कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 51 to 60 of 86 verses
Verse 51
इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् । अथो वयस्यां परिपार्श्ववर्तिनीं विवर्तितानञ्जननेत्रमैक्षत ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): इतीति । इतीत्थं द्विजन्मना द्विजेन प्रविश्यान्तर्गत्वा । आप्तवद्रहस्यमुद्भाव्येत्यर्थः । अभिहितोक्ता सा पार्वती मनोगतं हृदिस्थं वरं शंसितुं वक्तुं न शशाक समर्था नाभूत् । लज्जयेति शेषः । अथोऽनन्तरं परिपार्श्ववर्तिनीं वयस्यां सखीं विवर्तितं विचालितमनञ्जनं व्रतवशाद्वर्जितकज्जलं नेत्रं यस्मिन्कर्मणि तत्तथैक्षत नेत्रसंज्ञयैव प्रत्युत्तरं वाचयांचकारेत्यर्थः
अन्वयः: इति द्विजन्मना प्रविश्य अभिहिता सा मनोगतं, शंसितुं न शशाक । अथो परिपार्श्ववर्तिनीं वयस्यां विवर्तितानञ्जननेत्रम् ऐक्षत ।

Verse 52
सखी तदीया तमुवाच वर्णिनं निबोध साधो तव चेत्कुतूहलम् । यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): सखीति ॥ तस्याः पार्वत्या इयं तदीया सखी वयस्यातम् । `वर्णः प्रशस्तः` इति क्षीरस्वामी । सोऽस्यास्तीति वर्णी तं ब्रह्मचारिणम् । `वर्णाद्ब्रह्मचारिणि` (पा.5|2|134) इतीनिप्रत्ययः । उवाच ब्रूते स्म । किमिति । हे साधो विद्वन् ! तव कुतूहलं चेत् । श्रोतुमस्तीति शेषः । तर्हि निबोधावगच्छ । आकर्णयेत्यर्थः । `बुध अवगमने` इति धातोर्भौवादिकाल्लोट् । श्रोतव्यं किं तदाह-यस्मै लाभायेदं यदर्थम् । `अर्थेन सह नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम् इति वार्तिकनियमात्क्रियाविशेषणम् । एतया पार्वत्याम्भोजं पद्ममुष्णवारणमातपत्रमिव वपुः शरीरं तपःसाधनं कृतम् । तपःप्रवृत्तिकारणमुच्यते श्रूयतामित्यर्थः
अन्वयः: तदीया सखी तं वर्णिनम् उवाच-हे साधो ! तव कुतूहलं चेत् निबोध । यदर्थम् एतया अम्भोजम् उष्णवारणम् इव वपुः तपःसाधनं कृतम् ।

Verse 53
इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी । अरूपहार्यं मदनस्य निग्रहात्पिनाकपाणिं पतिमाप्तुमिच्छति ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): इयमिति । मानिनीन्द्राणीप्रभृतीरतिशय्य वर्तितव्यमित्यभिमानवतीयं पार्वत्यधिश्रियोऽधिकैश्वर्यान्महेन्द्रप्रभृतीनिन्द्रादींश्चतसृणां दिशामीशानिन्द्रयमवरुणकुबेरान् । `तद्धितार्थे-` त्यादिनोत्तरपदसमासः । अवमत्यवधूय मदनस्य निग्रहान्निबर्हणाद्धेतोः । अकामुकत्वादित्यर्थः । रूपेण सौन्दर्येण हार्यो वशीकरणीयो न भवतीत्यरुपहार्यं पिनाकः पाणौ यस्य तं पिनाकपाणिं हरम् । `प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः` इति साधु । पतिं भर्तारमाप्तुमिच्छति । एतेन संकल्पावस्था सूचिता
अन्वयः: मानिनी इयम् अधिश्रियः महेन्द्रप्रभृतीन् चतुर्दिगीशान् अवमत्य मदनस्य विग्रहात् अरूपहार्यं पिनाकपाणिं पतिम् आप्तुम् इच्छति ।

