कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 61 to 70 of 86 verses
Verse 61
न वेद्मि स प्रार्थितदुर्लभः कदा सखीभिरस्रोत्तरमीक्षितामिमाम् । तपःकृशामभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): नेति । प्रार्थितः सन्दुर्लभः स देवस्तपःकृशां तपसा कृशां क्षीणामत एव सखीभिरस्त्रोत्तरमश्रुप्रधानं यथा भवति तथेक्षितामिमां नः सखीं तस्येन्द्रस्यावग्रहेणानावृष्ट्या क्षतां पीडिताम् । `वृष्टिर्वर्षं तद्विघातोऽवग्रहावग्रहौ समौ` इत्यमरः (अ.को.2|9|15) । अवग्रहः । वर्षप्रतिबन्ध इत्यर्थः । सीतां कृष्टभुवम् । `सीता लाङ्गलपद्धतिः` इत्यमरः (अ.को.2|9|15) । वृषा वासव इव । `वासवो वृत्रहा वृषा` इत्यमरः (अ.को.2|9|15) । कदाभ्युपपत्स्यते कदानुग्रहिष्यति न वेद्मि । अत्र वाक्यार्थः कर्म । तदवग्रहक्षतामित्यनेनैव गतार्थत्वे तत्पदस्य वैयर्थ्यापत्तेस्तदिति भिन्नं पदं वेद्मीत्यस्य कर्मेति युक्तमुत्पश्यामः
अन्वयः: प्रार्थितदुर्लभः स तपःकुशां सखीभिः अस्त्रोत्तरम् ईक्षिताम् इमां सखीं तदवग्रहक्षतां सीताम् इव कदा अभ्युपपत्स्यते (इति) न वेद्मि ।

Verse 62
अगूढसद्भावमितीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया । अयीदमेवं परिहास इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): अगूढेति । इङ्गितज्ञया पार्वतीहृदयाभिज्ञया । `इङ्गितं हृद्गतो भावः` इति सज्जनः । तया गौरीसख्येत्येवमगूढसद्भावं प्रकाशितसदभिप्रायं यथा तथा निवेदितो ज्ञापितो निष्ठा मरणमवधिर्यस्य स नैष्ठिको यावज्जीवब्रह्मचारी सुन्दरो विलासी । नैष्ठिकश्चासौ सुन्दरश्चेति तथोक्तः । द्वयोरन्यतरस्य विशेषणत्वविवक्षायां विशेषणसमासः । किंतु नैषठिकत्वविशेषणेन कामित्वविरोधः । अथवा देवस्यालौकिकमहिमत्वादुभयं तात्त्विकमिति न विरोधः । अव्यञ्जितं हर्षलक्षणं मुखरागादि हर्षलिङ्गं यस्य तथाभूतः सन् । अयि गौरि ! अयीति कोमलामन्त्रणे । इदं त्वत्सखीभाषितमेवम् । सत्यं किमित्यर्थः । परिहासः केलिर्वा । `द्रवकेलिपरीहासाः` इत्यमरः (अ.को.1|7|34) । इत्येवमुमामपृच्छत्पृष्टवान्
अन्वयः: इङ्गितज्ञया तया इति अगूढसद्भावं निवेदितो नैष्ठिकसुन्दरः अव्यञ्जितहर्षलक्षणः (सन्) `अयि ! इदम् एवं, परिहासो वा` ? इति उमाम् अपृच्छत् ।

Verse 63
अथाग्रहस्ते मुकुलीकृताङ्गुलौ समर्पयन्ती स्फटिकाक्षमालिकाम् । कथं चिदद्रेस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथानन्तरमद्रेस्तनया पार्वती मुकुलीकृताङ्गुलौ संपुटीकृताङ्गुलौ । अग्रश्चासौ हस्तश्चेति समानाधिकरणसमासः । हस्ताग्राग्रहस्तयोर्गुणगुणिनोर्भेदाभेदादिति वामनः । तस्मिन्नग्रहस्ते स्फटिकानामक्षमालिकां जपमालिकामर्पयन्त्यामुञ्चती कथंचिन्महता कष्टेन चिरव्यवस्थापितवाक्चिरेण स्वीकृतवाक् । एतेन लज्जोपरोधो व्यज्यते । मिताक्षरं परिमितवर्णं यथा तथाभाषत बभाषे
अन्वयः: अथ अद्रेः तनया मुकुलीकृताऽङ्गुलौ अग्रहस्ते स्फटिकाऽक्षमालिकां समर्पयन्ती कथंचित् चिरव्यवस्थापितवाक् मिताऽक्षरम् अभाषत ।

