कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 41 to 50 of 86 verses
Verse 41
कुले प्रसूतिः प्रथमस्य वेधसस्त्रिलोकसौन्दर्यमिवोदितं वपुः । अमृग्यमैश्वर्यसुखं नवं वयस्तपःफलं स्यात्किमतः परं वद ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): कुल इति । प्रथमस्य वेधसो हिरण्यगर्भस्य कुलेऽन्ववाये प्रसूतिरुत्पत्तिः । `यज्ञार्थं हि मया सृष्टो हिमवानचलेश्वरः` इति ब्रह्मपुराणवचनात् । वपुः शरीरं त्रयाणां लोकानां सौन्दर्यमिवोदितमेकत्र समाहृतम् ऐश्वर्यसुखं संपत्सुखममृग्यमन्वेषणीयं न भवति । किन्तु सिद्धमेवेत्यर्थः । वयो नवम् । यौवनमित्यर्थः । अतः परमतोऽन्यत्किं तपःफलं स्याद्वद । अस्ति चेदिति शेषः । किञ्चिदस्तीत्यर्थः
अन्वयः: प्रथमस्य वेधसः कुले प्रसूतिः, वपुः त्रिलोकसौन्दर्यम् इव उदितम्, ऐश्वर्यसुखम् अमृग्यं, नवं वयः, अतः परं किं तपः फलं ? वद ।

Verse 42
भवत्यनिष्टादपि नाम दुःसहान्मनस्विनीनां प्रतिपत्तिरीदृशी । विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कृशोदरि त्वयि ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): भवतीति ॥ दुःसहात्सोढुमशक्यादनिष्टाद्भर्त्रादिकृतादपि मनस्विनीनां धीरस्त्रीणामीदृशी तपश्चरणलक्षणा प्रतिपत्तिः प्रवृत्तिः । `प्रतिपत्तिस्तु गौरवे । प्राप्तौ प्रवृत्तौ प्रागल्भ्ये` इति केशवः । भवति नाम । नामेति सम्भावनायाम् । विचारमार्गे प्रहितेन चेतसा चित्तेन तदनिष्टं च । हे कृशोदरि ! त्वयि न दृश्यते । विचार्यमाणे तदपि नास्त्यसम्भावितत्वादित्यर्थः
अन्वयः: दुःसहात् अनिष्टात् अपि मनस्विनीनाम् ईदृशी प्रतिपत्तिः भवति नाम । हे कृशोदरि ! विचारमार्गप्रहितेन चेतसा तच्च त्वयि न दृश्यते ।

Verse 43
अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु कुतः पितुर्गृहे । पराभिमर्शो न तवास्ति कः करं प्रसारयेत्पन्नगरत्नसूचये ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): अलभ्येति । हे सुभ्रु ! इयं त्वदीयाकृतिर्मूर्तिरलभ्यो लब्धुमनर्हः शोकेन भर्त्राद्यवमानजेन दुःखेनाभिभवस्तिरस्कारो यस्याः सा तथोक्ता । दृश्यत इति शेषः । असम्भावितश्चायमर्थ इत्याह-पितुर्गृहे विमाननावमानः कुतः । न सम्भाव्यत एवेत्यर्थः । `सुभ्रु ! कुतस्तातगृहेऽवमाननम्` इति पाठान्तरकरणं तु साध्वसमेवोक्तोपपत्तिसम्भवात् । अन्यत्रापि `सुभ्रु ! त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषिताम्` । इत्यादिप्रयोगदर्शनाद्वंशस्थवृत्ते पादादौ जगणभङ्गप्रसङ्गाच्चेत्यलं गोष्ठीभिः । न चान्यस्माद्भावीत्याह-पराभिमर्शः परघर्षणं तु तव नास्ति । पन्नगरत्नसूचये फणिशिरोमणिशलाकां ग्रहीतुमित्यर्थः । `क्रियार्थोपददस्य च कर्मणि स्थानिनः` इति चतुर्थी । करं हस्तं कः प्रसारयेत् `सुभ्रु` इत्यत्र भ्रूशब्दस्योवङ्स्थानीयत्वात् `नेयङुवङ्स्थानावस्त्री` (पा.1|4|4) इति नदीसंज्ञाप्रतिषेधात्, `अम्बार्थनद्योर्ह्रस्वः` इति ह्रस्वत्वं नास्ति । तेन ह्रस्वः प्रामादिक इति केचित् । अन्ये तु `अप्राणिजातेश्चारज्ज्वादीनाम्` इत्यत्र `अलाबूः` `कर्कन्धूः` इत्युकारन्तस्याप्यूङ्प्रत्ययमुदाजहार भाष्यकारः । एतस्मादेव ज्ञापकात्क्वचिदूकारन्तस्याप्यूङन्तत्वान्नदीत्वे ह्रस्वत्वमित्याहुः । अतएवाह वामनः- `ऊकारादप्यूङ्प्रकृतेः` इति
अन्वयः: हे सुभ्रु ! इयम् आकृतिः अलभ्यशोकाऽभिभवा । पितुः गृहे विमानना कुतः ? पराऽभिमर्शः तव न अस्ति, पन्नगरत्नसूचये कः करं प्रसारयेत् ?

