कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 21 to 30 of 46 verses
Verse 21
मदनेन विनाकृता रतिः क्षणमात्रं किल जीवितेति मे । वचनीयमिदं व्यवस्थितं रमण त्वामनुयामि यद्यपि ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): मदनेनेति । हे रमण ! त्वामनुयामि यद्यप्यनुगमिष्याम्येव । `वर्तमानसामीप्ये वर्तमानवद्वा` (पा.3|3|131) इति लट् । `यद्यपीत्यवधारणे` इति केशवः । किंतु रतिर्मदनेन विनाकृता । वियोजिता सतीत्यर्थः । सुप्सुपेति समासः । क्षणमात्रं जीविता किलेतीदं वचनीयं निन्दा मे मम व्यवस्थितं स्थिरमभूत्
अन्वयः: हे रमण ! त्वाम् अनुयायि यद्यपि, (किन्तु) मदनेन विनाकृता रतिः क्षणमात्रं जीविता इति मे वचनीयं व्यवस्थितम् ।

Verse 22
क्रियतां कथमन्त्यमण्डनं परलोकान्तरितस्य ते मया । सममेव गतोऽस्यतर्कितां गतिमङ्गेन च जीवितेन च ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): क्रियतामिति । परलोकेऽन्तरितस्य व्यवहितस्य । मृतस्येत्यर्थः । ते तव मयान्त्यमण्डनं कथं केन प्रकारेण क्रियताम् । क्रियातामित्यत्र कामचारे लोट् बोध्यः । द्रुतदग्धस्य ते यथेच्छमण्डनमपि न संभवतीत्यर्थः । कुतः । अङ्गेन च जीवितेन च समं सहैवातर्कितामविचारितां गतिं गतोऽसि । इह मृतशरीरमपि नास्ति कस्य मण्डनमिति भावः
अन्वयः: (हे नाथ !) परलोकाऽन्तरितस्य ते अन्त्यमण्डनं मया कथं क्रियताम् ? (यत्) अङ्केन जीवितेन च समम् एव अतर्कितां गतिं गतः असि ।

Verse 23
ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः । मधुना सह सस्मितं कथां नयनोपान्तविलोकितं च यत् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): ऋजुतामिति । शरमृजुतामार्जवं नयत उत्सङ्गे निषण्णमङ्कगतं धनुर्यस्य तस्य । `धनुषश्च` (पा.5|4|132) इत्यनङादेशः । ते तव मधुना वसन्तेन सह `मधुर्दैत्ये वसत्ने च चैत्रे च` इति विश्वः । सस्मितां कथामालापं तथा यन्नयनोपान्तविलोकितमपाङ्गवीक्षणम् । तत् इत्यनुषङ्गः । तच्च स्मरामि
अन्वयः: शरम् ऋजुतां नयतः उत्सङ्गनिषण्णधन्वनः ते मधुना सस्मितां कथां, यत् नयनोपन्तविलोकितं च तत् स्मरामि ।

Verse 24
क्व नु ते हृदयंगमः सखा कुसुमायोजितकार्मुको मधुः । न खलूग्ररुषा पिनाकिना गमितः सोऽपि सुहृद्गतां गतिम् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): क्वेति । हृदयं गच्छतीति हृदयंगमो हृद्यः । खच्प्रकरणे गमेः सुप्युपसंख्यानम् इति खच्प्रत्ययः । `अरुर्द्विषदजन्तस्य मुम्` (पा.6|3|67) इति मुमागमः । ते तव सखा कुसुमैरायोजितमारचितं कार्मुकं येन कार्मुकनिर्माता मधुर्वसन्तः क्व नु क्व वा । गत इति शेषः । अथवा सोऽप्युग्ररुषा तीव्रकोपेन पिनाकिनेश्वरेण सुहृदा मदनेन गतां प्राप्तां गतिम् । भस्मतामित्यर्थः । न गमितः खलु न प्रापितः किम् । `जिज्ञासानुनये खलु` इत्यमरः
अन्वयः: कुसुमयोजितकार्मुकः ते हृदयङ्गमः सखा मधुः क्व नु ? सोऽपि उग्ररुषा पिनाकिना सुहृद्गतां गतिं न गमितः खलु ?

Verse 25
अथ तैः परिदेविताक्षरैर्हृदये दिग्धशरैरिवार्दितः । रतिमभ्युपपत्तुमातुरां मधुरात्मानमदर्शयत्पुरः ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथ तैः परिदेविताक्षरैर्विलापवचनैर्हृदये दिग्धशरैर्विषलिप्तमुखैः शरैरिवाहतः सन् । `विषाक्ते दिग्धलिप्तकौ` इत्यमरः (अ.को.2|8|88) । मधुर्वसन्त आतुरामापन्नां रतिमभ्युपपत्तुमनुग्रहीतुम् । आश्वासयितुमित्यर्थः । `अभ्युपपत्तिरनुग्रहः` इत्यमरः (अ.को.2|8|88) । आत्मानं पुराऽदर्शयत् । आविरभूदित्यर्थः
अन्वयः: अथ दिग्धशरैः इव तैः परिदेविताक्षरैः हृदये आहतः मधुः आतुरां रतिम् अभ्युपपत्तुम् आत्मानं पुरः अदर्शयत् ।

