कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 41 to 50 of 76 verses
Verse 41
लतागृहद्वारगतोऽथ नन्दी वामप्रकोष्ठार्पितहेमवेत्रः । मुखार्पितैकाङ्गुलिसंज्ञयैव मा चापलायेति गणान्व्यनैषीत् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): लतेति । अथ लतागृहद्वारं गतो वामे प्रकोष्ठेऽर्पितहेमवेत्रो धारितहेमदण्डो नन्दी नन्दिकेश्वरः । `नन्दी भृङ्गिरिटिस्तण्डुनन्दिनौ नन्दिकेश्वरे` इति कोशः । मुखेऽर्पितायाः सरोषविस्मयस्तिमितावलोकं निहिताया एकस्या अङ्गुलेस्तर्जन्याः संज्ञया सूचनयैव । `संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना` इत्यमरः (अ.को.3|3|40) । गणान्प्रमथांश्चापलाय चापलं कर्तुं मा भवतेति । `क्रियार्थोपपदस्य-` इत्यादिना चतुर्थी । व्यनैषीच्छिक्षितवान्
अन्वयः: अथ लतागृहद्वारगतो वामप्रकोष्ठार्पितहेमवेत्रः नन्दी मुखाऽर्पितैकाऽङ्गुलिसंज्ञया एव गणान् `चापलाय मा (भूत) इति व्यनैषीत् ।

Verse 42
निष्कम्पवृक्षं निभृतद्विरेफं मूकाण्डजं शान्तमृगप्रचारम् । तच्छासनात्काननमेव सर्वं चित्रार्पितारम्भमिवावतस्थे ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): निष्कम्पेति । निष्कम्पवृक्षम्, इदमुद्भिजोपलक्षणम् । निभृतद्विरेफं निश्चलभृङ्गम् । स्वेदजोपलक्षणमेतत् । मूकाण्डजं निः शब्दंपक्षिसरीसृपादिकम् । एतेनाण्डजजातिरुक्ता । शान्तमृगप्रचारम्, जरायुजोपलक्षणमेतत् । सर्वमेव काननं तच्छासनान्नन्दीश्वराज्ञया चित्रार्पितारम्भं चित्रलिखितारम्भमिवावतस्थे । `नृगवाद्या जरायुजाः । स्वेदजाः कृमिदशाद्याः पक्षिसर्पादयोऽण्डजाः । `उद्भिदस्तरुगुल्माद्या` इत्यमरः
अन्वयः: निष्कम्पवृक्षं निभृतद्विरेफं मूकाऽण्डजं शान्तमृगप्रचारं सर्वम् एव काननं तच्छासनात् चिऽत्रार्पितारम्भम् इव अवतस्थे ।

Verse 43
दृष्टिप्रपातं परिहृत्य तस्य कामः पुरःशुक्रमिव प्रयाणे । प्रान्तेषु संसक्तनमेरुशाखं ध्यानास्पदं भूतपतेर्विवेश ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): दृष्टिप्रपातमिति । कामः प्रयाणे यात्रायां पुरोगतः शुक्रो यस्मिन्देशे तं पुरःशुक्रं देशमिव । `प्रतिशुक्रं प्रतिबुधं प्रत्यङ्गारकमेव च । अपि शक्रसमो राजा हतसैन्यो निवर्तते ।` इति प्रतिषेधात् । तस्य दृष्टिप्रपातं दृग्विषयं परिहृत्य प्रान्तेषु पार्श्वदेशेषु संसक्ता अन्योन्यसंसृष्टा नमेरुणां सुरपंनागानां शाखा यस्य तत् । तिरोधानयोग्यमिति भावः । भूतपतेः शिवस्य ध्यानास्पदं समाधिस्थानम् । `आस्पदं प्रतिष्ठायम्` इति निपातः । विवेश
अन्वयः: कामः प्रयाणे पुरःशुक्रम् (देशम्) इव तस्य दृष्टिप्रपातं परिहृत्य प्रान्तेषु संसक्तनमेरुशाखं भूतपतेः ध्यानास्पदं विवेश ।

