मदनेन विनाकृता रतिः क्षणमात्रं किल जीवितेति मे । वचनीयमिदं व्यवस्थितं रमण त्वामनुयामि यद्यपि ॥
Metre: वियोगिनी
क्रियतां कथमन्त्यमण्डनं परलोकान्तरितस्य ते मया । सममेव गतोऽस्यतर्कितां गतिमङ्गेन च जीवितेन च ॥
Metre: वियोगिनी
ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः । मधुना सह सस्मितं कथां नयनोपान्तविलोकितं च यत् ॥
Metre: वियोगिनी
क्व नु ते हृदयंगमः सखा कुसुमायोजितकार्मुको मधुः । न खलूग्ररुषा पिनाकिना गमितः सोऽपि सुहृद्गतां गतिम् ॥
Metre: वियोगिनी
अथ तैः परिदेविताक्षरैर्हृदये दिग्धशरैरिवार्दितः । रतिमभ्युपपत्तुमातुरां मधुरात्मानमदर्शयत्पुरः ॥
Metre: वियोगिनी
तमवेक्ष्य रुरोद सा भृशं स्तनसंबाधमुरो जघान च । स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते ॥
Metre: वियोगिनी
इति चैनमुवाच दुःखिता सुहृदः पश्य वसन्त किं स्थितम् । यदिदं कणशः प्रकीर्यते पवनैर्भस्म कपोतकर्बुरम् ॥
Metre: वियोगिनी
अयि संप्रति देहि दर्शनं स्मर पर्युत्सुक एष माधवः । दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥
Metre: वियोगिनी
अमुना ननु पार्श्ववर्तिना जगदाज्ञां ससुरासुरं तव । बिसतन्तुगुणस्य कारितं धनुषः पेलवपुष्पपत्रिणः ॥
Metre: वियोगिनी
गत एव न ते निवर्तते स सखा दीप इवानिलाहतः । अहमस्य दशेव पश्य मामविषह्यव्यसनप्रधूषिताम् ॥
Metre: वियोगिनी