कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 61 to 70 of 76 verses
Verse 61
तस्याः सखीभ्यां प्रणिपातपूर्वं स्वहस्तलूनः शिशिरात्ययस्य । व्यकीर्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्या इति । तस्याः पार्वत्याः सखीभ्यां पूर्वोक्ताभ्यां स्वहस्तेन लून उपचितः पल्लवभङ्गभिन्नः किसलयशकलमिश्रः शिशिरात्ययस्य वसन्तस्य सम्बन्धी पुष्पोच्चयः पुष्पप्रकारः । `हस्तादाने चेरस्तेये` (पा.3|3|40) इति घञ्विषयत्वात्कवीनामयं प्रामादिकः प्रयोग इति वल्लभः । त्र्यम्बकपादमूले प्रणिपातपूर्वं नमस्कारपूर्वंकं व्यकीर्यत विक्षिप्तः
अन्वयः: तस्याः सखीभ्यां स्वहस्तलूनः पल्लवभङ्गभिन्नः शिशिराऽत्ययस्य पुष्पोच्चयः त्र्यम्बकपादमूले प्रणिपातपूर्वं व्यकीर्यत ।

Verse 62
उमापि नीलालकमध्यशोभि विस्रंसयन्ती नवकर्णिकारम् । चकार कर्णच्युतपल्लवेन मूर्ध्ना प्रणामं वृषभध्वजाय ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): उमेति । उमापि नीलालकानां मध्ये शौभत इति तथोक्तम् । अलकन्यस्तमित्यर्थः । नवकर्णिकारं विस्रंसयन्ती कर्णाच्च्युतः पल्लवो यस्य तेन मूर्ध्ना वृषभध्वजाय प्रणामं चकार । क्रियाग्रहणात्संप्रदानत्वम्
अन्वयः: उमा अपि नीलाऽलकमध्यशोभि नवकर्णिकारं विस्त्रंसयन्ती कर्णच्युतपल्लवेन मूर्ध्ना वृषभध्वजाय प्रणामं चकार ।

Verse 63
अनन्यभाजं पतिमाप्नुहीति सा तथ्यमेवाभिहिता भवेन । न हीश्वरव्याहृतयः कदा चित्पुष्यन्ति लोके विपरीतमर्थम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अनन्येति । सा कृतप्रणामा देवी, भवेन हरेण । अन्यां न भजतीति तमनन्यभाजम् `भजोण्विः` इति ण्विप्रत्ययः । सर्वनाम्नो वृत्तिमात्रे पूर्वपदस्य पुंवद्भावः । पतिमाप्नुहीति तथ्यं सत्यमेवाभिहितोक्ता उत्तरत्र तथैव संभवादिति भावः । अभिदधातेर्ब्रुवर्थस्य दुहादित्वादप्रधाने कर्मणि क्तः । तथाहि । ईश्वरव्याहृतयो महापुरुषोक्तयः कदाचिदपि लोके भुवने `लोकस्तु भुवने जने` इत्यमरः (अ.को.3|3|2) । विपरीतं विपरीतं विसंवादिनमर्थमभिधेयं न पुष्णन्ति । न बोधयन्तीत्यर्थः
अन्वयः: सा भवेन `अनन्यभाजं पतिम् आप्नुहि` इति तथ्यम् एव अभिहिता । हि ईश्वरव्‌याहृतयः कदाचित् अपि लोके विपरीतम् अर्थम् न पुष्णन्ति ।

Verse 64
कामस्तु बाणावसरं प्रतीक्ष्य पतङ्गवद्वह्निमुखं विविक्षुः । उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुराममर्श ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): काम इति । कामस्तु बाणावसरं प्रतीक्ष्योमासंनिधानादयमेव बाणप्रयोगसमय इति ज्ञात्वा पतङ्गेन तुल्यं पतङ्गवच्छलभवत् । `समौ पतङ्गशलभौ` इत्यमरः (अ.को.2|5|31) । `तेन तुल्यं क्रिया चेद्वतिः` (पा.5|1|115) इति वतिप्रत्ययः । वह्निमुखं विविक्षुः प्रवेष्टुमिच्छुः । विशतेः सन्नन्तादुप्रत्यः । उमायाः समक्षमक्ष्णः समीपमुमासमक्षम् । `अव्ययीभावे शरत्प्रभृतिभ्यः` (पा.5|4|107) इति समासान्तोऽच्प्रत्ययः । हरे बद्धलक्ष्यः सन् । शरासनस्य ज्यां मौर्वीं मुहुराममर्श परामृष्टवान्
अन्वयः: कामस्तु बाणाऽवसरं प्रतीक्ष्य पतङ्गवत् वह्निमुखं विविक्षुः उमासमक्षं हरबद्धलक्ष्यः (सन्) शरऽसनज्यां मुहुः आममर्श ।

Verse 65
अथोपनिन्ये गिरिशाय गौरी तपस्विने ताम्ररुचा करेण । विशोषितां भानुमतो मयूखैर्मन्दाकिनीपुष्करबीजमालाम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथ गौरी । तपोऽस्यास्तीति तपस्वी । `अस्मायामेधास्त्रजो विनिः` इति विनिप्रत्ययः । तस्मै तपस्विने गिरिशाय ताम्ररुचा रक्तवर्णेन करेण भानुमतोंऽशुमतो मयूखैर्विशोषितां मन्दाकिन्याः पुष्कराणि पद्मानि तेषां बीजानि तेषां मालां जपमालिकामुपनिन्ये समर्पितवती
अन्वयः: अथ गौरी तपस्विने गिरिशाय ताम्ररुचा करेण भानुमतो मयूखैः विशोषितां मन्दाकिनीपुष्करबीजमालाम् उपनिन्ये ।

