कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 31 to 40 of 76 verses
Verse 31
मृगाः प्रियालद्रुममञ्जरीणां रजःकणैर्विघ्नितदृष्टिपाताः । मदोद्धताः प्रत्यनिलं विचेरुर्वनस्थलीर्मर्मरपत्रमोक्षाः ॥
Metre: उपेन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): मृगा इति । प्रियालद्रुमा राजादनवृक्षाः । `राजादनः प्रियालः स्यात्` इत्यमरः । तेषां मञ्जर्यस्तासां रजःकणैर्विध्निताः संजातविध्ना दृष्टीनां पाताः प्रसादा येषां ते तथोक्ताः मदोद्धता मृगाः प्रत्यनिलमनिलाभिमुखं मर्मरा मर्मरशब्दवन्तः पत्रमोक्षा जीर्णपर्णपाता यासु ता वनस्थलीर्विचेरुर्वनप्रदेशेषु चरन्ति स्म । `देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्` । इति चरतेः सकर्मकत्वम्
अन्वयः: प्रियालद्रुममञ्जरीणां रजःकणैः विध्नितदृष्टिपाता मदोद्धताः मृगाः प्रत्यनिलं मर्मरपत्रमोक्षा वनस्थलीः विचेरुः ।

Verse 32
चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज । मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): चूताङ्कुरेति । चूताङ्कुराणामास्वादेन कषायकण्ठो रक्तकण्ठः । `सरभावपथे रक्ते कषायः` इति केशवः । पुमान्कोकिलः । पुंग्रहणं प्रागल्भ्यद्योतनार्थम् । मधुरं चुकूजेति यत्तत्कूजनमेव मनस्विनीनां मानविघाते रोषनिरासे दक्षं स्मरस्य वचनं मानं त्यजतेत्याज्ञावचनं जातम् । कोकिलकूजितश्रवणानन्तरं स्मराज्ञत्पा इव मानं जहुरित्यर्थः
अन्वयः: चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यत् मधुरं चुकूज, तद् एव मनस्विनीमानविघातदक्षं स्मरस्य वचनं जातम् ।

Verse 33
हिमव्यपायाद्विशदाधराणामापाण्डुरीभूतमुखच्छवीनाम् । स्वेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): हिमेति । हिमस्य व्यपायादपगमाद्विशदा नीरुजा अधरा ओष्ठा यासां तासामापाण्डरीभूतमुखच्छवीनाम् । कुङ्कुमपरिहारादिति भावः । किंपुरूषाङ्गनानां पत्रविशेषकेषु पत्ररचनासु स्वेदोद्‌गमः पदं चक्रे । घर्मोदयात्स्वेदोदयोऽभूदित्यर्थः । विशदाधरात्वं मधूच्छिष्टराहित्यादिति हेमन्तेषु नार्यो बिम्बोष्ठेषु मधुच्छिष्टं शीतभयाद्दधतीति प्रसिद्धम्
अन्वयः: हिमव्यपायात् विशदाऽधराणाम् आपाण्डरीभूतमुखच्छवीनां किंपुरुषाऽङ्गनानां पत्रविशेषकेषु स्वेदोद्‌गमः पदं चक्रे ।

Verse 34
तपस्विनः स्थाणुवनौकसस्तामाकालिकीं वीक्ष्य मधुप्रवृत्तिम् । प्रयत्नसंस्तम्भितविक्रियाणां कथं चिदीशा मनसां बभूवुः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तपस्विन इति । स्थाणोर्वनमोको येषां ति तपस्विनस्तत्रत्या मुनयः । समानकाले आद्यन्तावस्या आकालिकीम् । अकालभवत्वादुत्पत्त्यनन्तरविनीशिनीमित्यर्थः । `आकालिकडाद्यन्तवचने` (पा.5|1|114) इति समानकालदिकट्प्रत्ययः प्रकृतेराकाल आदेशश्च निपातितः । `टिड्ढाणञ्-` इत्यादिना ङीप् । केचिदकालाद् देहादध्यात्मादित्वाद्भवार्थे ठगित्याहुः । तामाकालिकीं मधुप्रवृत्तिं वीक्ष्य प्रयत्नेन संस्तम्भितविक्रियाणां निरुद्धविकाराणां मनसां कथंचिदीशा नियन्तारो बभूवुः
अन्वयः: स्थाणुवनौकसः तपस्विनः आकालिकीं तां मधुप्रबृत्तिं वीक्ष्य प्रयत्नसंस्तम्भितविक्रियाणां मनसां कथंचित् ईशा बभूवुः ।

