कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel

Showing 41 to 46 of 46 verses
Verse 41
अभिलाषमुदीरितेन्द्रियः स्वसुतायामकरोत्प्रजापतिः । अथ तेन निगृह्य विक्रियामभिशप्तः फलमेतदन्वभूत् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): अभिलाषेति ॥ उदीरितेन्द्रियः प्रेरितेन्द्रियः स्मरेणेति शेषः । प्रजापतिर्ब्रह्मा स्वसुतायां सरस्वत्यामभिलाषमनुरागमकरोत् । अथ तेन प्रजापतिना विक्रियामिन्द्रियविकारं निगृह्य निरुद्याभिशप्तः सन् । एतत् फलं दाहात्मकं स्वकर्मफलमन्वभूत्
अन्वयः: उदीरितेन्द्रियः प्रजापतिः स्वसुतायाम् अभिलाषम् अकरोत् । अथ तेन विक्रियां निगृह्य अभिशप्तः (सन्) एतत् फलम् अन्वभूत् ।

Verse 42
परिणेष्यति पार्वतीं यदा तपसा तत्प्रवणीकृतो हरः । उपलब्धसुखस्तदा स्मरं वपुषा स्वेन नियोजयिष्यति ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): परिणेष्यतीति ॥ इतीति च । धर्मेण धर्माख्यप्रजापतिना याचितः प्रार्थितः स भगवान्ब्रह्मा । तपसा कारणेन तस्यां पार्वत्यां प्रवणीकृतोऽभिमुखीकृतो हरः शिवो यदा पार्वतीं परिणेष्यत्युद्वक्ष्यति तदोपलब्धसुखः प्राप्तनन्दः सन् । स्मरं कामं स्वेन वपुषा नियोजयिष्यति । इत्येवं स्मरशापस्यावधिदामवसानदायिनीं सरस्वती वाचं चाह । एवं शापावधिमप्युक्तवानित्यर्थः । ननु तथा क्रुद्धस्य कथमीदृशी शान्तिरत आह-वशिनो जितेन्द्रियाश्चाम्बुधराश्चाशनेरमृतस्य चेत्युभयोर्योनयः प्रभवः वशिपक्षेऽशन्यमृतशब्दौ कोपप्रसादपरौ । अन्यत्र वैद्युताग्न्युदकपरौ । युग्मकम् ॥ ४.४२ - ४३ ॥
अन्वयः: धर्मयाचितः स `तपसा तत्प्रवणीकृतो हरो यदा पार्वतीं परिणेष्यति, तदा उपलब्धसुखः (सन्) स्मरं स्वेन वपुषा नियोजयिष्यति` इति स्मरशापाऽवधिदां सरस्वतीम् आह । वशिनः अम्बुधराश्च अशने अमृतस्य उभयोश्च योनयः ।

Verse 43
इति चाह स धर्मयाचितः स्मरशापावधिदां सरस्वतीम् । अशनेरमृतस्य चोभयोर्वशिनश्चाम्बुधराश्च योनयः ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): परिणेष्यतीति ॥ इतीति च । धर्मेण धर्माख्यप्रजापतिना याचितः प्रार्थितः स भगवान्ब्रह्मा । तपसा कारणेन तस्यां पार्वत्यां प्रवणीकृतोऽभिमुखीकृतो हरः शिवो यदा पार्वतीं परिणेष्यत्युद्वक्ष्यति तदोपलब्धसुखः प्राप्तनन्दः सन् । स्मरं कामं स्वेन वपुषा नियोजयिष्यति । इत्येवं स्मरशापस्यावधिदामवसानदायिनीं सरस्वती वाचं चाह । एवं शापावधिमप्युक्तवानित्यर्थः । ननु तथा क्रुद्धस्य कथमीदृशी शान्तिरत आह-वशिनो जितेन्द्रियाश्चाम्बुधराश्चाशनेरमृतस्य चेत्युभयोर्योनयः प्रभवः वशिपक्षेऽशन्यमृतशब्दौ कोपप्रसादपरौ । अन्यत्र वैद्युताग्न्युदकपरौ । युग्मकम् ॥ ४.४२ - ४३ ॥
अन्वयः: धर्मयाचितः स `तपसा तत्प्रवणीकृतो हरो यदा पार्वतीं परिणेष्यति, तदा उपलब्धसुखः (सन्) स्मरं स्वेन वपुषा नियोजयिष्यति` इति स्मरशापाऽवधिदां सरस्वतीम् आह । वशिनः अम्बुधराश्च अशने अमृतस्य उभयोश्च योनयः ।

