कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 41 to 50 of 95 verses
Verse 41
यत्र कल्पद्रुमैरेव विलोलविटपांशुकैः । गृहयन्त्रपताकाश्रीरपौरादरनिर्मिता ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): यत्रेति । यत्र नगरे विलोलानि चञ्चलानि विटपेष्वंशुकानि येषां तैः कल्पद्रुमैरेवापौरादरेण पौरादरं विनैव निर्मिता । अयत्नसिद्धेत्यर्थः, गृहेषु यानि यन्त्राण्याधारदारूणि तेषु पताकास्तासां श्रीः संभवतीति शेषः । तत्र लम्बाम्बराः कल्पतरव एव वैजयन्तीति संभाव्यन्त इत्यर्थः
अन्वयः: यत्र विलोलविटपांऽशुकैः कल्पद्रुमैः एव अपौरादरनिर्मिता गृहयन्त्रपताकाश्रीः (भवति) ।

Verse 42
यत्र स्फटिकहर्म्येषु नक्तमापानभूमिषु । ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्त्युपहारताम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): यत्रेति । यत्र पुरे नक्तं रात्रौ स्फटिकहर्म्येष्वापानभूमिषु पानगोष्ठीप्रदेशेषु ज्योतिषां नक्षत्राणां प्रतिबिम्बान्युपहारतां पुष्पोपहारत्वं मौक्तिकोपहारत्वं वा प्राप्नुवन्ति
अन्वयः: यत्र नक्तं स्फटिकहर्म्येषु आपानभूमिषु ज्योतिषां प्रतिबिम्बानि उपहारतां प्राप्नुवन्ति ।

Verse 43
यत्रौषधिप्रकाशेन नक्तं दर्शितसंचराः । अनभिज्ञास्तमिस्राणां दुर्दिनेष्वभिसारिकाः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): यत्रेति । यत्र पुरे दुर्दिनेषु मेधाच्छन्नदिवसेषु नक्तमोषधीनां तृणज्योतिषां प्रकाशेन संचरन्त एभिरिति संचराः पन्थानः । `गोचरसंचर` इत्यादिना घप्रत्ययान्तो निपातः दर्शितसंचारः प्रकाशितमार्गा अभिसारिकाः कान्तार्थिन्यः । `कान्तार्थिनी तु या याति संकेतं साभिसारिका` इत्यमरः (अ.को.2|6|10) । तमिस्राणां तमसाम् । कृद्योगात्कर्मणि षष्ठी । अनभिज्ञाः । तमांसि नाभिजानन्तीत्यर्थः
अन्वयः: यत्र दुर्दिनेषु नक्तम् ओषधिप्रकाशेन दर्शितसञ्चराः अभिसारिकाः तमिस्राणाम् अनभिज्ञाः ।

Verse 44
यौवनान्तं वयो यस्मिन्नातङ्कः कुसुमायुधः । रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्ययः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): यौवनान्तमिति । यस्मिन्पुरे वयो यौवनान्तं यौवनावधिकम् । सर्वेऽप्यजरा इत्यर्थः । तया कुसुमायुधात्कामात् । अन्य इति शेषः । अन्तको मृत्युर्न । अस्तीति शेषः । विरहिणां तादृग्दुःखोत्पादकत्वादन्तकत्त्वोपचारः । कामं विना मृत्युर्नास्तीत्यर्थः । अतएव तत्कार्यभूतमरणाभाव इत्याशयोनाह-रतीति । रतिखेदसमुत्पन्ना निद्रा सुप्तिरेव संज्ञाविपर्ययश्चेतनापगमः । न तु दीर्घनिद्रारुप इत्यर्थः । अत्रत्याः सर्वेऽजरामरा इति श्लोकतात्पर्यार्थः । अन्तयत्यन्तं करोतीत्यन्तकः । अन्तयतेस्तत्करोतीति ण्यन्ताद्यत्प्रत्ययः
अन्वयः: यस्मिन् वयो यौवनाऽन्तं, कुसुमायुधात् (अन्यः) अन्तको न, रतिखेदसमुत्पन्ना निद्रा एव संज्ञाविपर्ययः ।

Verse 45
भ्रूभेदिभिः सकम्पोष्ठैर्ललिताङ्गुलितर्जनैः । यत्र कोपैः कृताः स्त्रीणामाप्रसादार्थिनः प्रियाः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): भ्रूभेदिभिरिति तत्र पुरे प्रिया युवानो भ्रुभेदिभिर्भ्रूभङ्गवद्भिः सकम्पा ओष्ठा येषु तैर्ललितान्यङ्गुलितर्जनानि येषु तैः, स्त्रीणां कोपैर्मानाख्यैराप्रसादार्थिन आप्रसादं प्रसादपर्यन्तमर्थिनो याचकाः कृताः । न तु शत्रुकोपैरिति भावः
अन्वयः: यत्र प्रियाः भ्रूभेदिभिः सकम्पोष्ठैः ललिताऽङ्गुलितर्जनैः स्त्रीणां कोपैः आप्रसादाऽर्थिनः कृताः ।

