कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 71 to 80 of 86 verses
Verse 71
द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): द्वयमिति । पिनाकिन ईश्वरस्य समागमप्रार्थनया प्राप्तिकामनया । क्रियमाणयेति शेषः । संप्रति द्वयं शोचनीयतां शोच्यत्वं गतम् । किं तदाह-सा प्रागेव हरशिरोगता । अत्र सेति प्रसिद्धार्थत्वान्न यच्छब्दापेक्षा । तदुक्तं काव्यप्रकाशे-प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यदुपादानं नापेक्षते इति । कान्तिमती । नित्ययोगे मतुप् । कलावतश्चन्द्रस्य कला षोडशो भागश्चास्य लोकस्य नेत्रकौमुदी । नेत्रानन्दिनीत्यर्थः । त्वं च । कान्तिमतीत्वनेत्रकौमुदीत्वविशेषणयोरुभयत्राप्यन्वयः । प्रागेकैव शोच्या । संप्रति तु त्वमप्यपरेति द्वयं शोच्यमिति पिण्डितार्थः । शोच्यात्वं च निकृष्टाश्रयणादिति भावः
अन्वयः: पिनाकिनः समागमप्रार्थनया सम्प्रति कलावतः कान्तिमती सा कला अस्य लोकस्य नेत्रकौमुदी त्वं च द्वयं शोचनीयतां गतम् ।

Verse 72
वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु । वरेषु यद्बालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): वपुरिति । वपुस्तावदस्य विरुपाणि विकृतरुपाण्यक्षीणि नेत्राणि यस्य तद्विरुपाक्षम् । `बहुव्रीहौ सक्थ्यक्षणोः स्वाङ्गात्षच्` इति षच् प्रत्ययः । वैरूप्यं च त्रिनेत्रत्वादिति क्षीरस्वामी । अतो न सौन्दर्यवार्तापीत्यर्थः । अलक्ष्यमज्ञातं जन्म यस्य तस्य भावस्तत्ता । कुलमपि न जायत इत्यर्थः । `अलक्षिता जनिः` इति पाठे जनिरुत्पत्तिरलक्षिता न ज्ञाता । `जनिरुत्पत्तिरुद्भवः` इत्यमरः (अ.को.1|4|31) । वसु वित्तं दिगम्बरत्वेनैव निवेदितम् । नास्तीति ज्ञापितमित्यर्थः । यदि वित्तं भवति तदा कथं दिगम्बरो भवति । अतो ज्ञेयं निर्धनोऽयमिति । किं बहुना हे बालमृगाक्षि पार्वति ! वरेषु वोढृषु । `वरौ जामातृवोढारौ` इति विश्वः । यद्रूपवित्तादिकं मृग्यते कन्यातद्बन्धुभिरन्विष्यते तत्त्रिलोचने त्र्यम्बके व्यस्तम् । एकमपि समस्तं मा भूदिति भावः । अस्ति किम् । नास्त्येवेत्यर्थः
अन्वयः: वपुः विरूपाक्षम्, अलक्ष्यजन्मना, वसु दिगम्बरत्वेन निवेदितम् । हे बालमृगाक्षि ! वरेषु यत् मृग्यते तत् त्रिलोचने व्यस्तम् अपि अस्ति किम् ?

Verse 73
निवर्तयास्मादसदीप्सितान्मनः क्व तद्विधस्त्वं क्व च पुण्यलक्षणा । अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): निवर्तयेति । अस्मादसदीप्सितादनिष्टमनोरथान्मनो निवर्तय निवारय । सा पूर्वोक्ता विधा प्रकारो यस्य तथोक्तः । अमङ्गलशील इत्यर्थः । क्व । महदन्तरमित्यर्थः । पुण्यलक्षणा प्रशस्तभागयचिह्ना त्वं च क्व । अतो न तवायमर्ह इत्यर्थः । तथाहि साधुजनेन । `साधुर्वार्धुषिके चारौ सज्जने चाभिधेयवत्` । इति विश्वः । श्मशानशूलस्य श्मशानभूमिनिखातस्य वध्यशङ्कोर्वैदिकी वेदोक्ता । यूपो नाम पशुबन्धनसाधनभूतः संस्कृतदारुविशेषस्तस्य सत्क्रिया प्रोक्षणाभ्युक्षणादिसंस्कारो यूपसत्क्रिया नापेक्ष्यते नेष्यते । यथा श्मशानशूले यूपसत्क्रिया न क्रियते तथा त्वमपि तस्मै न घटस इति तात्पर्यार्थः
अन्वयः: अस्मात् असदीप्सितात् मनो निवर्तय । तद्विधः क्व ? पुण्यलक्षणा त्वं च क्व ? साधुजनेन श्मशानशूलस्य वैदिकी यूपसत्क्रिया न अपेक्ष्यते ।

