कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 21 to 30 of 76 verses
Verse 21
मधुश्च ते मन्मथ साहचर्यादासवनुक्तोऽपि सहाय एव । समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): मधुरिति ॥ हे मन्मथ ! असौ मधुश्च वसन्तोऽपि ते साहचर्यात्सहचरत्वादेवानुक्तोऽप्यप्रेरितोऽपि सहायः सहकार्येव । तथाहि । समीरणो वायुहुताशनस्याग्नेर्नोदयिता प्रेरको भवेति केन व्यादिश्यते । अत्र मधुसमीरणयोरुक्तिमन्तरेण सहायताकरणं सामान्यधर्मः । स च वाक्यद्वये वस्तुप्रतिवस्तुभावेन पृथङ्निर्दिष्ट इति प्रतिवस्तूपमालंकारोऽयम्। तदुक्तम्-- `यत्र सामान्यनिर्देशः पृथग्वाक्यद्वये यदि । गम्यौपम्याश्रिता सा स्यात्प्रतिवस्तूपमा मता ॥` इति
अन्वयः: हे मन्मथ ! असौ मधुश्च ते साहचर्यात् अनुक्तोऽपि सहाय एव । समीरणो हुताऽशनस्य नोदयिता भवेति केन व्यादिश्यते ?

Verse 22
तथेति शेषामिव भर्तुराज्ञामादाय मूर्ध्ना मदनः प्रतस्थे । ऐरावतास्फालनकर्कशेन हस्तेन पस्पर्श तदङ्गमिन्द्रः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तथेति ॥ तथास्त्विति भर्तुः स्वामिनः शेषामिव प्रसाददत्तां मालामिव । `प्रसादान्निजनिर्माल्यदाने शेषेति कीर्तिता` । इति विश्वः । `माल्याक्षतादिदाने स्त्री शेषा` इति वैजयन्तीकेशवौ । आज्ञां मूर्ध्नादाय शिरसा गृहीत्वा मदनः प्रतस्थे ।`समवप्रविभ्यः स्थः` (पा.1|3|22) इत्यात्मनेपदम् । इन्द्र ऐरावतास्फालनेन प्रोत्साहनार्थेन ताडनेन कर्कशेन परुषेण हस्तेन तदङ्गं मदनदेहं पस्पर्श । हस्तस्पर्शेन संभावयामासेत्यर्थः ।`शेषामिवाज्ञाम्` इत्यत्र साधकबाधकप्रमाणाभावादुपमोत्प्रेक्षयोः संदेहसंकर इति । यदि भर्त्रा शेषापि दत्ता तदा तामाज्ञामिवेत्युपमा । अथ न दत्ता तर्हि शेषात्वेनोत्प्रेक्षिता । शेषादानं तु संदिग्धमिति
अन्वयः: `तथा` इति भर्तुः शेषाम् इव आज्ञां मूर्ध्ना आदाय मदनः प्रतस्थे । इन्द्रः ऐरावतास्फालनकर्कशेन हस्तेन तदङ्गं पस्पर्श ।

Verse 23
स माधवेनाभिमतेन सख्या रत्या च साशङ्कमनुप्रयातः । अङ्गव्ययप्रार्थितकार्यसिद्धिः स्थाण्वाश्रमं हैमवतं जगाम ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति ॥ स मदनोऽभिमतेन प्रियेण सख्या सुहृदा माधवेन वसन्तेन रत्या स्वदेव्या च साशङ्कं संकटमापतितमिति सभयमनुप्रयातः सन् । तथाङ्गस्य व्ययेनापि प्रार्थिता कार्यसिद्धिर्येन स तथोक्तः । शीर्त्वा मृत्वापि सर्वथा देवकार्यं साधयिष्यामीति कृतनिश्चयः सन्नित्यर्थः । हैमवतं हिमवति भवं स्थाणो रुद्रस्याश्रमं जगाम
अन्वयः: सः अभिमतेन सख्या माधवेन रत्या च साशङ्कम् अनुप्रयातः (सन्) अङ्गव्ययप्रार्थितकार्यसिद्धिः हैमवतं स्थाण्वाश्रमं जगाम ।

Verse 24
तस्मिन्वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्ती । संकल्पयोनेरभिमानभूतमात्मानमाधाय मधुर्जजृम्भे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति ॥ तस्मिन्वने स्थाण्वाश्रमे संयमिनां समाधिमतां मुनीनां तपसः समाधेरेकाग्रतायाः प्रतिकूलं वर्तते इति प्रतिकूलवर्ती विरोधी मधुर्वसन्तः संकल्पयोनोर्मनोभवस्याभिमानभूतम् । गर्वहेतुभूतमित्यर्थः । कार्यकारणयोरभेदोपचारः । आत्मानं निजस्वरुपमाधाय संनिधाय जजृम्भे प्रादुर्बभूव । वसन्तधर्मान्प्रवर्तयामासेत्यर्थः
अन्वयः: तस्मिन् वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्तो मधुः सङ्कल्पयोनेः अभिमानभूतम् आत्मानम् आधाय जजृम्भे ।