Verse 44
तदिदं परिरक्ष शोभने भवितव्यप्रियसंगमं वपुः । रविपीतजला तपात्यये पुनरोघेन हि युज्यते नदी ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): तदिति ॥ हेशोभने ! तत्तस्मात्कारणाद्भवितव्यो भविष्यन्प्रियसंगमो यस्य तत्तथोक्तमिदं वपुः परिरक्ष । तथाहि । रविपीतजला नदी तपात्यये प्रावृषि। `प्रावृट् तपात्यये` इति हलायुधः । पुनरोघेण प्रवाहेण युज्यते संगच्छते हि
अन्वयः: हे शोभने ! तत् भवितव्यप्रियसङ्गमम् इदं वपुः परिरक्ष । हि रविपीतजला नदी तपाऽत्यये पुनरोघेण युज्यते ।

Verse 45
इत्थं रतेः किमपि भूतमदृश्यरूपं मन्दीचकार मरणव्यवसायबुद्धिम् । तत्प्रत्ययाच्च कुसुमायुधबन्धुरेनामाश्वासयत्सुचरितार्थपदैर्वचोभिः ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): इत्थमिति ॥ इत्थमनेन प्रकारेणादृश्यरुपं किमपि भूतं कश्चित्प्राणी । `युक्तेक्ष्मादावृते भूतं प्राण्यतोते समे त्रिषु` इत्यमरः (अ.को.3|3|102) । रतेर्मदनदाराणां मरणव्यवसायबुद्धिं मरणोद्योगबुद्धिं मन्दीचकार । निवारयामासेत्यर्थः । `मूढाल्पापटुनिर्भाग्या मन्दाः` इत्यमरः (अ.को.3|3|102) । अथ कुसुमायुधबन्धुर्वसन्तश्च तत्प्रत्ययात्तस्मिन्भूते विश्वासात् । `प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु` इत्यमरः (अ.को.3|3|102) । एनां रतिं सुष्ठु चरितार्थानि पदानि येषां तैर्वचोभिर्वाक्यैराश्वासयत् । सर्वथा ते देवताप्रसादात्प्रियसंगमो भविष्यतीत्यादिवचनैरस्या दुःखमपाचकारेत्यर्थः
अन्वयः: इत्थम् अदृश्यरुपं किमपि भूतं रतेः मरणव्यवसायबुद्धिं मन्दीचकार । अथ कुसुमायुधबन्धुः तत्प्रत्ययात् एनां सुचरिताऽर्थपदैः वचोभिः आश्वासयत् ।

Verse 46
अथ मदनवधूरुपप्लवान्तं व्यसनकृशा परिपालयां बभूव । शशिन इव दिवातनस्य लेखा किरणपरिक्षयधूसरा प्रदोषम् ॥
Metre: पुष्पिताग्रा
सञ्जीविनीटीका (मल्लिनाथः): अथेति ॥ अथानन्तरं व्यसनेन दुःखेन कृशा मदनवधू रतिरुपप्लवान्तं विपदवधिं किरणपरिक्षयेण धूसरा मलिना दिवातनस्य दिनभवस्य । `सायंचिरम्` इत्यादिना ट्युप्रत्ययः । शशिनश्चन्द्रस्य लेखा प्रदोषं रात्रिमिव परिपालयांबभूव प्रतीक्षांचक्रे । पुष्पिताग्रावृत्तम्- `अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा` इति लक्षणात्
अन्वयः: अथ व्यसनकृशा मदनवधूः उपप्लवाऽन्तं किरणपरिक्षयधूसरा दिवातनस्य शशिनः लेखा प्रदोषम् इव परिपालयाम्बभूव ।

Showing 41 to 46 of 46 verses