कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 51 to 60 of 76 verses
Verse 51
स्मरस्तथाभूतमयुग्मनेत्रं पश्यन्नदूरान्मनसाप्यधृष्यम् । नालक्षयत्साध्वससन्नहस्तः स्रस्तं शरं चापमपि स्वहस्तात् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स्मरेति । स्मरः कामस्तथाभूतं पूर्वोक्तरुपं मनसाप्यधृष्यमयुग्मनेत्रं विषमाक्षमदूरात्पश्यन् । साध्वसेन सन्नहस्तो विश्लथपाणिः सन् । स्वहस्तात्स्त्रस्तं शरं चापमपि चापं च नालक्षयन्न विवेद । भीतो मुह्यतीति भावः
अन्वयः: स्मरः तथाभृतं मनसा अपि अधृष्यम् अयुग्मनेत्रम् अदूरात् पश्यन् साध्वससन्नहस्तः (सन् ) स्वहस्तात् स्त्रस्तं शरं चापम् अपि न अलक्षयत् ।

Verse 52
निर्वाणभूयिष्ठमथास्य वीर्यं संधुक्षयन्तीव वपुर्गुणेन । अनुप्रयाता वनदेवताभ्यामदृश्यत स्थावरराजकन्या ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): निर्वाणेति । अथ निर्वाणेन नाशेन भूयिष्ठं निर्वाणभूयिष्ठम् । नष्टप्रायमित्यर्थः । अस्य स्मरस्य वीर्यं बलं वपुर्गुणेन सौन्दर्येण संधुक्षयन्तीव पुनरुज्जीवयन्तीव स्थिता वनदेवताभ्याम् सखीभूताभ्यामनुप्रयातानुगता स्थावरराजकन्या पार्वत्यदृश्यत दृष्टा
अन्वयः: अथ निर्वाणभूयिष्ठम् अस्य वीर्यं वपुर्गुणेन सन्धुक्षयन्ती इव (स्थिता) वनदेवताभ्याम् अनुप्रयाता स्थावरराजकन्या अदृश्यत् ।

Verse 53
अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम् । मुक्ताकलापीकृतसिन्दुवारं वसन्तपुष्पाभरणं वहन्ती ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अशोकेति । अशोकपुष्पेण निर्भर्त्सितास्तिरस्कृताः पद्मरागा येन तत्तथोक्तम् । आकृष्टहेमद्युतीन्याहृतस्वर्णाभरणवर्णानि कर्णिकाराणि यर्स्मिस्तत् तथोक्तम् । मुक्ताकलापीकृतानि सिन्धुवाराणि निगुण्डीकुसुमानि यस्मिंस्तत् । `सिन्धुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि` इत्यमरः । वसन्तपुष्पाण्येवाभरणं वहन्ती
अन्वयः: अशोकनिर्भर्त्सितपद्मरागम् आकृष्टहेमद्युतिकर्णिकारं मुक्ताकलापीकृतसिन्धुवारं वसन्तपुष्पाभरणं वहन्ती (स्थावरराजकन्या अदृश्यत) ।

Verse 54
आवर्जिता किं चिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । पर्याप्तपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): आवर्जितेति । स्तनाभ्यां किंचिदावर्जितेवेषदानमितेव तरुणार्कस्य राग इव रागो यस्य तत् । बालार्कारुणमित्यर्थः । उपमानपूर्वपदो बहुव्रीहिरुत्तरपदलोपश्च । वासो वसानाच्छादयन्ती । अत एव पर्याप्तपुष्पस्तबकावनम्रा पल्लविनी किसलयवती संचारिणी लतेव । स्थितेति शेषः
अन्वयः: स्तनाभ्यां किञ्चित् आवर्जिता इव, तरुणाऽर्करागं वासो वसाना (अत एव) पर्याप्तपुष्पस्तबकाऽवनम्रा सञ्चारिणी पल्लविनी लता इव (स्थावरराजकन्या अदृश्यत) ।

Verse 55
स्रस्तां नितम्बादवलम्बमाना पुनः-पुनः केसरदामकाञ्चीम् । न्यासीकृतां स्थानविदा स्मरेण मौर्वीं द्वितीयामिव कार्मुकस्य ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स्रस्तामिति । स्थानविदा निक्षेपयोग्यस्थानवेदिना स्मरेण न्यासीकृतां निक्षेपीकृताम् । कर्मणि प्रभवतीति कार्मुकं धनुः । `कर्मण उकञ्` (पा.5|1|103) इत्युकञ्प्रत्ययः । तस्य द्वितीयां मौर्वीमिव स्थिताम् । अत्र हि न्यस्ता मौर्व्युत्तरत्र हरवैरनिर्यातनायोपयुज्यत इति भावः । नितम्बात्स्रस्तां चलितां केसरदाम बकुलमाला सैव काञ्ची तां पुनः पुनरवलम्बमाना हस्तेन धारयन्ती
अन्वयः: स्थानविदा स्मरेम न्यासीकृता कार्मुकस्य द्वितीयां मौर्वीम् इव नितम्बात् स्रस्तां केसरदामकाञ्चीं पुनः पुनः अवलम्बमाना (स्थावरराजकन्या अदृश्यत) ।