Verse 44
स देवदारुद्रुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् । आसीनमासन्नशरीरपातस्त्र्यम्बकं संयमिनं ददर्श ॥
सञ्जीविनीटीका (मल्लिनाथः): स इति । आसन्नशरीरपात आसन्नमृत्युः स कामः शार्दूलचर्मणा व्यवधानवत्याम् । व्याघ्रचर्मास्तृतायामित्यर्थः । `मोक्षश्रीर्व्याघ्रचर्मणि` इति प्राशस्त्यादिति भावः । देवदारुद्रुमवेदिकायामासीनमुपविष्टं संयमिनं समाधिनिष्ठं त्रियम्बकं त्रिनेत्रं ददर्श । केचित्साहसिकाः `त्रिलोचनम्` इति पेठुः । त्र्यम्बकमित्युक्ते पादपूरणव्यत्यासात्त्रियम्बकमिति पादपूरणार्थोऽयमियङादेशश्छान्दसो महाकविप्रयोगादभियुक्तैरङ्गीकृतः
अन्वयः: आसन्नशरीरपातः स शर्दूलचर्मव्यवधानवत्यां देवदारुद्रुमवेदिकायाम् आसीनं संयमिनं त्रियम्बकं ददर्श ।

Verse 45
पर्यङ्कबन्धस्थिरपूर्वकायम् ऋज्वायतं संनमितोभयांसम् । उत्तानपाणिद्वयसंनिवेशात्प्रफुल्लराजीवमिवाङ्कमध्ये ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): पर्यङ्केति । पर्यङ्कबन्धेन वीरासनेन स्थिरपूर्वकायं निश्चलोत्तरार्धमृजुरायतश्चर्ज्वायतस्तं संनमिताबुभावसौ यस्य तं तथोक्तम् । वृत्तिविषये उभशब्दस्थान उभयशब्दप्रयोग इत्युक्तं कैयटेन । उत्तान ऊर्ध्वतलो यः पाणिद्वयस्य संनिवेशः संस्थानं तस्मादङ्कमध्ये प्रफुल्लं राजीवं पङ्कजं यस्य तमिव स्थितम् । वीरासने वसिष्ठः- `एकं पादमथैकस्मिन्विन्यस्योरौ तु संस्थितम् । इतरस्मिंस्तथैवोरुं वीरासनमुदाहृतम् ॥` इति । तथा योगसारे- `उत्तानिते करतले करमुत्तानितं परम् । आदायाङ्कगतं कृत्वा ध्यायेद्यस्तस्य सोऽन्तरम् ॥` इति
अन्वयः: पर्यङ्कबन्धस्थिरपूर्वकायम् ऋज्वायतं संनमितोत्तमाऽङ्गम् उत्तानपाणिद्वयसंवनिवेशात् अङ्कमध्ये प्रफुल्लराजीवम् इव (स्थितं ददर्श) ।

Verse 46
भुजंगमोन्नद्धजटाकलापं कर्णावसक्तद्विगुणाक्षसूत्रम् । कण्ठप्रभासङ्गविशेषनीलां कृष्णत्वचं ग्रन्थिमतीं दधानम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): भुजंगमेति ॥ बुजंगमोन्नद्ध उन्नमय्य बद्धो जटाकलापो येन तं तथोक्तम् । कर्णावसक्तम् । कर्णावलम्बीत्यर्थः । अत एव द्विगुणं द्विरावृत्तमक्षसूत्रमक्षमाला यस्य तं कण्ठप्रभाणां सङ्गेन मिश्रणेन विशेषनीलामतिनीलां ग्रन्थिमतीं बन्धनयुक्तां कृष्णत्वचं कृष्णमृगाजिनं दधानम्
अन्वयः: भुजङ्गमोन्नद्धजटाकलापं कर्णाऽवसक्तद्विगुणाऽक्षसूत्रं कण्ठप्रभासङ्गविशेषनीलां ग्रन्थिमतीं कृष्णत्वचं दधानम् (तं ददर्श) ।

Verse 47
किंचित्प्रकाशस्तिमितोग्रतारैर्भ्रूविक्रियायां विरतप्रसङ्गैः । नेत्रैरविस्पन्दितपक्ष्ममालैर्लक्ष्यीकृतघ्राणमधोमयूखैः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): किंचिदिति । किंचित्प्रकाशाः ईषत्प्रकाशाः स्तिमिता निश्चला उग्राश्च ताराः कनीनिका येषां तैः । `तारकाक्ष्णः कनीनिका` इत्यमरः (अ.को.2|6|93) । भ्रूविक्रियायां भ्रूविक्षेपे विरतप्रसङ्गैः प्रसक्तिरहितैरविस्पन्दितपक्ष्ममालैरचलितपक्ष्मपङ्क्तिभिरधःप्रसृता मयूखा येषां तैरधोमयूखैर्नेत्रैः । त्रिनेत्रत्वाद्वहुवचनम् । लक्ष्यीकृतघ्राणं नासाग्रनिविष्टदृष्टिमित्यर्थः । `करणान्यबहिष्कृत्य स्थणुवन्निश्चलात्मकः । आत्मानं हृदये ध्यायेन्नासाग्रन्यस्तलोचनः ॥` इति योगसारे
अन्वयः: किञ्चित्प्रकाशस्तिमितोग्रतारैः भ्रूविक्रियायां विरतप्रसङ्गैः अविस्पन्दितपक्ष्ममालैः अधोमयूखैः नेत्रैः लक्ष्यीकृतघ्राणम् (तं ददर्श) ।

