्यपि` इत्यमरः । सखीं संदिदेशातिससर्ज । क्रियामात्रयोगेऽपि संप्रदानत्वाच्चतुर्थीं । किमिति । भूभृतां नाथो हिमवान्मे मम दाता सन् । प्रमाणीक्रियतामिति । दातृत्वेन प्रमाणीक्रियतामित्यर्थः । प्रार्थनायां लोट् । पित्रा दीयमानायाः परिग्रहो मम महाननुग्रह इति भावः
अन्वयः: अथ गौरी विश्वात्मने `भूभृतां नाथः मे दाता प्रमाणीक्रियताम्` इति मिथः सखीं सन्दिदेश ।

Verse 2
तया व्याहृतसंदेशा सा बभौ निभृता प्रिये । चूतयष्टिरिवाभ्याष्ये मधौ परभृतामुखी ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तयेति । तया सख्या । सखीमुखेनेत्यर्थः । व्याहृतसंदेशोक्तवाचिका प्रिये हरविषये निभृता निश्चला । परमासक्तेत्यर्थः । सा गौरी । मधौ वसन्ते निभृता स्थिरया परभृतया कोकिलयोन्मुखी मुखरा परभृतोन्मुखी । मुखशब्देनाभिभाषणव्यापारो लक्ष्यते । तथा च परभृतामुखेन व्याहरन्तीत्यर्थः । परभृतेति क्रियाशब्दविवक्षायाम् `जातेरस्त्री-` ति ङीप्प्रत्ययो नभवति । तयेत्युपमेयस्य व्यस्तत्वादुपमानवाचिपरभृताशब्दस्य समासः सेढव्यः । अथवा भृद्भरणम् । संपदादित्वात्क्विप् । परैर्भृद्यस्यास्तया परभृतेति व्यासेन व्याख्येयम् । पदमञ्जरीकारस्तु परैर्भ्रियत इति कर्मणि क्विपमाह । चूतयष्टिश्चूतशाखेवाभ्याशेऽन्तिके बभौ । `सदेशाभ्याशसविधसमर्यादसवेशवत् । उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम् ॥` इत्यमरः
अन्वयः: तया व्याहृतसन्देशा प्रिये निभृता सा मधौ निभृता परभृतोन्मुखी चूतयष्टिः इव अभ्याशे बभौ ।

Verse 3
स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् । ऋषीञ्ज्योतिर्मयान्सप्त सस्मार स्मरशासनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति । स प्रकृतः । शास्तीति शासनः बहुलग्रहणात्कर्तरि ल्युट्` स्मरस्य शासन ईश्वरस्तथेति प्रतिज्ञाय । तथा करिष्यामीत्युक्त्वेत्यर्थः । उमां कथमपि कृच्छ्रेण विसृज्य । तत्र गाढानुरागत्वादिति भावः । ज्योतिर्मयांस्तेजोरूपान्सप्तर्षीनङ्गिरसःप्रभृतीन्सस्मार स्मृतवान्
अन्वयः: स स्मरशासनः `तथा` इति प्रतिज्ञाय उमां कथमपि विसृज्य ज्योतिर्मयान् सप्त ऋषीन सस्मार ।

Verse 4
ते प्रभामण्डलैर्व्योम द्योतयन्तस्तपोधनाः । सारुन्धतीकाः सपदि प्रादुरासन्पुरः प्रभोः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): त इति । ते तप एव धनं येषां ते तपोधनाः सप्तर्षयः प्रभामण्डलैस्तेजःपुञ्जैर्व्योमाकाशं द्योतयन्तः प्रकाशयन्तः । अरुन्धत्या सह वर्तन्त इति सारुन्धतीकाः सन्तः । `नद्युतश्च` इति कप् । सपदि प्रभौरीश्वरस्य पुरः पुरोभागे प्रादुरासन्प्रत्यक्षा बभूवुः
अन्वयः: ते तपोधनाः प्रभामण्डलैः व्योम द्योतयन्तः साऽरुन्धतीकः सन्तः सपदि प्रभोः पुरः प्रादुरासन् ।

Verse 5
आप्लुतास्तीरमन्दारकुसुमोत्किरवीचिषु । आकाशगङ्गास्रोतस्सु दिङ्नागमदगन्धिषु ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): आप्लुता इति । उत्किरन्ति विक्षिपन्तीत्युत्किराः । `इगुपधे-` त्यादिना कप्रत्ययः । तीरे ये मन्दाराः कल्पवृक्षास्तेषां कुसुमानामुत्किरा वीचयस्तरङ्गा येषां तेषु दिङ्नागानां दिग्गजानां मदगन्धो येष्विति तथोक्तेषु व्योमगङ्गाप्रवाहेष्वाकाशगङ्गास्रोतःस्वाप्लुताः स्नाताः ।
अन्वयः: तीरमन्दारकुसुमोत्किरवीचिषु दिङ्नागमदगन्धिषु व्योमगङ्गाप्रवाहेषु आप्लुताः (ते प्रादुरासन्) ।

