कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 21 to 30 of 86 verses
Verse 21
तथाभितप्तं सवितुर्गभस्तिभिर्मुखं तदीयं कमलश्रियं दधौ । अपाङ्गयोः केवलमस्य दीर्घयोः शनैः-शनैः श्यामिकया कृतं पदम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): तथेति ॥ सवितुः सूर्यस्य गभस्तिभिः किरणैस्तथा पूवोक्तप्रकारेणातितप्तं संतप्तं तस्या इदं तदीयं मुखं कमलश्रियं कमलस्य शोभां दधौ प्राप । यथा रवितापात्कमलं न म्लायति प्रत्युत विकसति तथा तदीयं मुखमासीदिति भावः । किन्त्वस्य मुखस्य दीर्धयोरपाङ्गयोः केवलं नेत्रान्तयोरेव शनैर्मन्दंमन्दं श्यामिकया कालिम्ना पदं स्थानं कृतम् । तयोः सौकुमार्यादित्यर्थः
अन्वयः: सवितुः गभस्तिभिः तथा अतितप्तं तदीयं मुखं कमलश्रियं दधौ, अस्य दीर्घयोः अपाङ्गयोः शनैः शनैः श्यामिकया पदं कृतम् ।

Verse 22
अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडुपतेश्च रश्मयः । बभूव तस्याः किल पारणाविधिर्न वृक्षवृत्तिव्यतिरिक्तसाधनः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): अयाचितेति ॥ अयाचितोपस्थितमप्रार्थितोपनतं केवलमम्बूदकं रसात्मकस्यामृतमयस्योडूनां नक्षत्राणां पतिश्चन्द्रस्तस्य रश्मयश्च तस्याः पार्वत्याः पारणाविधिरभ्यवहारकर्म बभूव । तावन्मात्रसाधनकोऽभूदित्यर्थः । साध्यसाधनयोरभेदेन व्यपदेशः साधनान्तरव्यावृत्त्यर्थः । किलेति प्रसिद्धौ । वृक्षाणां या वृत्तिर्जीवनोपायस्तद्व्यतिरिक्तं साधनमुपायो यस्य स तथोक्तः पारणाविधिर्न बभूव । वृक्षोऽप्ययाचितोपस्थितेन मेघोदकेनेन्दुकिरणैश्च जीवतीति प्रसिद्धम् । अम्बिकापि तावन्मात्रमवालम्बतेत्यर्थः
अन्वयः: अयाचितोपस्थितं केवलम् अम्बु रसात्मकस्य उडुपतेः रश्मयश्च तस्याः पारणाविधिः बभूव किल, वृक्षवृत्तिव्यतिरिक्तसाधनः पारणाविधिः न बभूव ।

Verse 23
निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसंभृतेन च । तपात्यये वारिभिरुक्षिता नवैर्भुवा सहोष्माणममुञ्चदूर्ध्वगम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): निकामेति । विविधेन पञ्चविधेनेत्यर्थः । नभश्चरेण खेचरेण । आदित्यरुपेणेत्यर्थः । इन्धनसंभृतेन काष्ठसमिद्धेन वह्निना निकाममत्यन्तं तप्ता साम्बिका तपात्यये ग्रीष्मान्ते । प्रावृषीत्यर्थः । नवैर्वारिभिरुक्षिता सिक्ता सती भुवा पञ्चाग्नितप्तया सहोर्ध्वगमूष्माणं वाष्पममुञ्चत् । `ग्रीष्मोष्मवाष्पमूष्माणम्` इति यादवः
अन्वयः: विविधेन नभश्चरेण इन्धनसंभृतेन वह्निना निकामतप्ता सा तपाऽत्यये नवैः वारिभिः उक्षिता (सती) भुवा सह ऊर्ध्वगम् ऊष्माणम् अमुञ्चत् ।

Verse 24
स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः । वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): स्थिता इति ॥ उदकस्य बिन्दव उदबिन्दवः । `मन्थौदन-` इत्यादिनोदकशब्दस्योदादेशः । प्रथम उदबिन्दवः । प्रथमविशेषणाद्विन्दूनां विरलत्वं बहुवचनान्नातिविरलत्वं च गम्यते । तथा च चिरत्वनाभ्यन्तरगमनयोर्निर्वाहः । तस्याः पार्वत्याः पक्ष्मसु नेत्रलोमसु क्षणं स्थिताः स्थितिं गताः । स्थिता इत्यनेन पक्ष्मणां सान्द्रत्वं क्षणमिति स्नैग्ध्यं च गम्यते । अनन्तरं ताडितो व्यथितोऽधर ओष्ठो यैस्तैस्तथोक्तैः एतेनाधरस्य मार्दवं गम्यते । ततः पयोधरयोः स्तनयोरुत्सेध उपरिभागे निपातेन पतनेन चूर्णिता जर्जरिताः कुचकाठिन्यादिति भावः । तदनु वलीषूदररेखासु स्खलिताः । निम्रोन्नतत्वादिति भावः । इत्थं चिरेण न तु शीघ्रम् । प्रतिबन्धबाहुल्यादिति भावः । नाभिं प्रपेदिरे प्रविष्टा न तु निर्जग्मुः । एतेन नाभेर्गाम्भीर्यं गम्यते । अत्र प्रतिपदमर्थवत्त्वात्परिकरालंकारः
अन्वयः: प्रथमोदबिन्दवः तस्याः पक्ष्मसु क्षणं स्थिताः ताडिताऽधराः पयोधरोत्सेधनिपातचूर्णिताः वलीषु स्खलिताः सन्तः चिरेण नाभिं प्रपेदिरे ।

