कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 61 to 70 of 95 verses
Verse 61
कर्तव्यं वो न पश्यामि स्याच्चेत्किं नोपपद्यते । शङ्के मत्पावनायैव प्रस्थानं भवतामिह ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): कर्तव्यमिति । कर्तव्यं कार्यं वो युष्माकं न पश्यामि । निःस्पृहत्वादिति भावः । अथ स्याच्चेद्विद्येत यदि, किं नोपपद्यते किं नाम न संभवति । सर्वं सुलभमेवेत्यर्थः । अथवा किमत्र प्रयोजनचिन्तयेत्याह-- मत्पावनाय मच्छोधनायैव भवतामिह विषये प्रस्थानम् । इमं देशमुद्दिश्येदं प्रयाणमित्यर्थः । मन्ये तर्कयामि
अन्वयः: कर्तव्यं वो न पश्यामि, अथ स्यात् चेत् किं न उपपद्यते ? मत्पावनाय एव भवताम् इह प्रस्थानं मन्ये ।

Verse 62
तथापि तावत्कस्मिंश्चिदाज्ञां मे दातुमर्हथ । विनियोगप्रसादा हि किङ्कराः प्रभविष्णुषु ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तथापीति । तथापि भवतां निःस्पृहत्वेपि कस्मिंश्चित् कर्मणीति शेषः । आज्ञामिदं कुर्वित्यादेशं तावदिदानीं मे मह्यं दातुमर्हथ । मदनुग्रहबुद्ध्येति भावः । हि यस्मात्किंकरा भृत्याः । प्रभवन्तीति प्रभविष्णुषु प्रभुषु विषये । `भुवश्च` (पा.3|2|138) इतीष्णुच्प्रत्ययः । विशेषेण नियोगो विनियोगः । प्रेषणमेव प्रसादोऽनुग्रहो येषां ते तथोक्ताः । अन्यथा स्वस्वामिभावो निष्फल इति भावः
अन्वयः: तथाऽपि कस्मिंस्चित् आज्ञाम् इदानीं मे दातुम् अर्हथ । हि किङ्कराः प्रभविष्णुषु विनियोगप्रसादाः ।

Verse 63
एते वयममी दाराः कन्येयं कुलजीवितम् । ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): एत इति । किं बहुना एते वयममी दारा इयं कुलस्य जीवितं प्राणभृतां परमप्रेमास्पदमित्यर्थः । कन्या । अत्रैषां मध्ये येन जनेन वः कार्यं प्रयोजनं ब्रूत । तदिति शेषः । येन तदपि दोयत इति भावः । रत्नहिरण्यादिकं तु न मे गण्यमित्याह-बाह्यवस्तुकनकरत्नादिष्वनास्थानादरः । प्रसज्यप्रतिषेधेऽपि नञ्समास इष्यते । अदेयं न किंचिदस्तीति भावः
अन्वयः: एते वयम्, अमी दाराः, कुलजीवितम् इयं कन्या । अत्र येन वः कार्यं, ब्रूत । बाह्यवस्तुषु अनास्था ।

Verse 64
इत्यूचिवांस्तमेवार्थं दरीमुखविसर्पिणा । द्विरिव प्रतिशब्देन व्याजहार हिमालयः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): इतीति । इत्यूचिवानुक्तवान् । वचेः क्वसुप्रत्ययः । हिमालयो हिमवान्गुहानां मुखेषु विवरेषु विसर्पतीति तथोक्तेन प्रतिशब्देन तमेव पूर्वोक्तमेवार्थं द्विर्द्विवारम् । `द्वित्रिचतुर्भ्यः सुच्` (पा.5|4|18) इति सुच्प्रत्ययः । व्याजहार बभाषे
अन्वयः: इति ऊचिवान् हिमालयो गुहामुखविसर्पिणा प्रतिशब्देन तम् अर्थं द्विः व्याजहार इव ।

Verse 65
अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु । ऋषयश्चोदयामासुः प्रत्युवाच स भूधरम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथानन्तरमृषय उदाहरणानि कथाप्रसङ्गास्त एव वस्तून्यर्थास्तेष्वग्रं नयतीत्यग्रणीस्तमग्रण्यं प्रगल्भम् । `सत्सूद्विषे-` त्यादिना क्विप् । `अग्रग्रामाभ्यां नयतेरिति वक्तव्यम्` इति णत्वम् । अङ्गिरसं नामर्षि नोदयामासुः प्रतिवक्तुम् प्रेरयामासुः । सोऽङ्गिरा भूधरं हिमवन्तं प्रत्युवाच
अन्वयः: अथ ऋषयः उदाहरणवस्तुषु अग्रगण्यम् अङ्गिरसं नोदयामासुः । स भूधरम् प्रत्युवाच ।

