यत्र कल्पद्रुमैरेव विलोलविटपांशुकैः । गृहयन्त्रपताकाश्रीरपौरादरनिर्मिता ॥
Metre: अनुष्टुप्
यत्र स्फटिकहर्म्येषु नक्तमापानभूमिषु । ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्त्युपहारताम् ॥
Metre: अनुष्टुप्
यत्रौषधिप्रकाशेन नक्तं दर्शितसंचराः । अनभिज्ञास्तमिस्राणां दुर्दिनेष्वभिसारिकाः ॥
Metre: अनुष्टुप्
यौवनान्तं वयो यस्मिन्नातङ्कः कुसुमायुधः । रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्ययः ॥
Metre: अनुष्टुप्
भ्रूभेदिभिः सकम्पोष्ठैर्ललिताङ्गुलितर्जनैः । यत्र कोपैः कृताः स्त्रीणामाप्रसादार्थिनः प्रियाः ॥
Metre: अनुष्टुप्
संतानकतरुच्छायासुप्तविद्याधराध्वगम् । यस्य चोपवनं बाह्यं सुगन्धिर्गन्धमादनः ॥
Metre: अनुष्टुप्
अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम् । स्वर्गाभिसंधिसुकृतं वञ्चनामिव मेनिरे ॥
Metre: अनुष्टुप्
ते सद्मनि गिरेर्वेगादुन्मुखद्वाःस्थवीक्षिताः । अवतेरुर्जटाभारैर्लिखितानलनिश्चलैः ॥
Metre: अनुष्टुप्
गगनादवतीर्णा सा यथावृद्धपुरस्सरा । तोयान्तर्भास्करालीव रेजे मुनिपरम्परा ॥
Metre: अनुष्टुप्
तानर्घ्यानर्घ्यमादाय दूरात्प्रत्युद्ययौ गिरिः । नमयन्सारगुरुभिः पादन्यासैर्वसुन्धराम् ॥
Metre: अनुष्टुप्