Verse 25
कुबेरगुप्तां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य । दिग्दक्षिणा गन्धवहं मुखेन व्यलीकनिःश्वासमिवोत्ससर्ज ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): कुबेरेति । उष्णरश्मौ सूर्ये साहसिके च नायके समयं दक्षिणायनकालं संगमकालं च विलङ्ध्याकाण्डे व्यतिक्रम्य कुबेरगुप्तां धनपतिपालितां कुत्सितशरीरेण केनचिद्रक्षितां च दिशमुदीचीं स्त्रीलिङ्गाक्षिप्तां कांचिन्नायिकां च गन्तुं चलितुं संगन्तुं च प्रवृत्ते सति दक्षिणा दिग्दाक्षिण्यवती नायिका च मुखेनाग्रभागेन वक्त्रेण च । वहतीति वहः । पचाद्यच् । गन्धस्य वहं गन्धवहमनिलं व्यलीकेन दुःखेन निश्वासस्तं व्यलीकनिस्वासमिव । `दुःखे वैलक्ष्ये व्यलीकमप्रियाकार्यवस्तुनोः` इति वैजयन्ती । उत्ससर्ज प्रवर्तयामास । स्वभर्तरि समयोल्लङ्घनेन पराङ्गनासंगतिं प्रवृत्ते सति स्त्रियो दाक्षिण्यादकिंचिद्वदा दुःखान्निश्वसन्तीति भावः । उत्तरायणे सति मलयानिलाः प्रवृत्ताः इति वाक्यार्थः । अत्रोत्प्रेक्षालंकारः । न च समासोक्तिरेवेयमुत्प्रेक्षानुप्रविष्टेति शङ्कितव्यम् । केवलविशेषसामर्थ्यादेवाप्रस्तुतप्रतीतौ सोत्तिष्ठते । अत्र तु दक्षिणेति विशेष्यसामर्थ्यादपि नायिका प्रतीयते । नच श्लेष एव प्रकृताप्रकृतविषयः, उभयश्लेषे श्लिष्टविशेष्यानङ्गीकारात् । तस्माच्छब्दशक्तिमूलोऽयं ध्वनिः । स च व्यलीकनिश्वासरूपचेतनधर्मसंभावनार्थं दक्षिणस्या दिशो नायिकया सहाभेदमासदयन्नभेदलक्षणातिशयोक्त्युपजीविनीं निश्वासमिवेति वाच्योत्प्रेक्षां निर्वहतीति वाच्यसिद्ध्यङ्गभूत इत्युत्पश्यामः
अन्वयः: उष्णरश्मौ समयं विलङ्घ्‌य कुबेरगुप्तां दिशं गन्तुं प्रवृत्ते (सति) दक्षिणा दिक्मुखेन गन्धवहं व्यलीकनिश्वासम् इव उत्ससर्ज ।

Verse 26
असूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपल्लवानि । पादेन नापैक्षत सुन्दरीणां संपर्कमासिञ्जितनूपुरेण ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): असूतेति ॥ अशोको वृक्षविशेषः सद्यः स्कन्धात्प्रकाण्डात्प्रभृत्येव स्कन्धादारभ्येत्यर्थः । भाष्यकारवचनात्प्रभृतियोगे पञ्चमीति कैयटः । भाष्यं च `मूलात्प्रभृत्यग्राद्‌वृक्षांस्तक्ष्णुवन्ति` इति `कार्तिक्याः प्रभृत्याग्रहायणी मास` इत्यादि । सपल्लवानि कुसुमान्यसूत । उभयमप्यजीजनदित्यर्थः । आसिञ्जितो नूपुरो यस्य तेन । सिञ्जधातोः `अकर्मक--` इत्यादिना कर्तरि क्तः । सुन्दरीणां पादेन संपर्कं ताडनं नापैक्षत । `सनूपुररवेण स्त्रीचरणेनाभिताडनम् । दोहदं यदशोकस्य ततः पुष्पोद्‌गमो भवेत् ॥` इति । तथाहि- `पादाहतः प्रमदया विकसत्यशोकः शोकं जहाति बकुलो मुखसीधुसिक्तः । आलोकितः कुरुबकः कुरुते विकासमालोडितस्तिलक उत्कलिको विभाति` इति
अन्वयः: अशोकः सद्यः स्कन्धात् प्रभृति एव सपल्लवानि कुसुमानि कुसुमानि असूतः आसिञ्जितनूपुरेण सुन्दरीणां पादेन सम्पर्कं न अपैक्षत ।

