कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 11 to 20 of 86 verses
Verse 11
विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात् । कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): विसृष्टेति ॥ तया देव्या विसृष्टरागात्त्यक्तलाक्षारसरञ्जनादधरादधरोष्ठान्निवर्तितः । `निसृष्टरागात्` इति पाठे नितरां त्यक्तलाक्षारागात् । रागत्यगेन निष्प्रयोजनत्वादिति भावः । तथा स्तनाङ्गरागेणारुणितादरुणीकृतात् । पतनसमये तस्य स्तनयोरुपरोधादिति भावः । कन्दुकाच्च निवर्तितः । कुशाङ्कुराणामादानेन लवनेन परिक्षता व्रणिता अङ्गुलयो यस्य स तथोक्तः करः पाणिरक्षसूत्रप्रणय्यक्षमालासहचरःकृतः
अन्वयः: तया विसृष्टरागात् अधरात् निवर्तितः स्तनाऽङ्गरागाऽरुणितात् कन्दुकाच्च निवर्तितः, कुशाऽङ्कुरादानपरिक्षताऽङ्गुलिः करः अक्षसूत्रप्रणयी कृतः ।

Verse 12
महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैरपि या स्म दूयते । अशेत सा बाहुलतोपधायिनी निषेदुषी स्थण्डिल एव केवले ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): महार्हेति ॥ महानर्हो मूल्यं यस्याः सा महार्हा श्रेष्ठा या शय्या तस्यां परिवर्तनेन लुण्ठनेन च्युतैर्भ्रष्टैः स्वकेशपुष्पैरपि या देवी दूयते स्म क्लिश्यते स्म । पुष्पाधिकसौकुमार्यादिति भावः । सा देवी बाहुलतामुपधत्त उपधानीकरोतीति बाहुलतोपधायिनी सती केवले संस्तरणरहिते स्थण्डिले भूमावेवाशेत शयितवती । तथा निषेदुष्युपविष्टा च । `क्वसुश्च` (पा.3|2|107) इति क्वसुः । `उगितश्च` (पा.4|1|6) इति ङीप् । भूमावेव शयनादिव्यवहारो न जातूपरीत्यर्थः
अन्वयः: या महाऽर्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैः अपि दूयते स्म, सा बाहुलतोपधायिनी (सती) केवले स्थण्डिले एव अशेत, निषेदुषी च ।

Verse 13
पुनर्ग्रहीतुं नियमस्थया तया द्वयेऽपि निक्षेप इवार्पितम्द्वयम् । लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): पुनरिति ॥ नियमस्थया व्रतस्थया तया देव्या द्वयेऽपि द्वयं पुनर्ग्रहीतुं निक्षेपोऽर्पितमिव निक्षेपत्वेनार्पितं किमु । क्वचित् । `द्वयीषु` इति प्रामादिकः पाठः । कुत्र द्वये किं द्वयमर्पितमित्याह-तन्वीषु लतासु विलास एव चेष्टितं विलासचेष्टितं हरिणाङ्गनासु विलासदृष्टं चञ्चलावलोकितं च व्रतस्थायां तस्यां तयोरदर्शनाल्लतादिषु दर्शनाच्चार्पितमिवेत्युत्प्रेक्षा न तु वस्तुतोऽर्पणमस्तीति भावः
अन्वयः: नियमस्थया तया तन्वीषु लतासु विलासचेष्टितं हरिणाऽङ्गनासु विलोलदृष्टं च द्वयं द्वये अपि पुनः ग्रहीतुं निक्षेप इव अर्पितम् किमु ।

Verse 14
अतन्द्रिता सा स्वयमेव वृक्षकान्घटस्तनप्रस्रवणैर्व्यवर्धयत् । गुहोऽपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यमपाकरिष्यति ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): अतन्द्रितेति ॥ सा देवी स्वयमेवातन्द्रितासंजाततन्द्रा सती । तारकादित्वादितच्प्रययः । वृक्षकान्स्वल्पवृक्षान् । `अल्पे` (पा.5|3|85) इत्यल्पार्थे कप्रत्ययः । घटावेव स्तनौ तयोः प्रस्रवणैः प्रसृतपयोभिर्व्यवर्धयत् । गुहः कुमारोऽपि प्रथमाप्तजन्मनां प्रथमलब्धजन्मनाम् । अग्रजातानामित्यर्थः । येषां वृक्षकाणां संबन्धि पुत्रवात्सल्यं सुतप्रेम नापाकरिष्यति । उत्तरत्र कुमारोदयेऽपि न तेषु पुत्रवात्सल्यं निवर्तिष्यत इत्यर्थः
अन्वयः: सा स्वयम् एव अतन्द्रिता (सती) वृक्षकान् घदस्तनप्रस्रवणैः व्यवर्द्धयत्, गुहः अपि प्रथमाप्तजन्मनां येषां पुत्रवात्सल्यं न अपाकरिष्यति ।