Verse 46
संतानकतरुच्छायासुप्तविद्याधराध्वगम् । यस्य चोपवनं बाह्यं सुगन्धिर्गन्धमादनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): संतानकेति । किंचेति चार्थः । संतानकतरोश्छायासु सुप्ता विद्याधरा देवताविशेषास्त एवाध्वगा यस्मिंस्तत्तथोक्तम् गन्धवद् गन्धाढ्यम् गन्धमादनं नाम गिरिर्यस्य पुरस्य बहिर्भवं बाह्यमुपवनमारामः । संतानकतरुच्छायेत्यत्र पूर्वपदार्थबाहुल्यसंभवेऽपि `शलभच्छायम्` `इक्षुच्छायम्` इति वत्समर्थच्छायानिष्पत्तेस्तदपेक्षाभावात् `छाया बाहुल्ये` (पा.2|4|22) इति नपुंसकत्वं नास्तीत्यनुसंधेयम् अत्र `गन्धवद् गन्धमादनम्` इत्यागन्तुकः पाठः । प्राचीनः पाठस्तु `सुगन्धिर्गन्धमादनः` इति पुंल्लिङ्गान्तः । अतएव क्षीरस्वामिना `गन्धमादनमन्ये च` इत्यत्र गन्धेन मादयतीति गन्धमादन इति व्याख्याय प्रयोगे च पुलिङ्गता दृश्यत इत्याशयेनोक्तम् `सुगन्धिर्गन्धमादनः` इति कालिदास इति
अन्वयः: सन्तानकतरुच्छायासुप्तविद्याधराऽध्वगं गन्धवत् गन्धमादनं यस्य बाह्यम् उपवनम् ।

Verse 47
अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम् । स्वर्गाभिसंधिसुकृतं वञ्चनामिव मेनिरे ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अथेति । ते दिवि भवा दिव्या मुनयो हिमवत इदं हैमवतं पुरं प्रेक्ष्य स्वर्गाभिसंधिना स्वर्गोद्देशेन यत्सुकृतं ज्योतिष्टोमाद्यनुष्ठानं तत्स्वर्गाभिसंधिसुकृतं वञ्चनां प्रतारणामिव मेनिरे । हिमवन्नगरमवेक्ष्य स्वर्गस्य पुण्यफलत्वं वदता वेदेन वयं विप्रलब्धा इत्यर्थः । स्वर्गादतिरमणीयमिति भावः
अन्वयः: अथ ते दिव्या मुनयः हैमवतं पुरं प्रेक्ष्य स्वर्गाऽभिसन्धिसुकृतं वञ्चनाम् इव मेनिरे ।

Verse 48
ते सद्मनि गिरेर्वेगादुन्मुखद्वाःस्थवीक्षिताः । अवतेरुर्जटाभारैर्लिखितानलनिश्चलैः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): त इति । लिखितानलनिश्चलैः । चित्रगतज्वलननिष्पन्दैरिति वेगप्रकर्षोक्तिः । जटाभारैरुपलक्षितास्ते मुनयः । द्वारि तिष्ठन्तीति द्वाःस्थाद्वारपालकाः `प्रतिहारे द्वारपालद्वाःस्थद्वाःस्थितदर्शकाः` इत्यमरः । उन्मुखैरूर्ध्वमुखैर्द्वाःस्थैर्वीक्षिताः सन्तः । न तु विनिवारिता इत्यर्थः । गिरेर्हिमवतः सद्मनि वेगादवतेरुरवतीर्णवन्तः
अन्वयः: लिखिताऽनलनिश्चलैः जटाभारैः (उपलक्षिताः) ते उन्मुखद्वाःस्थवीक्षिताः (सन्तः) गिरैः सद्मनि वेगात् अवतेरुः ।

Verse 49
गगनादवतीर्णा सा यथावृद्धपुरस्सरा । तोयान्तर्भास्करालीव रेजे मुनिपरम्परा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): गगनादिति । गगनादवतीर्णावरुढा यथावृद्धं वृद्धानुक्रमेण स्थिताः पुरःसरा अग्रेसरा यस्यां सा तथोक्ता । अनुपसर्जनाधिकारान्न ङीप् । सा मुनिपरम्परा मुनिपंक्तिस्तोयान्तस्तोयाभ्यन्तरे भास्कराली प्रतिबिम्बितार्कपङ्क्तिरिव रेजे । एतेन मुनीनां तेजस्वित्वेऽपि सुखसंदर्शनं सूचयति । भास्कराणां भूयिष्ठत्वसंभावनार्थ तोयान्तरित्युक्तम् । अतएव बहुत्वसिद्धिश्च
अन्वयः: गगनात् अवतीर्णा यथा वृद्धपुरःसरा सा मुनिपरम्परा तोयाऽन्तः भास्कराली इव रेजे

Verse 50
तानर्घ्यानर्घ्यमादाय दूरात्प्रत्युद्ययौ गिरिः । नमयन्सारगुरुभिः पादन्यासैर्वसुन्धराम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तानिति । गिरिर्हिमवानर्घ्यमर्घार्थं जलमादाय सारगुरुभिरन्तःसारदुर्भरैः पादन्यासैर्वसुंधरां नमयन्नधः प्रापयन् । अघमर्हन्तीत्यर्ध्यान् पूज्यान् । दण्डादित्वाद्यप्रत्ययः । तान्मुनीन्दूरात्प्रत्युद्ययौ
अन्वयः: गिरिः अर्घ्यम् आदाय सारगुरुभिः पादन्यासैः वसुन्धरां नमयन् अर्घ्यान् तान् दूरात् प्रत्युद्ययौ ।

Showing 41 to 50 of 95 verses