Verse 35
तं देशमारोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने । काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवव्रुः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तमिति । आरोपितमधिज्यं कृतं पुष्पचापं येन तस्मिन्रतिर्द्वितीया यस्य तस्मिन्रतिसहाये मदने तं देशं स्थाण्वाश्रमं प्रपन्ने प्राप्ते सति द्वन्द्वानि स्थावराणि जङ्गमानि च मिथुनानि काष्ठोत्कर्षः । `काष्ठोत्कर्षे स्थितौ दिशि` इत्यमरः (अ.को.3|3|47) । तां गतो यः स्नेह इष्टसाधननिबन्धनः प्रेमापरनामा ममताभिमानः `प्रेमा ना प्रियता हार्दं प्रेम स्नेहः` इत्यमरः (अ.को.3|3|47) । स एव रसस्तेनानुविद्धं संपृक्तं भावं रत्याख्यं श्रृङ्गारभावं क्रियया कार्यभूतया चेष्टया विवब्रुः प्रकटीचक्रुः । श्रृङ्गारचेष्टाः प्रावर्तन्तेत्यर्थः
अन्वयः: आरोपितपुष्पचापे रतिद्वितीये मदने तं देशं प्रपन्ने सति द्वन्द्वानि काष्ठागतस्नेहरसाऽनुविद्धं भावं क्रियया विवब्रुः ।

Verse 36
मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः । शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): मध्विति । द्वौ रेफौ वर्णविशेषौ यस्य स द्विरेफो भ्रमरः । उपचारात्तदर्थोऽपि द्विरेफ उच्यते । यथाह कैयटः- `शब्दधर्मेणाप्यर्थस्य व्यपदेशो दृश्यते । यथा भ्रमरशब्दस्य द्विरेफत्वाद् द्विरेफो भ्रमरः` इति । कुसुममेवैकं साधारणं पात्रं तस्मिन्मधु मकरन्दम् । `मधु मद्ये पुष्परसे` इति विश्वः । स्वां प्रियां भृङ्गीमनुवर्तमानोऽनुसरन्पपौ । तत्पीतशेषं पपावित्यर्थः । कृष्णश्चासौ सारः शवलश्च कृष्णसारः कृष्णमृगः । `वर्णो वर्णेन` (पा.2|1|69) इति समासः । स्पर्शेन स्पर्शसुखेन निमीलिताक्षीं मृगीं श्रृङ्गेणाकण्डूयत कर्षितवान् । `कण्ड्‌वादिभ्यो यक्‌` इति यक् । ततः कर्तरि लङ्
अन्वयः: द्विरेफः कुसुमैकपात्रे मधु स्वां प्रियाम् अनुवर्तमानः (सन्) पपौ । कुष्णासारश्च स्पर्शनिमीलिताक्षीं मृगीं श्रृङ्णेण अकण्डूयत ।