Verse 64
यथा श्रुतं वेदविदां वर त्वया जनोऽयमुच्चैःपदलङ्घनोत्सुकः । तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): यथेति । हे वेदविदांवर वैदिकश्रेष्ठ ! त्वया यथा श्रुतां सम्यक् श्रुतम् । श्रुतार्थमेवाह-अयं जनः । स्वयमित्यर्थः । उच्चैःपदस्य शिवलाभरूपोन्नतस्थानस्य लङ्घन आक्रमण उत्सुकः । किमत्रायुक्तमित्यत्राह- इदं तपस्तदवाप्तेस्तस्योच्चैः पदस्यावाप्तेः प्राप्तेः साधनं किलेत्यलीके । अतितुच्छत्वादसाधकमेवेत्यर्थः । तर्हि त्यज्यतामित्याशङ्क्य दुराशा मां न मुञ्चतीत्याशयेनाह-मनोरथानां कामानामगतिरविषयो न विद्यते । न हि स्वशक्तिपर्यालोचनया कामाः प्रवर्तन्त इति भावः
अन्वयः: हे वेदविदां वर ! त्वया यथा श्रुतम् । अयं जनः उच्चैःपदलङ्घनोत्सुकः । इदं तपः तदवाप्तिसाधनं, (यतः) मनोरथानाम् अगतिः न विद्यते ।

Verse 65
अथाह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुनरेव वर्तसे । अमङ्गलाभ्यासरतिं विचिन्त्य तं तवानुवृत्तिं न च कर्तुमुत्सहे ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथ वर्णी ब्रह्मचारी । `वर्णिनो ब्रह्मचारिणः` इत्यमरः (अ.को.2|7|46) । आह । उवाचेत्यर्थः । `आहेति भूतार्थे लट्प्रयोगो भ्रान्तमूलः` इत्याह वामनः । किमित्याह-महेश्वरो महादेवो विदितः । मया ज्ञायत इत्यर्थः । बुद्धर्थत्वाद्वर्तमाने क्तप्रत्ययः, तद्योगात्षष्ठी च । येन त्वं प्राग्भग्नमनोरथा कृतेतिभावः । पुनरेव त्वं तमीश्वरमर्थयसे तदर्थिन्येव तत्कामैव प्रवर्तसे । तत्प्रभावमनुभूयापीति भावः । अनुसरणे को दोषस्तत्राह- अमङ्गलाभ्यासेऽमङ्गलाचारे रतिर्यस्य तं यथोक्तमीश्वरं विचिन्त्य वितवानुवृत्तिमनुसरणं कर्तुं नोत्सहे । नानुमन्तुं शक्नोमीत्यर्थः
अन्वयः: अथ वर्णी आह- `महेश्वरो विदितः, पुनः त्वं तदर्थिनी वर्तसे ? तम् अमङ्गलाऽभ्यासरतिं विचिन्त्य तव अनुवृत्तिं कर्तुं न उत्सहे` ।

Verse 66
अवस्तुनिर्बन्धपरे कथं नु ते करोऽयमामुक्तविवाहकौतुकः । करेण शंभोर्वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): अवस्त्विति । अवस्तुनि तुच्छवस्तुनि निर्बन्धोऽभिनिवेशः परं प्रधानं यस्यास्तस्याः संबुद्धिरवस्तुनिर्बन्धपरे पार्वति, आमुक्तमासञ्जितं विवाहे यत्कौतुकं हस्तसूत्रं तद्यस्य स तेऽयं करः । `कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले` इति शास्वतः । वलयीकृताहिना भूषणीकृतसर्पेण शंभोर्महादेवस्य करेण करणभूतेन । तदेव प्रथमं तत्प्रथमम् । अपरिचितत्वादतिभयंकरमिति भावः । तच्च तदवलम्बनं ग्रहणं चेति कथं नु सहिष्यते । न कथंचिदपि सहिष्यत इत्यर्थः । अग्रतो यद्भावि तद् दूरेऽवतिष्ठतां प्रथमं करग्रह एव दुःसह इति भावः
अन्वयः: हे अवस्तुनिर्बन्धपरे ! आमुक्तविवाहकौतुकः ते अयं करः वलयीकृताऽहिना शम्भोः करेण तत्प्रथमाऽवलम्बनं कथं नु सहिष्यते ?

Verse 67
त्वमेव तावत्परिचिन्तय स्वयं कदा चिदेते यदि योगमर्हतः । वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितबिन्दुवर्षि च ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): त्वमेवेति । हे गौरि ! त्वमेव स्वयमात्मना । तावदिति मात्रार्थे। यावन्मात्रं विचारणीयं तावन्मात्रमित्यर्थः । इदमेवोदाहृतं च गणव्याख्याने । परिचिन्तय पर्यालोचय । किमिति । कलहंसलक्षणं कलहंसचिह्नम् । `चिह्नं लक्ष्म च लक्ष्मणम्` इत्यमरः वध्वा नवोढाया दुकूलं वधूदुकूलम् । `वधूः स्नुषा मनोढा स्त्री` इति विश्वः । तथा शोणितबिन्दून्वर्षतीति यथोक्तम् । आर्द्रमित्यर्थः । गजाजिनं च कृत्तिवासश्च । तत्पिनाकिन इत्याशयः । एते कदाचिज्जात्वपि योगं संगतिमर्हतो यद्यर्हतः किम् । एतत् त्त्वमेव चिन्तयेति पूर्वेणान्वयः । पाणिग्रहणकाले वधूवरयोर्वस्त्रान्तग्रन्थिः क्रियते । कृत्तिवाससा पाणिपीडने तु दुकूलधारिण्यास्तव कथं संघटिष्यत इति भावः
अन्वयः: हे गौरि ! त्वम् एव तावत् परिचिन्तय । कलहंसलक्षणं वधूदुकूलं शोणितबिन्दुवर्षि गजाऽजिनं च, एते कदाचित् योगम् अर्हतः यदि ? ।