Verse 66
उपपन्नमिदं सर्वमतः परमपि त्वयि । मनसः शिखराणां च सदृशी ते समुन्नतिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): उपपन्नमिति । इदम् `एते वयममी दाराः` (६/६३) इत्याद्युक्तं सर्वमतः परमतोऽधिकमपि त्वय्युपपन्नं युज्यते । तथाहि । ते मनसः शिखराणां च समुन्नतिः सदृशी । शिखराणीव मनो महोन्नतमित्यर्थः । किं नाम दुष्करमुन्नतचित्तानामिति भावः । प्रस्तुताप्रस्तुतयोर्मनः शिखरयोरौपम्यस्य गम्यत्वाद्दीपकालंकारः
अन्वयः: (हे पर्वतराज !) इदं सर्वम् अतः परम् अपि त्वयि उपपन्नम्, ते मनसः शिखराणां च सदृशी समुन्नतिः ।

Verse 67
स्थाने त्वां स्थावरात्मानं विष्णुमाहुस्तथा हि ते । चराचराणां भूतानां कुक्षिराधारतां गतः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स्थान इति । त्वां स्थावरात्मानं स्थावररूपिणं विष्णुमाहुः `स्थावराणां हिमालयः` इति गीतावचनात् । स्थने युक्तम् । युक्तार्थेऽव्ययमेतत् । `युक्ते द्वे सांप्रतं स्थाने` इत्यमरः । तथाहि । ते तव कुक्षिश्चराचराणां जङ्गमस्थावररूपिणां भूतानां पृथिव्यादीनामाधारतां गतः । तवेव विष्णोः कुक्षिरेवंभूत इति भावः
अन्वयः: त्वां स्थावरात्मानं विष्णुम् आहुः, स्थाने । तथा हि ते कुक्षिः चराऽचराणां भूतानाम् आधारतां गतः ।

Verse 68
गामधास्यत्कथं नागो मृणालमृदुभिः फणैः । आ रसातलमूलात्त्वमवालम्बिष्यथा न चेत् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): गामिति । नागः शेषाहिर्मृणालमृदुभिर्बिसकोमलैः फणैर्गां भुवं कथमघास्यद्धारयेत् । त्वमारसातलमूलात्पातालपर्यन्तम् । विकल्पादसामासः नावालम्बिष्यथाश्चेत्पादैर्नावलम्बेथा यदि । त्वदवलम्बनादेव भुजगराजोऽपि भुवं बिभर्तीत्यर्थः । अत्र क्रियातिपत्त्यभावाल्लृङ्प्रयोगश्चिन्त्यः
अन्वयः: नागो मृणालमृदुभिः फणैः गां कथम् अधास्यत् त्वम् आरसातलमूलात् न अवलम्बिष्यथ न चेत् ।

Verse 69
अच्छिन्नामलसंतानाः समुद्रोर्म्यनिवारिताः । पुनन्ति लोकान्पुण्यत्वात्कीर्तयः सरितश्च ते ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अच्छिन्नेति । अच्छिन्ना अविच्छिन्ना अमलाश्च संतानाः प्रबन्धाः प्रवाहाश्च यासां तस्तथोक्ताः समुद्रोर्मिभिरनिवारिताः । पारगमनादन्तःप्रवेशाच्चेति भावः । ते तव कीर्तयः सरितश्च गङ्गादयः पुण्यत्वात्पवित्रत्वाल्लोकान्पुनन्ति पावयन्ति । लोकपावनाः खलु पुण्यश्लोका इति भावः । केवलप्रकृतविषयस्तुल्ययोगितालङ्कारः
अन्वयः: अच्छिन्नाऽमलसन्तानाः समुद्रोर्म्यनिवारिताः ते कीर्तयः सरितश्च पुण्यत्वात् लोकान् पुनन्ति ।

Verse 70
यथैव श्लाघ्यते गङ्गा पादेन परमेष्ठिनः । प्रभवेण द्वितीयेन तथैवोच्छिरसा त्वया ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): यथैवेति । गङ्गा भागीरथी । प्रभवत्यस्मादिति प्रभवस्तेन कारणेन परमे तिष्ठतीति परमेष्ठिनो विष्णोः । परमे कित्प्रत्ययः । `तत्पुरुषे कृति बहुलम्` (पा.6|3|14) इत्यलुक् `-परमेवर्हिर्दिव्यग्निभ्यः स्थः` इति षत्वम् । पादेन चरणेन यथैव श्लाध्यते प्रशस्यते तथैव द्वितीयेन प्रभवेणोच्छिरसा त्वया श्लाध्यते । हरिचरणवत्तीर्थस्यापि तीर्थभूतस्त्वमिति भावः
अन्वयः: गङ्गा प्रभवेण परमेष्ठिनः पादेन यथैव श्लाध्यते तथैव द्वितीयेन प्रभवेण उच्छिरसा त्वया श्लाध्यते ।