Verse 26
तमवेक्ष्य रुरोद सा भृशं स्तनसंबाधमुरो जघान च । स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): तमिति । सा रतिस्तं मधुमवेक्ष्य दृष्ट्वा भूशं रुरोद । स्तनौ संबाध्य स्तनसंबाधम् । `परिक्लिश्यमाने च` (पा.3|4|55) इति णमुल् । उरो जघान ताडितवती च । तथाहि । स्वजनस्यग्रतो दुःखं विवृतमपसारितं द्वारं कपाटं यस्य तदिवोपजायत आविर्भवति । उच्छ्रङ्खलं प्रवर्तत इत्युत्प्रेक्षाभिप्रायः
अन्वयः: सा तम् अवेक्ष्य भृशं रुरोद, स्तनसम्बाधम् उरश्च जघान । हि दुःखं स्वजनस्य अग्रतः विवृतद्वारम् इव उपजायते ।

Verse 27
इति चैनमुवाच दुःखिता सुहृदः पश्य वसन्त किं स्थितम् । यदिदं कणशः प्रकीर्यते पवनैर्भस्म कपोतकर्बुरम् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): इतीति । दुःखमस्याः संजातं दुःखिता । संजातदुःखेत्यर्थः । तारकादित्वादितच् । सा रतिरेनं वसन्तमित्युवाच च । चकारः पूर्वोक्तसमुच्चयार्थः । हे वसन्त ! पश्य सुहृदस्त्वत्सखस्य किं स्थितं किमुपस्थितं तदिदं कपोतकर्बुरं पारावतशबलं कणशश्चूर्णीभूतम् । अल्पार्थाच्छस्प्रत्ययः । भस्म पवनैर्विकीर्यते विक्षिप्यते । पश्य भस्मीभूतस्ते सुहृदित्यर्थः
अन्वयः: दुःखिता सा एनम् इति प्रवाच च- हि वसन्त ! पश्य सुहृदः किं स्थितं ? तत् इदं कपोतकर्बुरं भस्म पवनैः कणशो विकीर्यते।

Verse 28
अयि संप्रति देहि दर्शनं स्मर पर्युत्सुक एष माधवः । दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): अयीति । अयि स्मर ! संप्रति दर्शनं देहि । एष माधवो वसन्तः पर्युत्सकस्त्वद्दर्शनोत्कण्ठितः । त्वामप्यनादृतवतोऽस्य को माधव इत्याशङ्क्याह- नृणां पुरुषाणां दयितासु प्रेमानवस्थितमस्थिरम् । चलमित्यर्थः । सुहृज्जने प्रेम तु न चलं खलु
अन्वयः: अयि स्मर ! सम्प्रति दर्शनं देहि, एष माधवः पर्युत्सुकः । नृणां दयितासु प्रेम अनवस्थितं सुहृज्जने तु प्रेम न चलं खलु ।

Verse 29
अमुना ननु पार्श्ववर्तिना जगदाज्ञां ससुरासुरं तव । बिसतन्तुगुणस्य कारितं धनुषः पेलवपुष्पपत्रिणः ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): अमुनेति । ननु मदन पार्श्ववर्तिना सहचरेणामुना वसन्तेन ससुरासुरं सुरासुरसहितं जगद्विसतन्दुगुणस्य मृणालसूत्रमौर्वीकस्य पेलवानि कोमलानि पुष्पाण्येव पत्रिणो बाणा यस्य तस्य तव धनुष आज्ञां कारितम् । जगदाज्ञा कारितेत्यर्थः । `हृक्रोरन्यतरस्याम्` (पा.1|4|53) इति जगतः कर्मत्वम्
अन्वयः: ननु ! तव पार्श्‌ववर्तिना अमुना ससुराऽसुरं जगत् विसतन्तुगुणस्य पेलवपुष्पपत्त्रिणः तव धनुषः आज्ञां कारितम् ।

Verse 30
गत एव न ते निवर्तते स सखा दीप इवानिलाहतः । अहमस्य दशेव पश्य मामविषह्यव्यसनप्रधूषिताम् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): गत इति । स ते सखाऽनिलाहतो वायुताडितो दीप इव गत एव न निवर्तते । अहमस्य दीपायमानस्य दशा वर्तिरिव । तिष्ठामीति शेषः । `दशा वर्ताववस्थायां वस्त्रान्तं स्युर्दशा अपि` । इति विश्वः । कुतः । अविषह्यव्यसनेन सोढुमशक्यदुःखप्रकर्षेण धूमितां संजातधूमां मां पश्य । धूमवत्त्वान्नष्टदीपदशासाम्यं धूमश्च व्यसनमेवेत्यर्थः
अन्वयः: (हे वसन्त !) स ते सखा अनिलाऽऽहतो दीप इव गत एव, न निवर्तते। अहम् अस्य दशा इव (तिष्ठामि) अविषह्यव्यसनेन धूमितां मां पश्य ।