मृगाः प्रियालद्रुममञ्जरीणां रजःकणैर्विघ्नितदृष्टिपाताः । मदोद्धताः प्रत्यनिलं विचेरुर्वनस्थलीर्मर्मरपत्रमोक्षाः ॥
Metre: उपेन्द्रवज्रा
चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज । मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य ॥
Metre: उपजातिः
हिमव्यपायाद्विशदाधराणामापाण्डुरीभूतमुखच्छवीनाम् । स्वेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु ॥
Metre: उपजातिः
तपस्विनः स्थाणुवनौकसस्तामाकालिकीं वीक्ष्य मधुप्रवृत्तिम् । प्रयत्नसंस्तम्भितविक्रियाणां कथं चिदीशा मनसां बभूवुः ॥
Metre: उपजातिः
तं देशमारोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने । काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवव्रुः ॥
Metre: उपजातिः
मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः । शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥
Metre: उपजातिः
ददौ रसात्पङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः । अर्धोपभुक्तेन बिसेन जायां संभावयामास रथाङ्गनामा ॥
Metre: उपजातिः
गीतान्तरेषु श्रमवारिलेशैः किंचित्समुच्छ्वासितपत्रलेखम् । पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किंपुरुषश्चुचुम्बे ॥
Metre: उपजातिः
पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवालौष्ठमनोहराभ्यः । लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥
Metre: उपजातिः
श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव । आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥
Metre: उपजातिः