Verse 27
सद्यः प्रवालोद्गमचारुपत्रे नीते समाप्तिं नवचूतबाणे । निवेशयामास मधुर्द्विरेफान्नामाक्षराणीव मनोभवस्य ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): सद्य इति । मधुर्वसन्त एवेषुकारः प्रवालोद्‌गमाः पल्लवाङ्कुरा एव चारुणि पत्राणि पक्षा यस्य तस्मिन् । `पत्रं वाहनपक्षयोः` इत्यमरः (अ.को.3|3|187) । नवं चूतं चूतकुसुमं तदेव बाणस्तस्मिन्नवचूतबाणे समात्पिं नीते सति सद्यो मनोभवस्य धन्विनो नामाक्षराणीव, द्विरेफान्भ्रमरान्निवेशयामास निदधौ । अत्र प्रवालपत्र इत्याद्येकदेशविवर्तिरुपकं मधोरिषुकारत्वं रुपं यन्नामाक्षराणीवेत्युत्प्रेक्षायां निमित्तमित्येकदेशविवर्तिरुपकोत्थापितेयमुत्प्रेक्षा
अन्वयः: मधुः प्रवालोद्गमचारुपत्रे नवचूतबाणे समात्पिं नीते सति सद्यो मनोभवस्य नामाक्षराणि इव द्विरेफान् निवेशयामास ।

Verse 28
वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः । प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): वर्णेति । कर्णिकारं कर्णिकारकुसुमम् । `अवयवे च प्राण्योषधिवृक्षेभ्यः` (पा.4|3|135) इत्युत्पन्नस्य तद्धितस्य `पुष्पमूलेषु बहुलम्` इति लुक् । एवमन्यत्रापि द्रष्टव्यम् । वर्णप्रकर्षे वर्णोत्कर्षे सत्यपि निर्गन्धतया हेतुना चेतो दुनोति स्म पर्यतापयत् । `लट् स्मे` (पा.3|2|118) इति भूतार्थे लट् । तथाहि । प्रायेण विश्वसृजो विधातुः प्रवृत्तिर्गुणानां सामग्र्यविधौ साकल्यसंपादनविषये पराङ्मुखी । सर्वत्रापि वस्तुनि र्किचिद्वैकल्यं संपादयति । यथा चन्द्रे कलङ्कः । अतः कर्णिकारेऽपि नैर्गन्ध्यं युज्यत इति भावः । सामान्येन विशेषसमर्थनरुपोऽर्थान्तरन्यासोऽलंकारः
अन्वयः: कर्णिकारं वर्णप्रकर्षे सति निर्गन्धतया चेतो दुनोति स्म । प्रायेण विश्वसृजः प्रवृत्तिः गुणानां सामग्र्यविधौ पराङ्मुखी ।

Verse 29
बालेन्दुवक्राण्यविकासभावाद्बभुः पलाशान्यतिलोहितानि । सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): बालेन्द्विति । अविकासभावान्निर्विकासत्वान्मुकुलभावाद्देतोर्बालेन्दुरिव वक्राण्यतिलोहितान्यतिरक्तानि पलाशानि किंशुकपुष्पाणि । `पलाशं किंशुकः पर्णः` इत्यमरः । वसन्तेन पुंसा समागतानां संगतानां वनस्थलीनां स्त्रीणां सद्यः सद्यो दत्तानि । पुराणेष्वतिलौहित्याभावादिति भावः । नखक्षतानीव बभुः । अत्र वसन्तस्य वनस्थलीनां च विशेषणसाधारण्यान्नायकव्यवहारप्रतीतेः समासोक्तिस्तावदस्ति । `नखक्षतानीव` इति जातिस्वरुपोत्प्रेक्षा वक्रत्वलौहित्यगुणनिमित्ता जागर्ति । सा च नायकव्यवहाराश्रितसमासोक्तिगर्भिण्येवोत्तिष्ठत इत्युभयोरेककालतैव । विशेषणसामार्थ्यादप्रस्तुतस्य गम्यत्वे समासोक्तिरिष्यत इति हि लक्षणम्
अन्वयः: अविकासभावात् बालेन्दुवक्राणि अतिलोहितानि पलाशानि वसन्तेन समागतानां वनस्थलीनां सद्यो नखक्षतानि इव बभुः ।

Verse 30
लग्नद्विरेफाञ्जनभक्तिचित्रम्मुखे मधुश्रीस्तिलकं प्रकाश्य । रागेण बालारुणकोमलेन चूतप्रवालोष्ठमलंचकार ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): लग्नेति । मधुश्रीवंसन्तलक्ष्मीर्लग्नद्विरेफा एवाञ्जनभक्तयः कज्जलरचनास्ताभिश्चित्रं चित्रवर्णं तिलकं पुष्पविशेषमेव तिलकं विशेषकम् । मुखं प्रारम्भस्तस्मिन्नेव मुखे वक्त्रे प्रकाश्य प्रकटय्य बालारुणकोमलेन बालार्कसुन्दरेण रागेणारुणिम्ना तेनेव लाक्षारागेण चूतप्रवाल एवौष्ठस्तं चूतप्रवालोष्ठमलंचकार प्रसाधयामास । अत्र रुपकालंकारः
अन्वयः: मधुश्रीः लग्नद्विरेफाञ्जनभक्तिचित्रं तिलकं मुखे प्रकाश्य बालाऽरुणकोमलेन रागेण चूतप्रवालोष्ठम् अलञ्चकार ।