कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 31 to 40 of 64 verses
Verse 31
एवं यदात्थ भगवन्नामृष्टं नः परैः पदम् । प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): ऐवमिति ॥ हे भगवन्‌ षड्गुणैश्वर्यसम्पन्न ! यदात्थ `कृतव्यावृत्तयः परैः` (२/२७) इति यद्‌व्रवीषि । `ब्रुवः पञ्चानाम्-` इतयादिनाहादेशः । `वर्तमानसामीप्य वर्तमानवद्वा` इति वर्तमानप्रयोगः । वामनस्तु भ्रान्तोऽयं प्रयोग ईत्याह । आहेति भूते णलन्तभ्रमवदिति । आहेत्युपलक्षणम् । तदेव सत्यम् नोऽस्माकं पदमधिकारः परैः शत्रुभिरामृष्टमाक्षित्पम् । हे प्रभो, प्रत्येकं प्रतिपुरुषं विनियुक्तात्मा प्रवेशितस्वरुपः । सर्वान्तर्यामीत्यर्थः । कथं न ज्ञास्यसि न वेत्सि । वर्तमानेऽपि वचनभङ्ग्या भविष्यन्निर्देशः प्रसिद्धः । `अपह्नवे ज्ञः` (पा.1|3|44) `अकर्मकाच्च` (पा.1|3|26) इत्यात्मनेपदविकल्पः
अन्वयः: हे भगवन् ! यत् आत्थ तत् एवम्, नः पदं परैः आमृष्टम् । हे प्रभो ! प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि ?

Verse 32
भवल्लब्धवरोदीर्णस्तारकाख्यो महासुरः । उपप्लवाय लोकानां धूमकेतुरिवोत्थितः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): भवदिति ॥ भवतस्त्वत्तो लब्धेन वरेणोदीर्ण उद्धतः तारक इत्याख्या नामधेयं यस्य स तारकाख्यः । महानसुरो महासुरः । `सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः` (पा.2|1|61) इति तत्पुरुषः । धूमकेतुरुत्पातविशेष इव लोकानामुपप्लवायोपद्रवायोत्थित उत्पन्नः
अन्वयः: भवल्लब्धवरोदीर्णः तारकाख्यो महासुरः धूमकेतुः इव लोकानाम् उपप्लवाय उत्थितः ।

Verse 33
पुरे तावन्तमेवास्य तनोति रविरातपम् । दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): पुर इति ॥ अस्य तारकस्य पुरे रविः सूर्यस्तावन्तं तावन्मात्रमेवातपं तनोति । यावन्मात्रेण यावतैव३। यावती मात्रा मितिर्यस्य यावन्मात्रं तेन वा । अल्पपरिमाणेनेत्यर्थः । मात्रा परिच्छदे । अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे` इत्यमरः । दीर्घिकासु क्रीडावापीषु कमलानामुन्मेषो विकासः साध्यते निष्पाद्यते कठोरकिरणोऽपि मन्दोष्णः सन्नेव तद्भीत्या पुरे प्रकाशत इत्यभिप्रायः
अन्वयः: अस्य पुरे रविः तावन्तम् एव आतपं तनोति यावन्मात्रेण दीर्घिकाकमलोन्मेषः साध्यते ।

Verse 34
सर्वाभिः सर्वदा चन्द्रस्तं कलाभिर्निषेवते । नादत्ते केवलां लेखां हरचूडामणीकृताम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सर्वाभिरिति ॥ चन्द्रस्तं तारकं सर्वदा । कृष्णपक्षेऽपीत्यर्थः । सर्वाभिः कलाभिर्निषेवते ।`कला तु षोडशो भागः` इत्यमरः (अ.को.1|3|17) । केवलां हरचूडामणीकृतां शिवशिरोमणीकृतां लेखां नादत्ते न गृह्णाति
अन्वयः: चन्द्रः तं सर्वदा सर्वाभिः कलाभिः निषेवते, केवलां हरचूडामणीकृतां लेखां न आदत्ते ।

Verse 35
व्यावृत्तगतिरुद्याने कुसुमस्तेयसाध्वसात् । न वाति वायुस्तत्पार्श्वे तालवृन्तानिलाधिकम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): व्यावृत्तेति ॥ वायुः स्तेनस्य भावः कर्म वा स्तेयं चौर्यम् । `स्तेनाद्यन्नलोपश्च` (पा.5|1|125) इति यत्प्रत्ययो नलोपश्च । कुसुमानां स्तेयं तस्मात्स्तेयाभियोगाद्दण्डाद्वा साध्वसं भयं तस्माद्धेतोरुद्याने व्यावृत्तगतिः । निवृत्तोद्यानसंचारः सन्नित्यर्थः । सापेक्षत्वेऽपि गमकत्वात् समासः । तत्पार्श्वे तत्समीपे । तालस्य वृन्तैरुद्ग्रन्थ्यते । तालस्येव वृन्तमस्येति वा तालवृन्तं तस्यानिलाद्व्यजनसंचारपवनादधिकं यथा तथा न वाति । `व्यजनं तालवृन्तकम्` इत्यमरः
अन्वयः: वायुः कुसुमस्तेयसाध्वसात् उद्याने व्यावृत्तगतिः (सन्) तत्पार्श्वे तालवृन्ताऽनिलाऽधिकं न वाति ।