Verse 48
अवृष्टिसंरम्भमिवाम्बुवाहमपामिवाधारमनुत्तरङ्गम् । अन्तश्चराणां मरुतां निरोधान्निवातनिष्कम्पमिव प्रदीपम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अवृष्टीति । अन्तश्चरन्तीत्यन्तश्चरास्तेषां मरुतां प्राणादीनां निरोधाद्धेतोरवृष्टिसंरम्भमविद्यमानवर्षसंभ्रममम्बुवाहमिव स्थितम् । एतेन प्राणनिरोधः सूचितः । अनुत्तरङ्गमनुद्‌भूततरङ्गमपामाधारे ह्रदमिव स्थितम् । एतेनापाननिरोधः सूचितः । तथा निर्वाते निर्वातप्रदेशे निष्कम्पं निश्चलं प्रदीपमिव स्थितम् । एतेन शेषवायुनिरोधः सूचितः । `निवातावाश्रयावातौ` इत्यमरः
अन्वयः: अन्तश्चराणां मरुतां निरोधात् अवृष्टिसंरम्भम् अम्बुवाहम् इव, अनुत्तरङ्गम् अपाम् आधारम् इव निवातनिष्कम्पं दीपम् इव (स्थितं तं ददर्श) ।

Verse 49
कपालनेत्रान्तरलब्धमार्गैर्ज्योतिःप्ररोहैरुदितैः शिरस्तः । मृणालसूत्राधिकसौकुमार्यां बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): कपालेति । कपालनेत्रान्तरेण ब्रह्मकरोटिनेत्रविवरेण लब्धमार्गैः शिरस्तो ब्रह्मरन्ध्रात् पञ्चम्यास्तसिल्‌ । उदितैरुद्‌भूतैर्ज्योतिः प्ररोहैस्तेजोङ्कुरैमृंणालसूत्राधिकं सौकुमार्यं मार्दवं यस्यास्तां बालस्येन्दोः शिरश्चन्द्रस्य लक्ष्मीं ग्लपयन्तम्
अन्वयः: कपालनेत्रान्तरलब्धमार्गैः शिरस्त उदितैः ज्योतिःप्ररोहैः मृणालसूत्राऽधिकसौकुमार्यां बालस्य इन्दोः लक्ष्मीं ग्लपयन्तम् (तं ददर्श)

Verse 50
मनो नवद्वारनिषिद्धवृत्ति हृदि व्यवस्थाप्य समाधिवश्यम् । यमक्षरं क्षेत्रविदो विदुस्तमात्मानमात्मन्यवलोकयन्तम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): मन इति । नवभ्यो द्वारेभ्यो निषिद्धा निवर्तिता वृत्तिः संचारो यस्य तत्तथोक्तम् । समाधिना प्रणिधानेन वश्यं वशंगतम् । यत्प्रत्ययः । `प्रणिधानं समाधानं समाधिश्च समाश्रयः` इति हलायुधः । मनो हृदि हृदयाख्येऽधिष्ठाने व्यवस्थाप्य । तथा च वसिष्ठः- `यतो निर्याति विषयान्यस्मंश्चैव प्रलीयते । हृदयं तद्विजानीयान्मनसः स्थितिकारणम् ॥` इति । क्षेत्रविदः क्षेत्रज्ञाः पुरुषाः । यं न क्षरतीत्यक्षरमविनाशिनं विदुर्विदन्ति । `विदो लटो वा ` इति झेर्जुस्‌ । तमात्मानमात्मनि स्वस्मिन्नवलोकयन्तं साक्षात्कुर्वन्तम् । स्वातिरेकेण परमात्मनोऽभावादिति भावः
अन्वयः: नवद्वारनिषिद्धवृत्ति समाधिवश्यं मनो हृदि व्यवस्थाप्य क्षेत्रविदः यम् अक्षरं विदुः तम् आत्मानम् आत्मनि अवलोकयन्तम् (तं ददर्श)।