कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 51 to 60 of 95 verses
Verse 51
धातुताम्राधरः प्रांशुर्देवदारुबृहद्भुजः । प्रकृत्यैव शिलोरस्कः सुव्यक्तो हिमवानिति ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): धात्विति । धातुवत्ताम्रोऽधरो यस्य स तथोक्तः । अन्यत्र धातुरेव ताम्रोऽधरो यस्य । प्रांशून्नतः । उभयत्रापि समानम् । देवदारुवद् बृहन्तौ भुजौ यस्य सः तथोक्तः । देवदारव एव बृहन्तौ भुजौ यस्येत्यन्यत्र । प्रकृत्या स्वभावेनैव शिलावदुरो यस्य स शिलौरस्कः । शिलैवेत्यन्यत्र `उरःप्रभृतिभ्यः कप्` (पा.5|4|151) इति कप् । अतो हिमवानिति सुव्यक्तः । वर्तमाने क्तः । सत्यं स एवायं हिमवानिति तद्धर्मप्रत्यभिज्ञानादवधारित इत्यर्थः
अन्वयः: धातुताम्राऽधरः प्रांशुः देवदारुबृहद्भुजः प्रकृत्या एव शिलोरस्कः (अतः) हिमवान् इति सुव्यक्तः (अभूत्) ।

Verse 52
विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः । स तैराक्रमयामास शुद्धान्तं शुद्धकर्मभिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): विधीति । स हिमवान्विधिना शास्त्रेण प्रयुक्तसत्कारैः कृतार्चनैः, शुद्धकर्मभिरदुष्टचरितैः । शुद्धान्तप्रवेशार्हैरित्यर्थः । तैर्मुनिभिः स्वयं मार्गस्य दर्शयतीति दर्शको दर्शयिता सन् । पश्यतेर्ण्यन्तादण्प्रत्ययः । शुद्धान्तमन्तःपुरमाक्रमयामास । प्रवेशयामासेत्यर्थः । अत्र क्रमेरगत्यर्थत्वात् `गतिबुद्धी-` त्यादिना तैरित्यस्य न कर्मत्वम् ?
अन्वयः: स विधिप्रयुक्तसत्कारैः शुद्धकर्मभिः तैः स्वयं मार्गस्य दर्शकः सन् शुद्धाऽन्तम् आक्रामयामास

Verse 53
तत्र वेत्रासनासीनान्कृतासनपरिग्रहः । इत्युवाचेश्वरान्वाचं प्राञ्जलिः पृथिवीधरः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति । वेत्रं लताविशेषः । तत्र शुद्धान्ते वेत्रासनासीनान्वेत्रमयविष्टरोपविष्टानीश्वरान्प्रभून्मुनीन्भूधरेश्वरो हिमवान्कृतासनपरिग्रहः । उपविष्टः सन्नित्यर्थः । प्राञ्जलिः कृताञ्जलिः सन् । इत्येवं वाचमुवाच
अन्वयः: तत्र वेत्रासनासीनान् ईश्वरान् भूघरेश्वरः कृतासनपरिग्रहः (सन्) प्राञ्जलिः इति उवाच ।

Verse 54
अपमेघोदयं वर्षमदृष्टकुसुमं फलम् । अतर्कितोपपन्नं वो दर्शनं प्रतिभाति मे ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अपेति । अतर्कितोपपन्नमविचारितमेवोपगतम् । अत्यन्ताऽसंभावितमित्यर्थः । वो युष्माकं दर्शनमपमेघोदयं वर्षमनभ्रा वृष्टिस्तथादृष्टं कुसुमं यस्य तत्तथोक्तं फलं च तन्मे प्रतिभाति । अतिदुर्लभलाभः संवृत्त इत्यर्थः । अत्र मेघोदयकुसुमरूपकारणयोरभावेऽपि वर्षफलरुपकार्ययोरुदयाभिधानाद्विभावना । मुनिदर्शनस्य विशिष्टवृत्तित्वेन च रुपणाद्रूपकालंकारश्चेत्युभयोः संसृष्टिः
अन्वयः: अतर्कितोपपन्नं वो दर्शनम् अपमेघोदयं वर्षम्, अदृष्टकुसुमं फलं मे प्रतिभाति ।

Verse 55
मूढं बुद्धमिवात्मानं हैमीभूतमिवायसम् । भूमेर्दिवमिवारूढं मन्ये भवदनुग्रहात् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): मूढमिति । भवदनुग्रहादात्मानं मां मूढं बुद्धिं विनाकृतं बुद्धमिव मूढो भूत्वा यो बुद्धवांस्तमिव । कर्तरि क्तः । आयसमयोविकारं हैमीभूतम् । आयसत्वं विहाय सौवर्णत्वं प्राप्तमिवेत्यर्थः । भूमेर्भूलोकाद्दिवं स्वर्गमारुढमिव मन्ये । ज्ञानरूपस्थानान्यद्य मे परमुत्कृष्यन्त इति भावः
अन्वयः: (हे प्रभवः) भवदनुग्रहात् मूढम् आत्मानं बुद्धम् इव, आयसं हैमीभूतम् इव, भूमेः दिवम् आरुढम् इव मन्ये ।