Verse 74
इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया । विकुञ्चितभ्रूलतमाहिते तया विलोचने तिर्यगुपान्तलोहिते ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): इतीति । इत्येवंप्रकारेण द्विजातौ द्विजे प्रतिकूलवादिनि सति प्रवेपमानेन चञ्चलेनाधरेणाधरोष्ठेन लक्ष्योऽनुमेयः कोपः क्रोधो यस्यास्तथोक्तया तया पार्वत्योपान्तलोहिते प्रान्तरक्ते विलोचने विकुञ्चिते कुटिलिते भ्रूलते यस्मिंस्तत्तथा । सभ्रूभङ्गमित्यर्थः । तिर्यक्साच्याहिते निहिते अनादरात्तिर्यगैक्ष्यतेत्यर्थः
अन्वयः: इति द्विजातौ प्रतिकूलवादिनि सति प्रवेपमानाऽधरलक्ष्यकोपया तया उपान्तलोहिते विलोचने विकुञ्चितभ्रूलतं तिर्यक् आहिते ।

Verse 75
उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम् । अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): उवाचेति । अथैनं ब्रह्मचारिणमुवाच च । किमिति ? परमार्थतस्तत्त्वतो हरं न वेत्सि न जानासि नूनम् । कुतः । यतो मामेवमुक्तया रीत्यात्थ ब्रवीषि । `ब्रुवः पञ्चानामादित-इति रुपसिद्धिः । अज्ञानादेवायं शिवद्वेषस्तवेत्याशयेनाह-मन्दा मृढाः `मूढाल्पापटुनिर्भाग्या मन्दाः` इत्यमरः (अ.को.3|3|102) । लोकसामान्यमितरजनसाधारणं न भवतीत्यलोकसामान्यमचिन्त्यहेतुकं दुर्बोधकारणकं महात्मनां चरितम् । द्विषन्ति हेत्वपरिज्ञानाद् दूषयन्ति । विद्वांसस्तु कोऽप्यत्र हेतुरस्तीति बहु मन्यन्त इत्यर्थः
अन्वयः: अथ एनम् उवाच च-त्वं परामार्थतो हरं न वेत्सि नूनम्, यत एवम् आत्थ । मन्दा अलोकसामान्यम् अचिन्त्यहेतुकं महात्मनां चरितं द्विषन्ति ।

Verse 76
विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा । जगच्छरण्यस्य निराशिषः सतः किमेभिराशोपहतात्मवृत्तिभिः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): विपदिति । विपत्प्रतीकारपरेण । अनर्थपरिहारार्थिनेत्यर्थः । `उपसर्गस्य घञ्यमनुष्ये बहुलम्` (पा.6|3|122) इति दीर्घः । भूतिसमुत्सुकेनैश्वर्यकामेन वा मङ्गलं गन्धमाल्यादिकं निषेव्यते । शरणे रक्षणे साधुः शरण्यः । `तत्र साधुः` (पा.4|4|98) इति यत्प्रत्ययः । `शरणं गृहरक्षित्रोः` इत्यमरः (अ.को.3|3|59) । जगतः शरण्यस्तस्य जगच्छरण्यस्य निराशिषो निरभिलाषस्य सतः शिवस्य । `आशीरिरगदंष्टायां विप्रवाक्याभिलाषयोः` इति शाश्वतः । आशया तृष्णयोपहतादूषितात्मवृत्तिरन्तःकरणवृत्तिर्येषां तैरेभिर्मङ्गलैः किम् । वृथेत्यर्थः पूर्वमङ्लमित्येकवचनस्य जात्यभिप्रायत्वादेभिरिति बहुवचनेन परामर्शो न विरुध्यते । इष्टावाप्त्यनिष्टपरिहारार्थिनो हि मङ्गलाचारनिर्बन्धः । तदुभयासंसृष्टस्य तु यथाकथंचिदास्ताम् । को दोष इत्यर्थः । एतेन `अमङ्गलाभ्यासरतिम्` । (५/६५) इत्युक्तं प्रत्युक्तम्
अन्वयः: विपत्प्रतीकारपरेण भूतिसमुत्सुकेन वा मङ्गलं निषेव्यते । जगच्छरण्यस्य निराशिषः सतः आशोपहतात्मवृत्तिभिः एभिः किम् ?