Verse 6
मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः । रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): मुक्तेति । मुक्तानां मौक्तिकानां यज्ञोपवीतानि मुक्तामयानीत्यर्थः । बिभ्रतो दधानाः । हेमगयानि वल्कलानि येषां ते हैमवल्कलाः । रत्नमयान्यक्षसूत्राणि येषां ते रत्नाक्षसूत्राः । प्रव्रज्यां प्रव्रजनम् । `व्रजयजोर्भावे क्यप् । आश्रिताः कल्पवृक्षा इव स्थिताः । अत्र चतुर्थाश्रमवाचिना प्रव्रज्याशब्देन वानरप्रस्थाश्रमो लक्ष्यते । `जहुः परिग्रहव्रीडां प्राजापत्यास्तपस्विनः` (६.३४) । इति सपत्नीकत्वाभिधानात् सुतविन्यस्तपत्नीकस्तया वानुगतोऽपि सन्` । इति वानप्रस्थस्योभयथा स्मरणात्
अन्वयः: मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कला रत्नाऽक्षसूत्राः प्रव्रज्याम् आश्रिताः कल्पवृक्षा इव (ते प्रादुरासन्) ।

Verse 7
अधःप्रवर्त्तिताश्वेन समावर्जितकेतुना । सहस्ररश्मिना शश्वत्सप्रमाणमुदीक्षिताः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अध इति । अधः प्रस्थापिताश्वेन । सूर्यमण्डलोपरिवर्तित्वात्सप्तर्षिमण्डलस्येति भावः । समावर्जितकेतुना तन्मण्डलाघातशङ्कया नमितध्वजेन सहस्त्ररश्मिना सूर्येण साक्षात्स्वयमेव सप्रणाममुदीक्षिताः । गमनाभ्यनुज्ञादानपर्यन्तमित्यर्थः । भगवतः सूर्यस्याप्युपास्या इति भावः
अन्वयः: अधःप्रस्थापिताऽश्वेन समावर्जितकेतुना सहस्त्ररश्मिना साक्षात् सप्रणामम् उदीक्षिताः (ते प्रादुरासन्) ।

Verse 8
आसक्तबाहुलतया सार्धमुद्धृतया भुवा । महावराहदंष्ट्रायां विश्रान्ताः प्रलयापदि ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): आसक्तेति । पुनः किंविधाः । प्रलयापदि कल्पान्तसंकट आसक्तबाहुलतया । दंष्ट्रायामिति शेषः । उद्धृतया । दंष्ट्रयेति शेषः । भुवा सार्धं धरण्या सह महावराहदंष्ट्रायां विश्रान्ताः । महाप्रलयेऽप्यविनाशिन इत्यर्थः
अन्वयः: प्रलयापदि आसक्तबाहुलतया उद्धृतया भुवा सार्धं महावराहदंष्ट्रायां विश्रान्ताः (ते प्रादुरासन्) ।

Verse 9
सर्गशेषप्रणयनाद्विश्वयोनेरनन्तरम् । पुरातनाः पुराविद्भिर्धातार इति कीर्तिताः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सर्गेति । विश्वयोनेर्ब्रह्मणोऽनन्तरं सर्गशेषस्य प्रणयनात् । ब्रह्मसृष्ठावशिष्टसृष्टेः करणाद्धेतोरित्यर्थः । पुराविद्भिः पुराणवेदिभिर्व्यासादिभिः पुरातना धातार इति कीर्तिताः । विश्वयोनेरिति सम्बन्धमात्रे षष्ठी । तस्यानन्तरमिति भाष्ये दर्शनात् । अपादानत्वविवक्षायां तु पञ्चमी । अयमदः शब्दो यथाशब्दावृत्तादनन्तरस्येति शाबरभाष्ये दर्शनात् । तथा `अथातो धर्मजिज्ञासा वेदाध्यायादनन्तरम्` इत्याचार्याः । कविश्च `पुराणपत्त्रापगमादनन्तरम्` इति । एवमन्यत्रापि द्रष्टव्यम्
अन्वयः: विश्वयोनेः अनन्तरं सर्गशेषप्रणयनात् पुराविद्भिः `पुरातना धातार` इति कीर्तिताः । (ते प्रादुरासन्) ।

Verse 10
प्राक्तनानां विशुद्धानां परिपाकमुपेयुषाम् । तपसामुपभुञ्जानाः फलान्यपि तपस्विनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): प्राक्तनानामिति । प्राक्तनानां जन्मान्तरभवानां विशुद्धानां निर्मलानां परिपाकं फलदानोन्मुखत्वमुपेयुषां गतानां तपसां फलान्युपभुञ्जाना अपि तपस्विनस्तपोनिष्ठाः । प्रारब्धभोगिनो निःस्पृहाश्चेति भावः । कुलकम्
अन्वयः: प्राक्तनानां विशुद्धानां परिपाकम् उपेयुषां तपसां फलानि उपभुञ्जाना अपि तपस्विनः (ते प्रादुरासन्) ।

Showing 1 to 10 of 95 verses