कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 71 to 76 of 76 verses
Verse 71
तपःपरामर्शविवृद्धमन्योर्भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य । स्फुरन्नुदर्चिः सहसा तृतीयादक्ष्णः कृशानुः किल निष्पपात ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तप इति । तपःपरामर्शेन तपस आस्कन्दनेन विवृद्धमन्योः प्रवृद्धकोपस्य भ्रूभङ्गेण दुष्प्रेक्ष्यं दुर्दशं मुखं यस्य तस्य हरस्य तृती.यादक्ष्णः स्फुरन्नुद्दीप्यमान उदर्चिरुद्‌भूतज्वालः कृशानुरग्निः सहसातर्कितमेव । `अतर्किते तु सहसा` इत्यमरः (अ.को.3|4|7) । निष्पपात किल निश्चक्राम खलु
अन्वयः: तपःपरामर्शविवृद्धमन्योः भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य तृतीयात् अक्ष्णः स्फुरन् उदर्चिः कुशानुः सहसा निष्पपात किल ।

Verse 72
क्रोधं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति । तावत्स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): क्रोधमिति । हे प्रभो स्वामिन्‌, क्रोधं संहर निवर्तय निवर्तय । `चापले द्वे भवत इति वक्तव्यम्` इति वार्तिकेन द्वित्वम् । `संभ्रमेण वृत्तिश्चापलम्` इति काशिका । इत्येवं मरुतां देवानां गिरो वाचः खे व्योम्नि यावच्चरन्ति प्रवर्तन्ते तावत्तत्कलमेव भवस्य नेत्राज्जन्म यस्य स भवनेत्रजन्मा । `अवर्ज्यो बहुर्व्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः` इति वामनः । स वह्निर्मदनं भस्मैवावशेषो यस्य तं भस्मावशेषं चकार । ददाहैत्यर्थः
अन्वयः: `हे प्रभो ! क्रोधं संहर संहर` इति मरुतां गिरः खे यावत् चरन्ति, तावत् भवनेत्रजन्मा स वह्निः मदनं भस्माऽवशेषं चकार ।

Verse 73
तीव्राभिषङ्गप्रभवेण वृत्तिम्मोहेन संस्तम्भयतेन्द्रियाणाम् । अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तीव्रेति । तीव्राभिषङ्गप्रभवेणातिदुःसहाभिभवसंभवेन । `अभिषङ्गस्त्वभिभवे सङ्ग आक्रोशनेऽपि च` इति वैजयन्ती । इन्द्रियाणां चक्षुरादीनां वृत्तिं व्यापारं संस्तम्भयता प्रतिबध्नता मोहेन मूर्च्छया कर्त्रा । रतिर्मदनभार्या मुहूर्तमज्ञातं भर्तृव्यसनं भर्तृनाशो यया सा तथोक्ता सती कृतोपकारेव बभूव । सहसा दुःखोपनिपातान्मुमूर्च्छेत्यर्थः । मोहेन दुःख संवेदनाभावत्तस्योपकारकत्वोक्तिः
अन्वयः: तीव्राऽभिषङ्गप्रभवेण इन्द्रियाणां वृत्तिं संस्तम्भयता मोहेन रतिः मुहुर्त्तम् अज्ञातभर्तुव्यसना (सती) कृतोपकारा इव बभूव ।

Verse 74
तमाशु विघ्नं तपसस्तपस्वी वनस्पतिं वज्र इवावभज्य । स्त्रीसंनिकर्षं परिहर्तुमिच्छन्नन्तर्दधे भूतपतिः सभूतः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तमिति । तपस्वी तपोनिष्ठो भूतपतिः शिवस्तपसो विध्नमन्तरायभूतं तं काममाशु वज्रोऽशनिर्वनस्पतिं वृक्षमिवावभज्य भङ्क्त्वा स्त्रीसंनिकर्षं स्त्रीसंनिधानं परिहर्तुमिच्छन् । तस्यानर्थहेतुत्वादिति भावः । सभूतः सगणः सन्नन्तर्दधे
अन्वयः: तपस्वी भूतपतिः तपसो विध्नं तम् आशु वज्रो वनस्पतिम् इव अवभज्य स्त्रीसन्निकर्षं परिहर्तुम् इच्छन् सभूतोऽन्तर्दधे ।

Verse 75
शैलात्मजापि पितुरुच्छिरसोऽभिलाषं व्यर्थं समर्थ्य ललितं वपुरात्मनश्च । सख्योः समक्षमिति चाधिकजातलज्जा शून्या जगाम भवनाभिमुखी कथं चित् ॥
Metre: वसन्ततिलका
सञ्जीविनीटीका (मल्लिनाथः): शैलात्मजा पार्वत्यप्युच्छिरस उन्नतशिरसो महतः पितुरभिलाषं हरोवरोऽस्त्विति मनोरथं ललितं सुन्दरमात्मनो वपुश्च व्यर्थ निष्फलं समर्थ्य विचार्य सख्योः समक्षं पुर इति च हेतुनाधिकं जातलज्जा । समानजनसमक्षमवमानस्य अतिदःसहत्वादिति भावः । शून्या निरुत्साहा सती कथञ्चित्कृच्छ्रेण भवनस्याभिमुखी जगाम
अन्वयः: शैलात्मजा अपि उच्छिरसः पितुः अभिलाषं ललितम् आत्मनो वपुश्च व्यर्थसमर्थ्य सख्योः समक्षम् इति च अधिकजातलज्जा शून्या सती कथञ्चित् भवनाभिमुखी जगाम ।

Verse 76
सपदि मुकुलिताक्षीं रुद्रसंरम्भभीत्या दुहितरमनुकम्प्यामद्रिरादाय दोर्भ्याम् । सुरगज इव बिभ्रत्पद्मिनीं दन्तलग्नां प्रतिपथगतिरासीद्वेगदीर्घीकृताङ्गः ॥
Metre: मालिनी
सञ्जीविनीटीका (मल्लिनाथः): सपदीति । सपद्यद्रिर्हिमवान्रुद्रस्य संरम्भात्कोपाद्भीत्या । `संरम्भः संभ्रमे कोपे` इति विश्वः । मुकुलिताक्षीं निमीलितनेत्राम् । `बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्` इति षच्प्रत्ययः । `षिद्‌गौरादिभ्यश्च` इति ङीष् । अनुकम्पितुमर्हामनुकम्प्याम् । `ऋहलोर्ण्यत्` (पा.3|1|124) इति ण्यत्प्रत्ययः । दुहितरं दोर्भ्यामादाय दन्तयोर्लग्नां पद्मिनीं नलिनीं बिभ्रत्सुरगज इव वेगेन रयेण दीर्घीकृताङ्ग आयतीकृतशरीरः सन् । पन्थानं प्रतिगता मार्गानुसारिणी स गतिर्यस्य प्रतिपथगतिरासीत् । पन्थानमनुसृत्य जगामेत्यर्थः
अन्वयः: सपदि अद्रिः रुद्रसंरम्भभीत्या मुकुलिताक्षीम् अनुकम्प्यां दुहितरं दोर्भ्याम् आदाय दन्तलग्नां पद्मिनीं सुरगज इव वेगदीर्घीकृताऽङ्गः सन् प्रतिपथगतिः आसीत् ।

Showing 71 to 76 of 76 verses