Verse 15
अरण्यबीजाञ्जलिदानलालितास्तथा च तस्यां हरिणा विशश्वसुः । यथा तदीयैर्नयनैः कुतूहलात्पुरः सखीनाममिमीत लोचने ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): अरण्येति ॥ अरण्यबीजानां नीवारादीनामञ्जलयस्तेषां दानेन लालिता हरिणाश्च तस्यां देव्यां तथा विशश्वसुर्विस्रम्भं जग्मुः `समौ विस्रम्भविश्वासौ` इत्यमरः (अ.को.2|8|23) । यथा कुतूहलादौत्सुक्यात्तदीयैर्हरिण संबन्धिभिर्नयनैर्नेत्रैः । करणैः । स्वकीये लोचने सखीनां पुरः पुरतः अनेन तेषां संबन्धसहत्वमुक्तम् । अमिमीत । अक्षिपरिमाणतारतम्यज्ञानाय मानं चकारेत्यर्थः । केचित्तु सा पार्वती तदीयैर्नेत्रैः कुतूहलात्पुरोऽग्रे वर्तमानानां सखीनां लोचने अमिमीत व्रतस्थत्वात्मन इत्याहुः । `माङ् माने` इत्यस्माद्धातोर्लङ् । इयमेव खलु विश्वासस्य परा काष्ठा यदक्षिपीडनेऽपि न क्षुभ्यन्तीति भावः
अन्वयः: अरण्यबीजाऽञ्जलिदानलालिता हरिणाश्च तस्यां तथा विशश्वसुः, यथा कुतूहलात् तदीयैः नयनैः लोचने सखीनां पुरः अमिमीत ।

Verse 16
कृताभिशेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीतिनीम् । दिग्दृक्षवस्ताम् ऋषयोऽभ्युपागमन्न धर्मवृद्धेषु वयः समीक्ष्यते ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): कृतेति । कृताभिषेकां कृतस्नानां हुतजातवेदसं हुताग्निकाम् । कृतहोमामित्यर्थः । त्वया वल्कलेनोत्तरासङ्गवतीमुत्तरीयवतीं त्वगृत्तरासङ्गवतीम् । अधीतमस्या अस्तीत्यधीतिनीं स्तुतिपाठादि कुर्वतीम् । `इष्टादिभ्यश्च` (पा.5|2|88) इतीनिप्रत्ययः । तां देवीं दिदृक्षवो द्रष्टुमिच्छव ऋषयो मुनयोऽभ्युपागमन्समुपागताः । न चात्र कनिष्ठसेवादोष इत्याह-धर्मवृद्धेषु वयो न समीक्ष्यते न प्रमाणीक्रियते । सति धर्मज्यैष्ठ्ये वयोज्यैष्ठ्यं न प्रयोजकमित्यर्थः । तथा च मनुः- `न तेन वृद्धो भवति येनास्य पलितं शिरः । यो वा युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥` इति
अन्वयः: कृताऽभिषेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीम् अधीतिनीं तां दिदृक्षवः ऋषयः अभ्युपागमन्, धर्मवृद्धेषु वयो न समीक्ष्यते ।

Verse 17
विरोधिसत्त्वोज्झितपूर्वमत्सरं द्रुमैरभीष्टप्रसवार्चितातिथि । नवोटजाभ्यन्तरसंभृतानलं तपोवनं तच्च बभूव पावनम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): विरोधीति ॥ विरोधिभिः सत्त्वैर्गोव्याघ्रादिभिरुज्झितपूर्वमत्सरं त्यक्तपूर्ववैरम् । हिंसारहितमित्यर्थः । द्रुमैरभीष्टप्रसवेनेष्टफलेनार्चिताः पूजिता अतिथयो यस्मिंस्तत्तथोक्तम् । नवानामुटजानां पर्णशालानामभ्यन्तरेषु संभृताः संचिता अनला अग्नयो यस्मिंस्तत्तथोक्तं तच्च तपोवनम् । पावयतीति पावनं बभूव । अहिंसातिथिसत्काराग्निपरिचर्याभिर्जगत्पावनं बभूवेत्यर्थः
अन्वयः: विरोधिसत्वोज्झितपूर्वमत्सरं द्रुमैः अभीष्टप्रसवाऽर्चिताऽतिथि नवोटजाऽभ्यन्तरसंभृताऽनलं तच्च तपोवनं पावनं बभूव ।