Verse 54
असह्यहुंकारनिवर्तितः पुरा पुरारिमप्राप्तमुखः शिलीमुखः । इमां हृदि व्यायतपातमक्षणोद्विशीर्णमूर्तेरपि पुष्पधन्वनः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): असह्येति । पुरा पूर्वमसह्येन सोढुमशक्येन हुङ्कारेण रौद्रेण निवर्तितः । अतएव पुरारिं हरमप्राप्तमुखोऽप्राप्तफलो विशीर्णमूर्तेर्नष्टशरीरस्यापि पुष्पधन्वनः कामस्य शिलीमुखो बाण इमां पार्वतीं हृदि व्यायतः । सुदूरावगाढ इति यावत् । तादृक्पातः प्रहारो यस्मिन्कर्मणि तत्तथाक्षिणोदकर्शत् । दग्धदेहस्यापि मार्गणो लग्नः । `मृदुः सर्वत्र बाध्यते` इति भावः । अनेन `विवृण्वती शैलसुतापि भावम्` (३/६८) इत्यत्रोक्तं चक्षुः प्रीतिमनः- सङ्गाख्यमवस्थाद्वयमनन्तरावस्थोपयोगितयानूद्य कार्श्यवस्था सूचिता
अन्वयः: पुरा असह्यहुङ्कारनिवर्तितः पुराऽरिम् अप्रप्तमुखः विशीर्णमूर्ते अपि पुष्पधन्वनः शिलीमुखः इमां हृदि व्यायतपातम् अक्षिणोत्।

Verse 55
तदाप्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनधूसरालका । न जातु बाला लभते स्म निर्वृतिं तुषारसंघातशिलातलेष्वपि ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): तदेति । तदेति छेदः । तदा प्रभृति । तत आरभ्येत्यर्थः । सप्तम्यर्थस्यापि दाप्रत्ययस्य पञ्चम्यर्थे लक्षणा । प्रभृतियोगे पञ्चमीनियमात् । पितुर्गृह उन्मदनोत्कटमन्मथा ललाटस्थालंकारो ललाटिका तिलकः । `कर्णललाटत्कनलंकारे` इति कन्प्रत्ययः । तस्याश्चन्दनेन धूसरा धूसरंवर्णा अलकाश्चूर्णकुन्तला यस्याः सा तथोक्ता बाला पार्वती जातु कदाचिदपि तुषारसंघातास्तुषारघनास्त एव शिलास्तासां तलेषूपरिभागेष्वपि निर्वृतिं सुखं न लभते स्म । एतेनारत्यपरसंज्ञा विषयविद्वेषावस्था द्वादशावस्थापक्षे संज्वरश्च व्यज्यते
अन्वयः: तदा प्रभृति पितुः गुहे उन्मदना ललाटिकाचन्दनधूसराऽलका बाला तुषारसङ्घातशिलातलेषु अपि जातु निर्वृतिं न लभते ।

Verse 56
उपात्तवर्णे चरिते पिनाकिनः सबाष्पकण्ठस्खलितैः पदैरियम् । अनेकशः किन्नरराजकन्यका वनान्तसंगीतसखीररोदयत् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): उपातेति । पिनाकिनः शंभोश्चरिते त्रिपुरविजयादिचेष्टित उपात्तवर्णेप्रारब्धगीतक्रमे । `गीतक्रमेस्तुतौ वेदे वर्णशब्दः प्रयुज्यते` । इति हलायुधः । सबाष्पे गद्गदे कण्ठे स्खलितैर्विशीर्णैः पदैः सुप्तिङन्तरुपैः करणैः वनान्ते संगीतेन निमित्तेन सखीर्वयस्याः । किन्नरराजकन्यका अनेकशो बहुशोऽरोदयदश्रुमोक्षमकारयत् । हरचरितगानजनितमदनवेदनामेनां वीक्ष्यकिंनर्योऽपि रुरुदुरिति भावः । अत्र वर्णस्खलनलक्षणकार्योक्त्या पुनः पुनस्तत्कारणीभूतमूर्च्छावस्थाप्रादुर्भावो व्यज्यतेऽन्यथा सखीरोदनानुपपतेरिति । द्वादशावस्थापक्षे तु प्रलापावस्था च व्यज्यते । `प्रलापो गुणकीर्तनम्` इत्यालंकारिकाः
अन्वयः: इयं पिनाकिनः चरिते उपात्तवर्णे सबाष्पकण्ठस्खलितैः पदैः वनाऽन्तसङ्गीतसखीः किन्नरराजकन्यकाः अनेकशः अरोदयत् ।