Verse 68
चतुष्कपुष्पप्रकराविकीर्णयोः परोऽपि को नाम तवानुमन्यते । अलक्तकाङ्कानि पदानि पादयोर्विकीर्णकेशासु परेतभूमिषु ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): चतुष्केति । चतुष्के गृहविशेषे यः पुष्पप्रकरस्तत्राऽवकीर्णयोर्न्यस्तयोः । कुसुमास्तृतदिव्यभवनभूसंचारोचितयोरित्यर्थः । तव पादयोरलक्तकाङ्कानि लाक्षारञ्जितानि पदानि पादाकाराणि पादन्यासचिह्नानि । `पदं शब्दे च वाक्ये च व्यवसायापदेशयोः । पादतच्चिह्नयोः` इति विश्वः । विकीर्णा विक्षिप्ताः केशाः शवशिरोरुहा यासु तासु विकार्णकेशासु । `अतत्स्थं तत्र दृष्टं च` इति वचनात् । `स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्` (पा.4|1|54) इति विकल्पान्न ङीष् । परेतभूमिषु प्रेतभूमिषु । श्मशानेष्वित्यर्थः । परोऽपि शत्रुरपि को नामानुमन्यते । न कोऽपीत्यर्थः । नामेति कुत्सायाम् । पिनाकपाणिग्रहणे तस्य परेतभूसंचारित्वेन साहचर्यात्तवापि तत्र संचारोऽवश्यंभावीति भावः
अन्वयः: चतुष्कपुष्पप्रकरावकीर्णयोः तव पादयोः अलक्तकाऽङ्कानि पदानि विकीर्णकेशासु परेतभूमिषु परोऽपि के नाम अनुमन्यते ?

Verse 69
अयुक्तरूपं किमतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत् । स्तनद्वयेऽस्मिन्हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): अयुक्तेति । त्रिनेत्रवक्षः, त्र्यम्बकालिङगनमित्यर्थः । तव तत्संबन्धितया सुलभमपि सुप्रापं च । भवतीति शेषः । तवेति शेषे षष्ठी । `न लोकाव्यये-` त्यादिना कृद्योगलक्षणषष्ठ्या निषेधात् । अतः परमस्मात्त्रिनेत्रवक्षोलाभादन्यदयुक्तरूपमत्यन्तायुक्तं किं वद । न किंचिदित्यर्थः । `प्रशंसायां रूपप्` (पा.5|3|66) इति रूपप्प्रत्ययः । कुतः । यद्यस्मात्कारणाद्धरिचन्दनास्पदे हरिचन्दनस्यास्पदे स्थानभूतेऽस्मिन्स्तनद्वये चिताभस्म श्मशानभस्म तदेव रजश्चूर्ण कर्तृ । पदं करिष्यति पदं निधास्यति । भर्तुर्भवस्य भस्माङ्गरागादिति भावः
अन्वयः: त्रिनेत्रवक्षः तव सुलभम् अपि, अतःपरम् अयुक्तरुपं किं ? वद यत् हरिचन्दनास्पदे अस्मिन् स्तनद्वये चिताभस्मरजः पदं करिष्यति ।

Verse 70
इयं च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्यया । विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): इयमिति । इयं च ते तव पुरत आदावेवान्या विडम्बना । परिहास इत्यर्थः । का सेत्यत्राह-ऊढया परिणीतया । वहेः कर्मणि क्तः । वारणराजहार्यया त्वयाधिष्ठितमारुढं वृद्धमुक्षाणं वृद्धोक्षम् । `अचतुरे-` त्यादिना निपातः । विलोक्य महाजनः साधुजनः स्मेरमुखः स्मितमुखो भविष्यत्युपहसिष्यति यत् । इयमिति पूर्वेण सबन्धः । स्मेरेति `नमिकम्पिस्म्यजसे-` त्यादिना रप्रत्ययः
अन्वयः: इयं च ते पुरतः अन्या बिडम्बना, यत् ऊढया वारणराजहार्यया त्वया अधिष्ठितं वृद्धोक्षं विलोक्य महाजनः स्मेरमुखो भविष्यति ।