कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 11 to 20 of 95 verses
Verse 11
तेषां मध्यगता साध्वी पत्युः पादार्पितेक्षणा । साक्षादिव तपःसिद्धिर्बभासे बह्वरुन्धती ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तेषामिति । तेषामृषीणां मध्यगता साध्वी पतिव्रता । अत एव पत्युर्वसिष्ठस्य पादयोरर्पितेक्षणा निविष्टदृष्टिररुन्धती साक्षात्प्रत्यक्षा तपःसिद्धिरिव तेषामेवति शेषः । तेषां मध्यगतेति लिङ्गवचनादिसाम्यादियमुपमा । बहु भूयिष्ठं बभासे भाति स्म
अन्वयः: तेषां मध्यगता साध्वी पत्युः पादाऽर्पितेक्षणा अरुन्धती साक्षात् तपःसिद्धिः इव बहु बभासे ।

Verse 12
तामगौरवभेदेन मुनींश्चापश्यदीश्वरः । स्त्री पुमानित्यनास्थैषा वृत्तं हि महितं सताम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तामिति । ईश्वरो भगवांस्तामरुन्धतीं मुनींश्चागौरवभेदेन समानप्रतिपत्त्यापश्यद्दृष्टवान् । न चायमविवेक इत्याह-हि यस्मात्स्त्री पुमांश्चेत्येषानास्था स्त्रीपुंसभेदो न विवक्षितः । किंतु सतां साधूनां वृत्तं चरित्रमेव महितं पूज्यम् । `गुणाः पुजास्थानं गुणिषु न च लिङ्गं न च वयः` इति भावः
अन्वयः: ईश्वरः तां मुनींश्च अगौरवभेदेन अपश्यत् । हि स्त्री पुमान् इति एषा अनास्था, (किन्तु) सतां वृत्तं महितम् ।

Verse 13
तद्दर्शनादभूच्छम्भोर्भूयान्दारार्थमादरः । क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलसाधनम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तदिति । तद्दर्शनादरुन्धतीदर्शनाच्छंभोर्दारार्यं परिग्रहार्थमादरो भूयान्बहुतरोऽभूत् । ननु दाराः कुत्रोपयुज्यन्त इत्यत्राह--धर्म्याणां धर्मादनपेतानाम् । `धर्मपथ्यर्थन्यायादनपेते` (पा.4|4|92) इति यत्प्रत्ययः । क्रियामाणानामिज्यादीनां सत्यः पतिव्रताः पत्न्यः सत्पत्न्यः । `पत्युर्नो यज्ञसंयोगे` (पा.4|1|33) इति ङीप् । नकारश्च । मूलकारणं खलु
अन्वयः: तद्दर्शनात् शम्भोः दाराऽर्थमादरः भूयान् अभूत्, (यतः) धर्म्याणां क्रियाणां सत्पत्न्यो मूलकारणम् ।

Verse 14
धर्मेणापि पदं शर्वे कारिते पार्वतीं प्रति । पूर्वापराधभीतस्य कामस्योच्छ्वासितं मनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): धर्मेणेति । धर्मेण दारसंजिवृक्षालक्षणेनापि कर्त्रा । शर्वे ईश्वरे पार्वतीं प्रति पदं कारिते सति । `हृक्रोरन्यतरस्याम्` (पा.1|4|53) इति शर्वस्याणिकर्तुः कर्मत्वम् । पूर्वापराधभीतस्य कामस्य मन उच्छ्वसितम् । पुनरुज्जीवनावकाशो भवतीति सप्रत्याशमभूदित्यर्थः
अन्वयः: धर्मेण अपि शर्वे पार्वतीं प्रति पदं कारिते सति पूर्वाऽपराधभीतस्य कामस्य मनः उच्छ्वसितम् ।

Verse 15
अथ ते मुनयः सर्वे मानयित्वा जगद्गुरुम् । इदमूचुरनूचानाः प्रीतिकण्टकितत्वचः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथानूचानाः । साङ्गवेदप्रवक्तारः । `अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः` इत्यमरः (अ.को.2|7|12) । `उपेयिवाननाश्वाननूचानश्च` (पा.3|2|109) इति निपातः । प्रीत्या कण्टकिताः पुलकितास्त्वचो येषां ते तथोक्ताः । ते सर्वे मुनयो जगद्गुरुं हरं मानयित्वा पूजयित्वेदं वक्ष्यमाणमूचुः
अन्वयः: अथ अनूचानाः प्रीतिकण्टकितत्वचः ते सर्वे मुनयो जगद्गुरुं मानयित्वा इदम् ऊचुः ।