Verse 57
त्रिभागशेषासु निशासु च क्षणम्निमील्य नेत्रे सहसा व्यबुध्यत । क्व नीलकण्ठ व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): त्रिभागेति । किंचेति चार्थः । शिष्यत इति शेषः । कर्मणि घञ् । त्रिभ्यो भागेभ्यः शेषास्वशिष्टासु । यद्वा रात्रेस्त्रियामत्वेन प्रसिद्धत्वात्तृतीयो भागास्त्रिभागः । संख्याशब्दस्य वृत्तिविषये पूरणार्थत्वमिष्यते । यथा `शतांशः` `सहस्रांशः` इति । त्रिभागः शेषो यासां तासु निशासु क्षणं क्षणमात्रं नेत्रे निमील्य मीलयित्वा सहसा सद्यः । हे नीलकण्ठ ! क्व व्हजसि कुत्र गच्छसीत्यलक्ष्या निर्विषया वाग्वचनं यस्याः सा तथोक्ता तथासत्ये मिथ्याभूते कण्ठेऽर्पितं बाहुबन्धनं यस्याः सा तथा सती व्यबुध्यत विबुद्धवती । एतेन जागरोन्मादौ सूचितौ
अन्वयः: त्रिभागशेषासु निशासु क्षणं नेत्रे निमील्य सहसा `हे नीलकण्ठ ! क्व व्रजसि` इति अलक्ष्यवाक् असत्यकण्ठाऽर्पितबाहुबन्धना (सती) व्यबुध्यत ।

Verse 58
यदा बुधैः सर्वगतस्त्वमुच्यसे न वेत्सि भावस्थमिमं जनं कथम् । इति स्वहस्ताल्लिखितश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): यदेति । यदा यत इत्यर्थः । यदेति हेतावित्युक्त्वा गणव्याख्यानेऽस्योदाहृतत्वात् । त्वं बुधैर्मनीषिभिः सर्वगतः सर्वव्यापीत्युच्यसे । तत इत्यध्याहारः । भावे रत्याख्ये तिष्ठतीति भावस्थम् । त्वय्यनुरागिणमित्यर्थः । इमं जनम् । इममित्यात्मनिर्देशः । कथं न वेत्सि न जानासीति मुग्धया मूढया अकिंचित्करश्चित्रगतोपालम्भ इत्यजानानयेत्यर्थः । तया स्वहस्तेनोल्लिखितश्चित्रे लिखितश्चन्द्रशेखरो रहस्येकान्ते । सखीमात्रसमक्षमित्यर्थः । उपालभ्यत साधिक्षेपमुक्तश्च । उक्तसमुच्चयार्थश्चकारः । यद्यपि रहसीत्युक्तं तथापि सखीसमक्षकरणाल्लज्जत्यगो व्यज्यत एव
अन्वयः: `यदा त्वं बुधैः सर्वगत उच्यसे, ततः भावस्थम् इमं जनं कथं न वेत्सि ?` इति मुग्धया स्वहस्तोल्लिखितः चन्द्रशेखरो रहसि उपालभ्यत ।

Verse 59
यदा च तस्याधिगमे जगत्पतेरपश्यदन्यं न विधिं विचिन्वती । तदा सहास्माभिरनुज्ञया गुरोरियं प्रपन्ना तपसे तपोवनम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): यदेति । जगत्पतेस्तस्येश्वरस्याधिगमे प्राप्तावन्यं विधिमुपायं विचिन्वती मृगयमाणा यदा नापश्यत्तदेयं पार्वती गुरोः पितुरनुज्ञयास्माभिः सह तपसे तपश्चरितुं तपोवनं प्रपन्ना प्राप्ता
अन्वयः: जगत्पतेः तस्य अधिगमे अन्यं विधिं विचिन्वती (पार्वती) यदा न अपश्यत् , तदा इयं गुरोः अनुज्ञया अस्माभिः सह तपसे तपोवनं प्रपन्ना ।

Verse 60
द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपःसाक्षिषु दृष्टमेष्वपि । न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): द्रुमेष्विति । सख्या पार्वत्या स्वयं कृतं जन्म येषां तेषु । स्वयं रोपितेष्वित्यर्थः । तपसः साक्षिषु साक्षाद्रष्टृष्वेषु द्रुमेष्वपि फलं दृष्टम् लब्धम् । जनितमित्यर्थः । अस्याः पार्वत्याः शशिमौलिसंश्रयश्चन्द्रशेखरविषयो मनोरथस्तु प्ररोहाभिमुखोऽङकुरोन्मुखोऽपि न दृश्यते । `प्ररोहस्त्वङ्कुरोङ्कुरः` इति वैजयन्ती । स्वयं रोपितवृक्षफलकालेऽप्यस्या मनोरथस्य नाङ्कुरोदयोऽप्यस्ति । फलाशा तु दूरापास्तेत्यर्थः
अन्वयः: सख्या स्वयं कृतजन्मसु तपःसाक्षिषु एषु द्रुमेषु अपि फलं दृष्टम् । (परम्) अस्याः शशिमौलिसंश्रयो मनोरथश्च प्ररोहाऽभिमुखोऽपि न दृश्यते ।