Verse 36
पर्यायसेवामुत्सृज्य पुष्पसंभारतत्पराः । उद्यानपालसामान्यम् ऋतवस्तमुपासते ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): पर्यायेति ॥ ऋतवः षड् वसन्तादयः पर्यायसेवां क्रमसेवामुत्सृज्य पुष्पाणां संभारे संग्रहे तत्पराः । आसक्ताः सन्त इत्यर्थः । `तत्परे प्रसितासक्तौ` इत्यमरः (अ.को.3|1|9) । उद्यानपालैरुद्यानाधिकृतैः सामान्यं साधारणं यथा भवति तथा तं तारकमुपासते सेवन्ते । शीतोष्णादिदोषप्रकाशनं तु दूरापास्तमित्यर्थः
अन्वयः: ऋतवः पर्यायसेवाम् उत्सृज्य पुष्पसंभारतत्पराः (सन्तः) उद्यानपालसामान्यं तम् उपासते ।

Verse 37
तस्योपायनयोग्यानि रत्नानि सरितां पतिः । कथमप्यम्भसामन्तरा निष्पत्तेः प्रतीक्षते ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तस्येति ॥ सरितां पतिः समुद्रस्तस्य तारकस्योपायनानां प्राभृतानां योग्यानि । `प्राभृतं तु प्रदेशनम् । उपायनम्` इत्यमरः । रत्नान्यम्भसामन्तरा निष्पत्तेः परिपाकपर्यन्तम् । विकल्पादसमासः । कथमपि महता यत्नेन प्रतीक्षते । कदा वा परिपच्येरन्नित्येकाग्रेण पालयतीत्यर्थः
अन्वयः: सरितां पतिः तस्य उपायनयोग्यानि रत्नानि अम्भसाम् अन्तरा निष्पत्तेः कथमपि प्रतीक्षते ।

Verse 38
ज्वलन्मणिशिखाश्चैनं वासुकिप्रमुखा निशि । स्थिरप्रदीपतामेत्य भुजंगाः पर्युपासते ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): ज्वलदिति ॥ किंचेति चार्थः । ज्वलन्त्यो मणीनां शिरोरत्नानां शिखा ख्वाला येषां ते वासुकिप्रमुखा भुजङ्गाः सर्पाः । सिद्धाश्च ध्वन्यन्ते । `भुजंगः सिद्धसर्पयोः` इत्यमरः । निशि स्थिरप्रदीपतामनिर्वाणदीपत्वमेत्यैनं तारकं पर्युपासते परिवृत्य सेवन्ते
अन्वयः: ज्वलन्मणिशिखा वासुकिप्रमुखाः भुजङ्गाश्च निशि स्थिरप्रदीपताम् एत्य एनं पर्युपासते ।

Verse 39
तत्कृतानुग्रहापेक्षी तं मुहुर्दूतहारितैः । अनुकूलयतीन्द्रोऽपि कल्पद्रुमविभूषणैः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): इन्द्रोपि तेन तारकेण कृतं तत्कृतमनुग्रहं प्रसादमपेक्षते इति तथोक्तः सन् । मुहुर्दूतहारितैर्दूतप्रापिनैः कल्पद्रुमाणां विभूषणैः । तत्प्रसूनैरित्यर्थः । तं तारकमनुकूलयत्यनुकूलं करोति
अन्वयः: इन्द्रोऽपि तत्कृताऽनुग्रहापेक्षी (सन्) मुहुः दूतहारितैः कल्पद्रुमविभूषणैः तम् अनुकूलयति ।

Verse 40
इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् । शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): इत्थमिति । इत्थमुक्तप्रकारेण रविशशिपवनोदधिभुजंगसुरेन्द्रैराराध्यमानोऽपि भुवनत्रयं क्लिश्नाति पीडयति । तथाहि । दुर्जनः प्रत्यपकारेण प्रतीकारेणैव शाम्येच्छान्तो भवेत् । उपकारेण तु न शाम्येत् । प्रत्युत प्रकुप्यतीति भावः
अन्वयः: इत्थम् आराध्यमानोऽपि स भुवनत्रयं क्लिश्नाति । (हि) दुर्जनः प्रत्यपकारेण शाम्येत्, उपकारेण न शाम्येत् ।