Verse 16
यद्ब्रह्म सम्यगाम्नातं यदग्नौ विधिना हुतम् । यच्च तप्तं तपस्तस्य विपक्वं फलमद्य नः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): यदिति । ब्रह्म वेदः । `वेदस्तत्त्वं तपो ब्रह्म` इत्यमरः सम्यङ् नियमपूर्वकमाम्नातमधीतमिति यत् । अग्नौ विधिना हुतमिति यत् । तपश्चान्द्रायणादिकं तप्तमिति च यत्तस्याध्ययनेज्यातपोरूपस्य आश्रमत्रयसाध्यस्य कृत्स्नस्यापि कर्मण इत्यर्थः । समुदायाभिप्रायकमेकवचनमन्यथावृत्त्यान्वयप्रसङ्गात् । न च नपुंसकैकवद्भावोऽनपुंसकेनेति नियमात् । फलं कार्यमद्य नोऽस्माकं विपक्वम् । सुनिष्पन्नमित्यर्थः । कर्मणि क्तः `पचो वः` (पा.8|2|52) इति निष्ठातस्य वत्वम्
अन्वयः: यद् ब्रह्म सम्यक् आम्नातं, यत् अग्नौ विधिना हुतं, यत् तपः तप्तं, तस्य फलम् अद्य नो विपक्वम् ।

Verse 17
यदध्यक्षेण जगतां वयमारोपितास्त्वया । मनोरथस्याविषयं मनोविषयमात्मनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): यदिति । यद्यस्मात्कारणाज्जगतामध्यक्षेणाधिपेन त्वया वयं मनोरथस्याभिलाषस्याविषयमगोचरमात्मनः स्वस्य मनोविषयं मनोदेशमारोपिताः प्रापिताः । तस्माद्विपक्वं फलमिति पूर्वेण संबन्धः । `सकलजगदन्वेष्टव्यस्य भगवतोऽपि वयमन्वेष्या भवाम; इति परमोत्कृष्टा वयमिति भावः
अन्वयः: यत् जगताम् अध्यक्षेण त्वया वयं मनोरथस्य अविषयम् आत्मनो मनोविषयम् आरोपिताः ।

Verse 18
यस्य चेतसि वर्तेथाः स तावत्कृतिनां वरः । किं पुनर्ब्रह्मयोनेर्यस्तव चेतसि वर्तते ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): यस्येति । यस्य जनस्य चेतसि वर्तेथाः, येन स्मर्यस इत्यर्थः । स तावत्स एव कृतिनां कृतकृत्यानां वरः श्रेष्ठः । ब्रह्मणो वेधसो वा योनेः कारणस्य । यद्वा वेदप्रमाणकस्य । तव चेतसि यो वर्तते । त्वया स्मर्यत इत्यर्थः । किं पुनः । स कृतिनां वर इति किमु वक्तव्यमित्यर्थः
अन्वयः: (हे भगवन् !) यस्य चेतसि वर्तेथाः, स तावत् कृतिनां वरः । ब्रह्मयोनेः तव चेतसि यो वर्तते स कृतिनां वर इति किमु ?

Verse 19
सत्यमर्काच्च सोमाच्च परमध्यास्महे पदम् । अद्य तूच्चैस्तरं तस्मात्स्मरणानुग्रहात्तव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सत्यमिति । अर्कात्सूर्याच्च सोमाच्चन्द्राच्च परमुच्चैः पदं स्थानमध्यास्महे तिष्ठामः । वयमिति शेषः । सत्यम् । `अधिशीङ्स्थासां कर्म` इति कर्मत्वम् । अद्य तु तव कर्तुः । स्मरणमेवानुग्रहः प्रसादस्तस्माद्धेतोः । ताभ्यामर्केन्दुभ्यामुच्चैस्तरमत्युच्चं पदम् । अध्यास्महे इति सम्बन्धः । उच्चैस्तरमिति द्रव्यप्रकर्षत्वान्नामुप्रत्ययः
अन्वयः: (हे भगवन् !) अर्कात् सोमाच्च परं पदम् अध्यास्महे सत्यम् । अद्य तु तव स्मरणाऽनुग्रहात् ताभ्याम् उच्चैस्तरं पदम् अध्यास्महे ।

Verse 20
त्वत्संभावितमात्मानं बहु मन्यामहे वयम् । प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): त्वदिति । वयं त्वया सम्भावितं सत्कृतं त्वत्संभावितमात्मानमात्मस्वरुपं बह्वधिकं यथा तथा मन्यामहे । तथाहि । उत्तमादरः सत्पुरुषकर्तृकः सत्कारः स्वगुणेषु विषये प्रायेण भूम्ना प्रत्ययं विश्वासमाधत्ते जनयति । सर्वस्यापि महाजनपरिग्रह एव पूज्यताहेतुरित्यर्थः
अन्वयः: (हे भगवन् !) वयं त्वत्संभावितम् आत्मानं बहु मन्यामहे । उत्तमादरः स्वगुणेषु स्वगुणेषु प्रायः प्रत्ययम् आधत्ते ।

Showing 11 to 20 of 95 verses