Verse 25
शिलाशयां तामनिकेतवासिनीं निरन्तरास्वन्तरवातवृष्टिषु । व्यलोकयन्नुन्मिषितैस्तडिन्मयैर्महातपःसाक्ष्य इव स्थिताः क्षपाः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): शिलाशयामिति । निरन्तरासु नीरन्ध्रास्वन्तरे मध्ये वाती यासां तादृश्यो या वृष्टयस्तास्वन्तरवातवृष्टिषु । न निकेते गृहे वसतीत्यनिकेतवासिनीम् । अनावृतदेशवासिनीमित्यर्थः । शिलायां शेत इति शिलाशयां शिलातलशायिनीम् । `अधिकरणे शेतेः` (पा.3|2|15) इत्यच्प्रत्ययः । तां पार्वतीं `साक्षाद्द्रष्टा साक्षी` । `साक्षाद्‌द्रष्टरि संज्ञायाम्` इति निप्रत्ययः । तस्य कर्म साक्ष्यं महातपसः साक्ष्ये स्थिताः क्षपास्तडिन्मयैर्विद्युद्द्रूपैतैरवलोकनैर्व्यलोकयन्निव । इवेति चक्षुषा विलोकनमेवोत्प्रेक्ष्यते । साक्ष्यं तु `आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥` इति प्रमाणसिद्धत्वान्नोत्प्रेक्ष्यमित्यनुसंधेयम्
अन्वयः: निरन्तरासु अन्तरवातवृष्टिषु अनिकेतवासिनीं शिलाशयां तां महातपः साक्ष्ये स्थिता इव क्षपाः तडिन्मयैः उन्मिषितैः व्यलोकयन् इव ।

Verse 26
निनाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीरुदवासतत्परा । परस्पराक्रन्दिनि चक्रवाकयोः पुरो वियुक्ते मिथुने कृपावती ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): निनायेति । सा पार्वती । उत्किरन्ति क्षिपन्तीत्युत्किराः । `इगुपधज्ञा-` इत्यादिना कः । अत्यन्तं हिमानामुत्किरा अनिला यासु ताः सहस्यरात्रीः पौषरात्रीः । `पौषे तैषसहस्यौ द्वौ` इत्यमरः (अ.को.1|4|16) । उदके वास उदवासः `पेषंवासवाहनधिषु च` (पा.6|3|58) इत्युदादेशः । उदवासे तत्परा आसक्ता तथा परस्परमाक्रन्दिन्यन्योन्यमाक्रोशिनि पुरोऽग्रे वियुक्ते विरहिणि । वियोगं प्राप्त इति यावत् । चक्रवाकी च चक्रवाकश्च चक्रवाकौ तयोश्चक्रवाकयोर्मिथुने द्वन्द्वे कृपावती सती निनाय । दुःखिषु कृपालुत्वं महतां स्वभाव इति चक्रवाकमिथुने कृपा न तु कामितयेति वाच्यानवकाशः । `अप्सु वासस्तु हेमन्ते क्रमशो वर्धयेत्तपः` । इति मनुः
अन्वयः: सा अत्यन्तहिमोत्किराऽनिलाः सहस्यरात्रीः उदवासतत्परा परस्पराक्रन्दिनि पुरो वियुक्ते चक्रवाकयोः मिथुने कृपावती सती निनाय ।

Verse 27
मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना । तुषारवृष्टिक्षतपद्मसंपदां सरोजसंधानमिवाकरोदपाम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): मुखेनेति । सा पार्वती निशि रात्रौ पद्मवत्सुगन्धिना सुरभिणा । `गन्धस्येत्-` इत्यादिनेकारः । प्रवेपमानः कम्पमानोऽधर ओष्ठ एव पत्त्रं दलं तेन शोभत इति तथोक्तेन मुखेन तुषारवृष्ट्या तुहिनवर्षेण क्षता नाशिताः पद्मसंपदो यासां तासामपां सरोजसंधानं पद्मसंघट्टनमकरोदिव । इत्युत्प्रेक्षालंकारः पद्मान्तरं तुहिनेनोपहन्यते तन्मुखपद्मं तु न तथेति व्यतिरेकालंकारो व्यज्यत इत्युभयोः संकरः
अन्वयः: सा निशि पद्मसुगन्धिना प्रवेपमानाऽधरपत्त्रशोभिना मुखेन तुषारवृष्टिक्षतपद्मसम्पदाम् अपां सरोजसन्धानम् अकरोत् इव ।