Verse 56
अद्यप्रभृति भूतानामधिगम्योऽस्मि शुद्धये । यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अद्येति । अद्यप्रभृतीत आरभ्य भूतानां प्राणिनां शुद्धयेऽधिगम्योऽस्मि । शुद्ध्यर्थिनां तीर्थभूतोऽस्मीत्यर्थः । भवदागमनादिति शेषः । हि यस्मात् । यदर्हद्भिः सद्भिरध्यासितमधिष्ठितम् । जुष्टमिति यावत् । तत्तीर्थ प्रचक्षते । `निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ` इत्यमरः
अन्वयः: अद्यप्रभृति भूतानां शुद्धये अधिगम्यः अस्मि । हि यत् अर्हद्भिः अद्यासितं तत् तीर्थ प्रचक्षते ।

Verse 57
अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः । मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अवैमिति । हे द्विजोत्तमाः ! आत्मानं मां द्वयेनैव पूतं शुद्धमवैम्येव गच्छामि । केन द्वयेन । मूर्ध्नि गङ्गाप्रपातेन मन्दाकिनीपातेन वो युष्माकं धौतयोः क्षालितयोः पादयोरम्भसा च । गङ्गाजलवत्पादाम्भसः पावनत्वमित्यौपम्यं गम्यते । तच्च `प्रस्तुताप्रास्तुतयोः` इति दीपकालंकारः । `प्रियः प्रियतराख्यानम्` इति लक्षणात्प्रियोऽलंकार इति केचित्
अन्वयः: हे द्विजोत्तमाः ! मूर्ध्नि गङ्गाप्रपातेन वः धौतपादाऽम्भसा च द्वयेन एव आत्मानं पूतम् अवैमि ।

Verse 58
जङ्गमं प्रैष्यभावे वः स्थावरं चरणाङ्कितम् । विभक्तानुग्रहं मन्ये द्विरूपमपि मे वपुः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): जङ्गममिति । हे मुनयः ! द्विरूपं जङ्गमस्थावरात्मकत्वाद् द्विप्रकारकमपि मे वपुर्विभक्तानुग्रहं विभज्य कृतप्रसादं मन्ये । कुतः । जंगमं वपुर्वो युष्माकं प्रैष्यभावे कैङ्कर्ये, स्थितमिति शेषः । `प्रादूहोढोढ्येषैष्येषु वृद्धिर्वक्तव्या` इति वृद्धिः । `नियोज्यकिंकरप्रैष्यभुजिष्यपरिचारकाः` इत्यमरः । स्थावरं वपुश्चरणाङ्कितम् । अयमेव हि महाननुग्रहो दासजनस्य यत्कर्मसु नियोजनं मूर्धनि पादन्यासश्चेति तात्पर्यार्थः
अन्वयः: (हे ब्रह्मर्षयः !) जङ्गमम् वः प्रैष्यभावे स्थावरं वः चरणाऽङ्कितं (सत्) द्विरूपम् अपि मे वपुः विभक्ताऽनुग्रहं मन्ये ।

Verse 59
भवत्संभावनोत्थाय परितोषाय मूर्च्छते । अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): भवदिति । व्याप्ता दिगन्ता यैस्तानि व्याप्तदिगन्तानि । महान्त्यपीत्यर्थः । मे ममाङ्गानि भवत्संभावनोत्थाय युष्मदनुग्रहजन्याय मूर्च्छते व्याप्नुवते परितोषाय न प्रभवन्ति न पर्याप्नुवन्ति । अलमर्थयोगाच्चतुर्थी । यथा महत्स्वपि मद्गात्रेषु न माति तथा मे हर्षो वर्धत इत्यर्थः
अन्वयः: व्याप्तदिगन्तानि अपि मे अङ्गानि भवत्संभावनोत्थाय मूर्च्छते परितोषाय न प्रभवन्ति ।

Verse 60
न केवलं दरीसंस्थं भास्वतां दर्शनेन वः । अन्तर्गतमपास्तं मे रजसोऽपि परं तमः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): नेति । भास्वतां तेजस्विनां च युष्माकं दर्शनेन केवलं दरीसंस्थं गुहागतं तमो ध्वान्तरूपमेव नापास्तम् । किंतु मेऽन्तर्गतमन्तरात्मगतं रजसो रजोगुणात्परमनन्तरं तमोऽज्ञानरूपमप्यपास्तम् । रजस्तु पादन्यासैरेवापास्तमिति भावः । प्रसिद्धैर्भास्वद्भिर्बाह्यं तमोऽपास्यत एभिस्त्वान्तरमपीति व्यतिरेको व्यज्यते
अन्वयः: भास्वतां वो दर्शनेन केवलं दरीसंस्थम् एव न (किन्तु) अन्तर्गतं रजसोऽपि परं मे तमः अपास्तम् ।

Showing 51 to 60 of 95 verses