Verse 77
अकिञ्चनः सन्प्रभवः स संपदां त्रिलोकनाथः पितृसद्मगोचरः । स भीमरूपः शिव इत्युदीर्यते न सन्ति याथार्थ्यविदः पिनाकिनः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): अकिंचनेति । स हरः । न विद्यते किंचन द्रव्यं यस्य सोऽकिंचनो दरिद्रः सन् । संपदां प्रभवत्यस्मादिति प्रभवः कारणम् । पितृसद्मगोचरः श्मशानाश्रयः सन् । त्रयाणां लोकानां नाथः `तद्धितार्थे-` त्यादिनोत्तरपदसमासः । सदेवो भीमरूपो भयंसराकारः सन् । शिवः सौम्यरूप इत्युदीर्यते उच्यते । अतः पिनाकिनो हरस्य यथाभूतोऽर्थो यथार्थस्तस्य भावो याथार्थ्यं तत्वं तस्य विदो न सन्ति । लोकोत्तरमहिम्नो निर्लेपस्य यथाकथञ्चिदवस्थानं न दोषायेति भावः । एतेन `अवस्तुनिर्बन्धपरे` (५/६६) इति परिहृतं वेदितव्यम्
अन्वयः: सः अकिञ्चनः सन् सम्पदां प्रभवः, पितृसद्मगोचरः सन् त्रिलोकनाथः भीमरूपः सन् `शिव` इति उदीर्यते । (अतः) पिनाकिनः याथार्थ्यविदो न सन्ति ।

Verse 78
विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा । कपालि वा स्यादथ वेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): विभूषणेति । विश्वं मूर्तिर्यस्येति विश्वमूर्तेरष्टमूर्तेः शिवस्य वपुः शरीरं भूषणैरुद्भासत इति भूषणोद्भासि स्यात् । पिनद्धभोग्यामुक्तभुजङ्गमं वा स्यात् । पिनद्धेति नह्यतेरपिपूर्वात्कर्मणि क्तः । `वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः` इत्यकारलोपः । गजाजिनालम्बि स्यात् अथवा दुकूलधारि स्यात् । कपालमस्यास्तीति कपालि ब्रह्मशिरःकपालशेखरं वा स्यात् इन्दुशेकरं वा स्यात् । नावधार्यते न निर्धार्यते । सर्वं संभवतीत्यर्थः । एतेन `त्वमेव तावत्` (५/६७) इति श्लोकोक्तं प्रत्युक्तमिति ज्ञेयम्
अन्वयः: विश्वमूर्तेः वपुः विभूषणोद्भासि, पिनद्धभोगि वा, गजाऽजिनालम्बि, दुकूलधारि वा, कपालि वा, अथवा इन्दुशेखरं स्यात् न अवधार्यते ।

Verse 79
तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्मरजो विशुद्धये । तथा हि नृत्याभिनयक्रियाच्युतं विलिप्यते मौलिभिरम्बरौकसां ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): तदिति । शिवस्याङ्गम् तस्य संसर्गमवाप्यासाद्य चिताभस्मैव रजो विशुद्धये कल्पते । अलं पर्याप्नोतीत्यर्थः । अलमर्थयोगात् `नमः- स्वस्तिस्वाहे-` त्यादिना चतुर्थी । ध्रुवं शोधकत्वम् । प्रमाणसिद्धमित्यर्थः । प्रमाणमेवाह--तथाहि । प्रसिद्धमेवेत्यर्थः । नृत्ये ताण्डवे योऽभिनयोऽर्थव्यञ्जकचेष्टाविशेषः स एव क्रिया तया निमित्तेन च्युतं पतितम् । चिताभस्मरज इति शेषः । अम्बरौकसां देवानां मौलिभिर्विलिप्यते ध्रियते । अशुद्धं चेत्कथमिन्द्रादिभिर्ध्रियेतेत्यर्थापत्तिरनुमानं वा प्रमाणमित्यर्थः
अन्वयः: तदङ्गसंसर्गम् अवाप्य चिताभस्मरजो विशुद्धये कल्पते ध्रुवम् । तथा हि-नृत्याऽभिनयक्रियाच्युतं चिताभस्मरजः अम्बरौकसां मौलिभिः विलिप्यते !

Verse 80
असंपदस्तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा । करोति पादावुपगम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): असंपद इति । प्रभिन्नो मदस्रावी दिग्वारणो दिग्गजो वाहनं यस्य सः । ऐरावतेनोढ इत्यर्थः । वृषा देवेन्द्रोऽसंपदो दरिद्रस्य वृषेण गच्छतो वृषभारूढस्य तस्येश्वरस्य पादौ मौलिना मुकुटेनोपगम्य प्रणम्येत्यर्थः । विनिद्राणां विकसितानां मन्दाराणां कल्पतरुकुसुमानां रजोभिः परागैररुणा अङ्गुलयो ययोस्तौ तथोक्तौ करोति । दिग्गजारोहिणामिन्द्रादीनामपि वन्द्यस्येन्दुमौलेः किं संपदा, वृषारोहणे वा को दोष इत्यर्थः
अन्वयः: प्रभिन्नदिग्वारणवाहनो वृषा असम्पदो वृषेण गच्छतः तस्य पादौ मौलिना उपगम्य विनिद्रमन्दाररजोऽरुणाऽङ्गुली करोति ।

Showing 71 to 80 of 86 verses