कर्तव्यं वो न पश्यामि स्याच्चेत्किं नोपपद्यते । शङ्के मत्पावनायैव प्रस्थानं भवतामिह ॥
Metre: अनुष्टुप्
तथापि तावत्कस्मिंश्चिदाज्ञां मे दातुमर्हथ । विनियोगप्रसादा हि किङ्कराः प्रभविष्णुषु ॥
Metre: अनुष्टुप्
एते वयममी दाराः कन्येयं कुलजीवितम् । ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥
Metre: अनुष्टुप्
इत्यूचिवांस्तमेवार्थं दरीमुखविसर्पिणा । द्विरिव प्रतिशब्देन व्याजहार हिमालयः ॥
Metre: अनुष्टुप्
अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु । ऋषयश्चोदयामासुः प्रत्युवाच स भूधरम् ॥
Metre: अनुष्टुप्
उपपन्नमिदं सर्वमतः परमपि त्वयि । मनसः शिखराणां च सदृशी ते समुन्नतिः ॥
Metre: अनुष्टुप्
स्थाने त्वां स्थावरात्मानं विष्णुमाहुस्तथा हि ते । चराचराणां भूतानां कुक्षिराधारतां गतः ॥
Metre: अनुष्टुप्
गामधास्यत्कथं नागो मृणालमृदुभिः फणैः । आ रसातलमूलात्त्वमवालम्बिष्यथा न चेत् ॥
Metre: अनुष्टुप्
अच्छिन्नामलसंतानाः समुद्रोर्म्यनिवारिताः । पुनन्ति लोकान्पुण्यत्वात्कीर्तयः सरितश्च ते ॥
Metre: अनुष्टुप्
यथैव श्लाघ्यते गङ्गा पादेन परमेष्ठिनः । प्रभवेण द्वितीयेन तथैवोच्छिरसा त्वया ॥
Metre: अनुष्टुप्