Verse 28
स्वयंविशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः । तदप्यपाकीर्णमतः प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): स्वयमिति । स्वयं विशीर्णानि स्वतश्च्युतानि द्रुमपर्णान्येव वृत्तिर्जीवनं यस्य तस्य भावस्तत्ता तपसः परा काष्ठा परमुत्कर्षो हि । `काष्ठोत्कर्षे स्थितौ दिशि` इत्यमरः (अ.को.3|3|47) । तया देव्या पुनस्तत्पर्णवर्तनमप्यपाकीर्णमपाकृतम् । अतः पर्णापाकरणाद्धेतोः । प्रियं वदतीति प्रियंवदा । `प्रियवशे वदः खच्` (पा.3|2|38) इति खच् प्रत्ययः । `अरुद्विषदजन्तस्य मुम्` इति मुमागमः । तां पार्वतीं पुराविदः पुराणज्ञास्तपःकरणसमये अविद्यमानं पर्णभक्षणं यस्याः सापर्णेति वदन्ति । नामान्तरसमुच्चयार्थश्चाकारः । अत्र`अपर्णाम्` इत्यपपाठः इति शब्दाभिहितद्वितीयानुपपत्तेः । यथाह वामनः- `निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य प्रायिकत्वात्` इति । स्वयं प्रियंवदाः परेशामपि प्रियवादभाजनानि भवन्तीति भावः
अन्वयः: स्वयं विशीर्णद्रुमपर्णवृत्तिता तपसः परा काष्ठा हि । तया पुनः तद् अपि अपकीर्णम्, अतः तां पार्वतीं पुराविदः `अपर्णा` इति च वदन्ति ।

Verse 29
मृणालिकापेलवमेवमादिभिर्व्रतैः स्वमङ्गं ग्लपयन्त्यहर्निशम् । तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्चकार सा ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): मृणालिकेति । मृणालिकापेलवं पद्मिनीकन्दकोमलं स्वं स्वकीयमङ्गं शरीमेवमुक्तप्रकारतोयाग्निमध्यवासव्रतमादिर्येषां तैर्व्रतेरहश्च निशा चाहर्निशम् । समाहारे द्वन्द्वैकवद्भावः, अत्यन्तसंयोगे द्वितीया । ग्लपयन्ती कर्शयन्ती सा पार्वती कठिनैः क्लेशसहैरित्यर्थः । शरीरैरुपार्जितं संपादितं तपस्विनामृषीणां तपो दूरमत्यन्तमधश्चकार तिरश्चकार । अतिशिश्य इत्यर्थः । तपस्विभिरप्यवं तपः कर्तुं न शक्यत इति तात्पर्यार्थः
अन्वयः: मृणालिकापेलवं स्वम् अङ्गम् एवमादिभिः व्रतैः अहर्निशं ग्लपयन्ती सा कठिनैः शरीरैः उपार्जितं तपस्विनां तपः दूरम् अधश्चकार ।

Verse 30
अथाजिनाषाढधरः प्रगल्भवाग्ज्वलन्निव ब्रह्ममयेन तेजसा । विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथानन्तरमजिनं कृष्णमृगत्वक् । आषाढः प्रयोजनमस्येत्याषाढः पालाशदण्डः । `पालाशो दण्ड आषाढः` इत्यमरः (अ.को.2|7|49) । `विशाखाषाढादण्मन्थदण्डयोः` इत्यण्प्रत्ययः । तयोर्धरस्तथोक्तः प्रगल्भवाक्प्रौढवचनो ब्रह्ममयेन वैदिकेन तेजसा । ब्रह्मवर्चसेनेत्यर्थः । ज्वलन्निव स्थितः । इवशब्दो निर्धारणार्थः । कश्चिदनिर्दिष्टो जटिलो जटावान् । ब्रह्मचारीति शेषः । पिच्छादित्वादिलच्प्रत्ययः । शरीरबद्धो बद्धशरीरः । शरीरवानित्यर्थः । वाहिताग्न्यादिषु पाठात्साधुः । प्रथमाश्रमो यथा ब्रह्मचर्याश्रम इव यथाशब्द इवार्थे । तपोवनम् । देव्या इति शेषः । विवेश प्रविष्टवान्
अन्वयः: अथ अजिनाषाढधरः प्रगल्भवाक् ब्रह्ममयेन तेजसा ज्वलन् इव कश्चित् जटिलः शरीरबद्धः प्रथमाश्रमे यथा तपोवनं विवेश ।