कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 81 to 86 of 86 verses
Verse 81
विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् । यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): विवक्षतेति । च्युतात्मना नष्टस्वभावेनात एव दोषं दूषणं विवक्षता वक्तुमिच्छतापि त्वयेशं प्रत्येकम् `अलक्ष्यजन्मता` इत्येतदेकम् । वच इत्यर्थः । साधु भाषितं सम्यगुक्तम् । कुतः ? यमीश्वरमात्मभुवोऽपि ब्रह्माणोऽपि । `ब्रह्मात्मभूः सुरज्येष्ठ` इत्यमरः (अ.को.1|1|16) । कारणमामनन्त्युदाहरन्ति । विद्वांस इति शेषः । `पाध्राध्मास्थाम्नादाणी-` त्यादिना मनादेशः । स ईश्वरः कथं लक्ष्यप्रभवो लक्ष्यजन्मा भविष्यति । अनादिनिधनस्य भगवतः कारणशङ्काकलङ्कश्च नान्विष्यत इत्यर्थः
अन्वयः: च्युतात्मना, दोषं विवक्षता अपि त्वया ईशं प्रति एकं साधु भाषितम् । यम् आत्मभुवोऽपि कारणम् आमनन्ति स कथं लक्ष्यप्रभवो भविष्यति ।

Verse 82
अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः । ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): अलमिति । अथवा विवादेन कलहेनालम् । त्वया यथा येन प्रकारेण स ईश्वरः श्रुतोऽशेषं कार्त्स्न्येन तथाविधस्तावत्प्रकार एवास्तु । मम मनस्त्वत्रेश्वरे भावः श्रृङ्गार एकोऽद्वितीयो रस आस्वाद्यो यस्य तत्तथा स्थितम् । तथाहि । कामवृत्तिः स्वेच्छाव्यवहारी वचनीयमस्थानसङ्गापवादं नेक्षते न विचारयति । न हि स्वेच्छासंचारिणो लोकापवादाद् बिभ्यतीति भावः
अन्वयः: (अथवा) विवादेन अलम् । त्वया यथा स श्रुतः, अशेषः तथाविधः अस्तु । मम मनः अत्र भावैकरसं स्थितम् । कामवृत्तिः वचनीयं न ईक्षते ।

Verse 83
निवार्यतामालि किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः । न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): निवार्यतामिति । हे आलि सखि ! `आलिः सखी वयस्या च` इत्यमरः (अ.को.2|6|12) । स्फुरितोत्तराधरः स्फुरणभूयिष्ठोऽयं वटुर्माणवकः पुनः किमपि विवक्षुर्वक्तुमिच्छुः । ब्रुवः सन्नन्तादुप्रत्ययः । निवार्यताम् । तर्हि वक्तुमेव कथं न ददासीत्याह-तथाहि । यो महतः पूज्यानपभाषतेऽपवदति न केवलं स पापभाग्भवति । किंतु तस्मादपभाषमाणात्पुरुषाद्यः श्रृणोति सोऽपि पापभाक् । भवतीति । शेषः । अत्र स्मृतिः-`गुरोः प्राप्तः परीवादो न श्रीतव्यः कथंचन । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ।` इति
अन्वयः: हे आलि ! स्फुरितोत्तराऽधरः अयं वटुः पुनः किमपि विवक्षुः निवार्यताम् । यो महतः अपभाषते न केवलं स पापभाक् भवति, यः तस्मात् श्रृणोति सोऽपि पापभाग् भवति ।

Verse 84
इतो गमिश्याम्यथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला । स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): इत इति । अथवेतोऽन्यत्र गमिष्यामीति वादिनी वदन्ती स्तनाभ्यां भिन्नवल्कला रयवशात्कुचस्रस्तचीरा बाला पार्वती चचाल । वृषराजकेतनो वृषभध्वजश्च स्वरुपमास्थाय निजरुपमाश्रित्य कृतस्मितः सन् तां पार्वतीं समाललम्बे जग्राह
अन्वयः: `अथवा इतो गमिष्यामि` इति वादिनी स्तनभिन्नवल्कला बाला चचाल । वृषराजकेतनः स्वरूपम् आस्थाय कृतस्मितः सन् तां समाललम्बे ।

Verse 85
तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिर्निक्षेपणाय पदमुद्धृतमुद्वहन्ती । मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): तमिति । तं देवं वीक्ष्य वेपथुमती कम्पवती सरसाङ्गयष्टिः स्विन्नगात्री । महादेवदर्शनेन देव्याः सात्विकभावोदयः उक्तः । निक्षेपणायान्यत्र विन्यासायोद्धृतमुत्क्षिप्तं पदमङ्‌ध्रिमुद्वहन्ती शैलाधिराजतनया पार्वती मार्गेऽचलस्तस्य व्यतिकरेण समाहत्या । अवरोधनेनेति यावत् । आकुलिता संभ्रमिता सिन्धुर्नदीव । `देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्` इत्यमरः (अ.को.3|3|108) । न ययौ न तस्थौ । लज्जयेति भावः । वसन्ततिलकावृत्तमेतत्
अन्वयः: तं वीक्ष्य वेपथुमती सरसाऽङ्गयष्टिः निक्षेपणाय उद्धृतं पदम् उद्वहन्ती शैलाऽधिराजतनया मार्गाऽचलव्यतिकराकुलिता सिन्धुः इव न ययौ न तस्थौ ।

Verse 86
अद्यप्रभृत्यवनताङ्गि तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ । अह्नाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): अद्येति । चन्द्रमौलौ शिवे । हे अवनताङ्गि पार्वति ! अद्य प्रभृति । अस्माद्दिनादारभ्येत्यर्थः । प्रभृतियोगादद्येति सप्तम्यर्थवाचिना पञ्चम्यर्थो लक्ष्यते । तव तपोभिः क्रीतः । दासृ दाने । दासत आत्मनं ददातीति दासोऽस्मीति वादिनि वदति सति । सा देव्यह्नाय सपदि । `स्राग्झटित्यञ्जसाह्नाय द्राङ् मङ्क्षु सपदि द्रुतम्` इत्यमरः । नियमजं तपोजन्यं क्लमं क्लेशमुत्ससर्ज । फलप्राप्त्या क्लेशं विसस्मारेत्यर्थः । तथाहि । क्लेशः फलेन फलसिद्ध्या पुनर्नवतां विधत्ते पूर्ववदेवाक्लिष्टतामापादयतीत्यर्थः । सफलः क्लेशो न क्लेश इति भावः
अन्वयः: `हे अवनताङ्गि ! अद्यप्रभृति तव तपोभिः क्रीतः दासः अस्मि` इति चन्द्रमौलौ वादिनि (सति) सा अह्नाय नियमजं क्लमम् उत्ससर्ज । हि क्लेशः फलेन पुनः नवतां विधत्ते ।

Showing 81 to 86 of 86 verses