इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् । अथो वयस्यां परिपार्श्ववर्तिनीं विवर्तितानञ्जननेत्रमैक्षत ॥
Metre: वंशस्थम्
सखी तदीया तमुवाच वर्णिनं निबोध साधो तव चेत्कुतूहलम् । यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः ॥
Metre: वंशस्थम्
इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी । अरूपहार्यं मदनस्य निग्रहात्पिनाकपाणिं पतिमाप्तुमिच्छति ॥
Metre: वंशस्थम्
असह्यहुंकारनिवर्तितः पुरा पुरारिमप्राप्तमुखः शिलीमुखः । इमां हृदि व्यायतपातमक्षणोद्विशीर्णमूर्तेरपि पुष्पधन्वनः ॥
Metre: वंशस्थम्
तदाप्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनधूसरालका । न जातु बाला लभते स्म निर्वृतिं तुषारसंघातशिलातलेष्वपि ॥
Metre: वंशस्थम्
उपात्तवर्णे चरिते पिनाकिनः सबाष्पकण्ठस्खलितैः पदैरियम् । अनेकशः किन्नरराजकन्यका वनान्तसंगीतसखीररोदयत् ॥
Metre: वंशस्थम्
त्रिभागशेषासु निशासु च क्षणम्निमील्य नेत्रे सहसा व्यबुध्यत । क्व नीलकण्ठ व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना ॥
Metre: वंशस्थम्
यदा बुधैः सर्वगतस्त्वमुच्यसे न वेत्सि भावस्थमिमं जनं कथम् । इति स्वहस्ताल्लिखितश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः ॥
Metre: वंशस्थम्
यदा च तस्याधिगमे जगत्पतेरपश्यदन्यं न विधिं विचिन्वती । तदा सहास्माभिरनुज्ञया गुरोरियं प्रपन्ना तपसे तपोवनम् ॥
Metre: वंशस्थम्
द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपःसाक्षिषु दृष्टमेष्वपि । न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः ॥
Metre: वंशस्थम्