Verse 18
यदा फलं पूर्वतपःसमाधिना न तावता लभ्यममंस्त काङ्क्षितम् । तदानपेक्ष्य स्वशरीरमार्दवं तपो महत्सा चरितुं प्रचक्रमे ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): यदेति ॥ सा देवी यदा यस्मिंन्काले तावता तावत्प्रमाणेन पूर्वतपःसमाधिना पूर्वेणानुष्ठीयमानप्रकारेण तपोनियमेन काङ्क्षितं फलं लभ्यं लब्धुं शक्यं नामंस्त । अशक्यममंस्तेत्यर्थः । तदा तत्काले । अविलम्बेनेत्यर्थः । स्वशरीरस्य मार्दवं मृदुत्वं सौकुमार्यमनपेक्ष्याविगणय्य महद् दुश्चरं तपश्चरितुं साधयितुं प्रचक्रम उपचक्रमे
अन्वयः: सा यदा तावता पूर्वसमाधिना काङ्क्षितं फलं लभ्यं न अमंस्त, तदा स्वशरीरमार्दवम् अनपेक्ष्य महत् तपः चरितुं प्रचक्रमे ।

Verse 19
क्लमं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं व्यगाह्यत । ध्रुवं वपुः काञ्चनपद्मनिर्मितं मृदु प्रकृत्या च ससारमेव च ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): क्लममिति ॥ या देवी कन्दुकलीलया कन्दुकक्रीडयापि क्लमं ययौ ग्लानिं प्राप तया देव्या मुनीनां चरितं तीव्रं तपो व्यगाह्यत प्रविष्टम् । अत्रोत्प्रेक्षते-ध्रुवमस्या वपुः काञ्चनपद्मेन सुवर्णकमलेन निर्मितं घटितम् । अत एव प्रकृत्या पद्मस्वभावेन मृदु च सुकुमारमपि काञ्चनस्वभावेन ससारं च कठिनमेव । तथा च तदुपादानकत्वाद्देव्या वपुषः सुकुमारस्थापि तीव्रतपःक्षमत्वमित्युत्प्रेक्षार्थः
अन्वयः: या कन्दुकलीलया अपि क्लमं ययौ, सा मुनीनां चरितं व्यागाह्यत । ध्रुवम् अस्या वपुः काञ्चनपद्मनिर्मितं, (यत्) प्रकृत्या मृदु ससारम् एव च ।

Verse 20
शुचौ चतुर्णां ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा । विजित्य नेत्रप्रतिघातिनीं प्रभामनन्यदृष्टिः सवितारमैक्षत ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): शुचाविति ॥ शुचौ ग्रीष्मे शुचिस्मिता विशदमन्दहासा सुमध्यमा पार्वती ज्वलतां दीप्तिमतां चतुर्णां हविर्भुजामग्नीनां मध्यगता सती । नेत्रे प्रतिहन्तीति तां नेत्रप्रतिघातिनीं प्रभां सावित्रं तेजो विजित्य न विद्यतेऽन्यत्र दृष्टिर्यस्याः सानन्यदृष्टिः सती सवितारं सूर्यमैक्षत ददर्श । `ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः` इति स्मरणात् । पञ्चाग्निमध्ये तपश्चचारेत्यर्थः तत्र सवितैव पञ्चमोऽग्निः- `अग्निः सविता सवितैवाग्रिः` इति श्रौतलिङ्गात्
अन्वयः: शुचौ शुचिस्मिता सुमध्यमा ज्वलतां चतुर्णां हविर्भुजां मध्यगता (सती) नेत्रप्रतिघातिनीं प्रभां विजित्य अनन्यदृष्टिः (सती) सवितारम् ऐक्षत ।

Showing 11 to 20 of 86 verses