Verse 37
ददौ रसात्पङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः । अर्धोपभुक्तेन बिसेन जायां संभावयामास रथाङ्गनामा ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): ददाविति । रसादतिरागात्करेणुः करिणी । `करेणुरिभ्यां स्त्री नेभे` इत्यमरः (अ.को.3|3|59) । पङ्काज्जायत इति पङ्कजं तस्य रेणुः पङ्कजरेणुस्तस्य गन्धोऽस्यास्तीति पङ्कजेरणुगन्धि गण्डूषजलं मुखान्तर्धृतजलं गजाय ददौ । रथाङ्गनामा चक्रवाकोऽर्धं यथातथोपभुक्तेनार्द्धजग्धेन बिसेन जायां संभावयामास । स्वजग्धशेषं ददावित्यर्थः
अन्वयः: रसात् करेणुः पङ्कजरेणुगन्धि गण्डूषजलं गजाय ददौ । रथाऽङ्गनामा च अर्धोपमुक्तेन बिसेन जायां सम्भावयामास ।

Verse 38
गीतान्तरेषु श्रमवारिलेशैः किंचित्समुच्छ्वासितपत्रलेखम् । पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किंपुरुषश्चुचुम्बे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): गीतान्तरेष्विति । किंपुरुषः किंनरः श्रमवारिलेशैः स्वेदोदबिन्दुभिः किंचिदीषत्समुच्छ्‌वासिता विश्लेषिताः पत्रलेखा यस्य तत् । पुष्पाणामासवो मद्यं पुष्पासवः । पुष्पोद्भवमद्यमित्यर्थः । वसन्ते मधूकस्य संभवात्पुष्पवासितमिति केचित् । तेनाघूर्णिताभ्यामुद्‌भ्रान्ताभ्यां शोभत इति तथोक्तं प्रियामुखं गीतान्तरेषु गीतमध्यंषु चुचुम्बे चुचुम्ब
अन्वयः: किंपुरुषः गीताऽन्तरेषु श्रमवारिलेशैः किञ्चित्समुच्छ्‌वासितपत्रलेखं पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं चुचुम्बे ।

Verse 39
पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवालौष्ठमनोहराभ्यः । लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): पर्याप्तेति । पर्याप्ताः समग्राः पुष्पस्तबका एव स्तना यासां ताभ्यः । `स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्` (पा.4|1|54) इति विकल्पान्न ङीप् । स्फुरन्तः प्रवालाः पल्लवा एवौष्ठास्तैर्मनोहराभ्यो लता एव वध्वस्ताभ्यः सकाशात्तरवोऽपि । लिङ्गादेव पुंस्त्वं गम्यते । विनम्राः शाखा एव भुजास्तैर्बन्धनान्यवापुः । ताभिरालिङ्गिता इत्यर्थः । स्थावराणामपि मदनविकारोऽभूत्किमुतान्योषामिति भावः । एतच्च तरुलतानामपि चेतनत्वादुक्तम् । यथाह मनुः- `अन्तः संज्ञा भवन्त्येते सुखदुःखसमन्विताः` । इति । अत्र रुपकालंकारः
अन्वयः: तरवोऽपि पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यो लतावधूभ्यः विनम्रशाखाभुजबन्धनानि अवापुः ।

Verse 40
श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव । आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): श्रुतेति । अस्मिन्क्षणे वसन्ताविर्भावकाले भगवान्हरः श्रुताप्सरोगीतिरपि । दिव्याङ्गनागानमाकर्णयन्नपीत्यर्थः । प्रसंख्यानपर आत्मानुसंधानपरो बभूव । तथाहि । आत्मनश्चित्तस्येश्वराणां नियन्तॄणाम् । वशिनामित्यर्थः । विहन्यन्त एभिरिति विध्नाः प्रत्यूहाः । घञर्थे कप्रत्ययः । जातु कदाचिदपि समाधिभेदे समाधिभञ्जने प्रभवः समर्था न भवन्ति
अन्वयः: अस्मिन् क्षणे हरः श्रुताऽप्सरोगीतिः अपि प्रसंख्यानपरो बभूव । आत्मेश्वराणां विध्ना जातु समाधिभेदप्रभावा न भवन्ति ।