Verse 66
प्रतिग्रहीतुं प्रणयिप्रियत्वात्त्रिलोचनस्तामुपचक्रमे च । संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): प्रतिग्रहीतुमिति । त्रिलोचनश्च प्रणयिप्रियत्वादर्थिप्रियत्वात्तामक्षमालां प्रतिग्रहीतुं स्वीकर्तुमुपचक्रमे । पुष्पं धनुर्यस्य स पुष्पधन्वा कामश्च । `वा संज्ञायाम्` (पा.5|4|133) इत्यनङादेशः संमोह्यतेनेनेति संमोहनं नाम । नामेति प्रसिद्धौ अमोघं बाणं सायकं धनुषि समधत्त संहितवान्
अन्वयः: त्रिलोचनश्च प्रणयिप्रियत्वात् तां प्रतिग्रहीतुम् उपचक्रमे । पुष्पधन्वा च संमोहनं नाम अमोघं बाणं धनुषि समधत्त ।

Verse 67
हरस्तु किंचित्परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): हर इति । हरस्तु हरोऽपि चन्द्रोदयारम्भेऽम्बुराशिरिव किंचिदीषत्परिलुप्तधैर्यः न तु प्राकृतजनवदत्यन्तलुप्तधैर्य इति भावः । बिम्बफलतुल्योऽधरोष्ठो यस्य तस्मिन्निमामुखे विलोचनानि व्यापारयामास । त्रिभिरपि लोचनैः साभिलाषमद्राक्षीदित्यर्थः । एतेन भगवतो रतिभावोदय उक्तः
अन्वयः: हरस्तु चन्द्रोदयारहम्भे अम्बुराशिः इव किञ्चित् परिलुप्तधैर्यः (सन्) बिम्बफलाऽधरोष्ठे उमामुखे विलोचनानि व्यापारयामास ।

Verse 68
विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्बालकदम्बकल्पैः । साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): विवृण्वतीति । शैलसुतापि स्फुरद्‌बालकल्पैर्विकसत्कोमलनीपसदृशैः । पुलकितैरित्यर्थः । `ईषदसमाप्तौ-` इत्यादिना कल्पप्प्रत्ययः । अङ्गैर्भावं रत्याख्यं विवृण्वती प्रकाशयन्ती चारुतरेण पर्यस्तविलोचनेन व्रीडाविभ्रान्तनेत्रेण मुखेनासाचि साचि संपद्यमाना साचीकृता तिर्यक्कृता । `तिर्यगर्थे साचि तिर` इत्यमरः (अ.को.3|4|6) । तस्थौ । ह्रिया मुखं साचीकृत्य स्थितेत्यर्थः । न केवलं हरस्यैव देव्या अप्युदितो रतिभाव इति भावः
अन्वयः: शैलसुता अपि स्फुरद्‌बालकदम्बकल्पैः अङ्गैः भावं विवृण्वती चारुतरेण पर्यस्तविलोचनेन मुखेन साचीकृता तस्थौ ।

Verse 69
अथेन्द्रियक्षोभमयुग्मनेत्रः पुनर्वशित्वाद्बलवन्निगृह्य । हेतुं स्वचेतोविकृतेर्दिदृक्षुर्दिशामुपान्तेषु ससर्ज दृष्टिम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथायुग्मानि नेत्राणि यस्य सोऽयुग्मनेत्रस्त्रिनेत्रो वशित्वाज्जितेन्द्रियत्वादिन्द्रियक्षोभं पूर्वोक्तमिन्द्रियविकारं पुनर्बलवद्‌ दृढं निगृह्य निवार्य स्वचेतोविकृतेः स्वचित्तविकारस्य हेतुं कारणं दिदृक्षुर्द्रष्टुमिच्छुर्दिशामुपान्तेषु दृष्टिं ससर्ज प्रसारयामास
अन्वयः: अथ अयुग्मनेत्रः वशित्वात् इन्द्रिक्षोभं पुनः बलवत् निगृह्य स्वचेतोविकृतेः हेतुं दिदृक्षुः (सन्) दिशाम् उपान्तेषु दृष्टिं ससर्ज ।

Verse 70
स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् । ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥
Metre: उपेन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): स इति । स भगवान्दक्षिणापाङ्गे निविष्टा स्थिता मुष्टिर्यस्य तं नतांसमाकुञ्चितः सव्यपादो यस्य तम् । आलीढाख्यस्थानके स्थितमित्यर्थः । चक्रीकृतचारुचापं मण्डलीकृतसौम्यकोदण्डं प्रहर्तुमभ्युद्यतमात्मयोनिं मनोभवं ददर्श । आलीढलक्षणमाह यादवः- `स्थानानि धन्विनां पञ्च तत्र वैशाखमस्त्रियाम् । वितस्त्यन्तरगौ पादौ मण्डलं तोरणाकृति ॥ समानौ स्यात्समपदमालीढं पदमग्रतः । दक्षिणं वाममाकुञ्च्य प्रत्यालीढं विपर्ययः`
अन्वयः: स दक्षिणाऽपाङ्गनिविष्टमुष्टिं नतांऽसम् आकुञ्चितसव्यपादं चक्रीकृतचारुचापं प्रहर्तुम् अभ्युद्यतम् आत्मयोनिं ददर्श ।

Showing 61 to 70 of 76 verses