Verse 56
सुगन्धिनिःश्वासविवृद्धतृष्णं बिम्बाधरासन्नचरं द्विरेफम् । प्रतिक्षणं संभ्रमलोलदृष्टिर्लीलारविन्देन निवारयन्ती ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): सुगन्धीति । सुगन्धिभिर्निश्वासैर्विवृद्धतृष्णम् । बिम्बतुल्योऽधरो बिम्बाधरः । `वृत्तौ मध्यपदलोपः स्यात्` इति वामनः । तस्यासन्नचरं संनिकृष्टचरं द्विरेफं भृङ्गं प्रतिक्षणं संभ्रमेण लोलदृष्टिश्चञ्चलाक्षी सती लीलारविन्देन निवारयन्ती
अन्वयः: सुगन्धिनिश्वासविवृद्धतृष्णं बिम्बाऽधरासन्नचरं द्विरेफं प्रतिक्षणं संभ्रमलोलदृष्टिः (सती) लीलाऽरविन्देन निवारयन्ती (स्थावरराजकन्या अदृश्यत) ।

Verse 57
तां वीक्ष्य सर्वावयवानवद्यां रतेरपि ह्रीपदमादधानाम् । जितेन्द्रिये शूलिनि पुष्पचापः स्वकार्यसिद्धिं पुनराशशंसे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तामिति । सर्वावयवेष्वनवद्यामगर्ह्याम् । `अवद्यपण्ये-` ति निपातः । रतेः कामकलत्रस्यापि ह्रीपदं लज्जानिमित्तमादधानाम् । न्यूनतामावहन्तीमित्यर्थः । तां पार्वतीं वीक्ष्य पुष्पचापः कामो जितेन्द्रिये दुर्जयेऽपीत्यर्थः । शूलिनि शिवे विषये स्वकार्यसिद्धिं पुनराशशंसे चकमे । पूर्वं `साध्वससन्नहस्तः` (३, ५१) इत्यादिना कार्यसिद्धेरुन्मूलितत्वाभिधानादिह पुनरित्युक्तम्
अन्वयः: सर्वाऽवयवाऽनवद्यां रतेः अपि ह्रीपदम् आदधानां तां वीक्ष्य पुष्पचापः जितेन्द्रये शूलिनि स्बकार्यसिद्धिं पुनः आशशंसे ।

Verse 58
भविष्यतः पत्युरुमा च शंभोः समाससाद प्रतिहारभूमिम् । योगात्स चान्तः परमात्मसंज्ञं दृष्ट्वा परं ज्योतिरुपारराम ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): भविष्यत इति । उमा च भविष्यतः पत्युः शंभोः प्रतिहारभूमिं द्वारदेशं समाससाद । `स्त्री द्वार्द्वारं प्रतीहारः` इत्यमरः (अ.को.2|2|16) । स शंभुश्चान्तः परमात्मेति संज्ञा यस्य तत्परं मुख्यम् `रं दूरान्मुख्येषु ` इति यादवः । ज्योतिर्दृष्ट्वा साक्षात्कृत्य योगध्यानात्। `योगः संनहनोपायध्यानसंगतियुक्तिषु` इत्यमरः (अ.को.2|2|16) । उपाररामोपारतः । `व्याङ्परिभ्यो रमः` (पा.1|3|83) इति परस्मैपदम्
अन्वयः: उमा च भविष्यतः पत्युः शम्भोः प्रतिहारभूमिं समाससाद । स च अन्तः परमात्मसंज्ञं परं ज्योतिः दृष्ट्वा योगात् उपारराम ।

Verse 59
ततो भुजंगाधिपतेः फणाग्रैरधः कथं चिद्धृतभूमिभागः । शनैः कृतप्राणविमुक्तिरीशः पर्यङ्कबन्धं निबिडं बिभेद ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तत इति । ततो भुजंगाधिपतेः शेषस्य फणाग्रैरधो भूमेरधः कथंचिदतियत्नेन धृतो भूमिभागः स्वोपवेशनभूभागो यस्य स तथोक्तः । वायुधारणाहितलाघवनिवृत्त्या भगवतो गुरुत्वादिति भावः । शनैः कृता प्राणानां प्राङ्‌निरुद्धानां विमुक्तिः पुनः संचारो येन स कृतप्राणविमुक्तिरीशो निबिडं दृढं पर्यङ्कबन्धं वीरासनं बिभेद शिथिलीचकार
अन्वयः: ततो भुजङ्गाऽधिपतेः फणाऽग्रैः अधः कथंचिद्‌धृतभूमिभागः शनैः कृतप्राणविमृक्तिः ईशः निबिडं पर्यङ्कबन्धं बिभेद ।

Verse 60
तस्मै शशंस प्रणिपत्य नन्दी शुश्रूषया शैलसुतामुपेताम् । प्रवेशयामास च भर्तुरेनां भ्रूक्षेपमात्रानुमतप्रवेशाम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्मा इति । अथ नन्दी तस्मै भगवते । क्रियाग्रहणाच्चतुर्थी । प्रणिपत्य नमस्कृत्य शुश्रूषया सेवया निमित्तेनोपेताम् । सेवार्थमागतामित्यर्थः । शैलसुतां शशंस निवेदयामास । भर्तुः स्वामिनो भ्रूक्षेपमात्रेण भ्रूसंज्ञयैवानुमतप्रवेशामङ्गीकृतप्रवेशामेनां शैलसुतां प्रवेशायामास च
अन्वयः: अथ नन्दी तस्मै प्रणिपत्य शुश्रूषया उपेतां शैलसुतां । भर्तुः भ्रूक्षेपमात्राऽनुमतप्रवेशाम् एनां प्रवेशायामास च ।