Verse 44
किमित्यपास्याभरणानि यौवने धृतं त्वया वार्द्धकशोभि वल्कलम् । वद प्रदोषे स्फुटचन्द्रतारके विभावरी यद्यरुणाय कल्पते ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): किमितीति । हे गौरि ! किमिति केन हेतुना यौवने त्वयाभरणान्यपास्य विहाय । वृद्धस्य भावो वार्धकम् । मनोज्ञादित्वाद् वुञ्प्रत्ययः । `वार्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि` । इति विश्वः । तत्र शोभत इति वार्धकशोभि वल्कलं धृतम् । प्रदोषे रजनीमुखे स्फुटाः प्रकटाश्चन्द्रस्तारकाश्च यस्याः सा स्फुटचन्द्रतारका विभावरी रात्रिररुणाय सूर्याय कल्पते यद्यरुणं गन्तुं कल्पते किम् । वद ब्रूहि । `क्रियार्थोपपदस्ये-` त्यादिना चतुर्थी । दीप्यमानशशाङ्कतारके प्रदोषे यद्यरुण उदेति ततो विभूषणापहारेण तव वल्कलधारणं संघटत इति भावः
अन्वयः: (हे गौरि !) किमिति यौवने त्वया आभरणानि अपास्य वार्धकशोभि वल्कलं धृतम् ? प्रदोषे स्फुटचन्द्रतारका विभावरी अरुणाय कल्पते यदि ? वद ।

Verse 45
दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः । अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मृग्यते हि तत् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): दिवमिति ॥ दिवं स्वर्गं प्रार्थयसे कामयसे यदि तर्हि श्रमस्तपश्चरणप्रयासो वृथा निष्फलः । यदि स्वर्गार्थं तप्यसे ततः श्रमं मा कार्षीः । तव पितुर्हिमवतः प्रदेशा देवभूमयः स्वर्गपदार्थाः इत्यर्थः । अथोपयन्तारं वरं प्रार्थयसे तर्हि समाधिना तपसालम् । न कर्तव्यमित्यर्थः । निषेध्यस्य निषेधं प्रति करणत्वात्तृतीया । तथाहि । रत्नं कर्तृ । नान्विष्यति न मृगयते । ग्रहीतारमिति शेषः । किंतु तद्रत्नं मृग्यते ग्रहीतृभिरिति शेषः । न हि वरार्थं त्वया तपसि वर्तितव्यं किंतु तेनैव त्वदर्थमिति भावः
अन्वयः: दिवं प्रार्थयसे यदि (तर्हि) श्रमो वृथा । तव पितुः प्रदेशा देवभूमयः । अथ उपयन्तारं प्रार्थयसे यदि (तर्हि) समाधिना अलम् । हि रत्नं न अन्विष्यति तत् मृग्यते ।

Verse 46
निवेदितं निश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते । न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): निवेदितमिति ॥ सोष्मणा निश्वसितेन निश्वासवायुना निवेदितम् । चिन्तानुभावेनोष्णौच्छ्वासेन ते वरार्थित्वं सूचितमित्यर्थः । तर्हि किं प्रश्नव्यसनेनेत्याह-मनस्तु तथापि मे संशयमेव गाहते प्राप्नोति । कुतः ? ते तव । `कृत्यानां कर्तरि वा` (पा.2|3|71) इति षष्ठी । प्रार्थयितव्यः प्रार्थयितुमर्ह एव न दृश्यते । प्रार्थितदुर्लभः प्रार्थितो यो दुर्लभः स कथं भविष्यति ? नास्त्येवेत्यर्थः
अन्वयः: सोष्मणा निःश्वसितेन निवेदितं, मे मनस्तु संशयम् एव गाहते, ते प्रार्थयितव्य एव न दृश्यते, प्रार्थितदुर्लभः कथं भविष्यति ?

Verse 47
अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते । उपेक्षते यः श्लथलम्बिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): अहो इति । अहो चित्रम् । तवेप्सित आप्तुमिष्टो युवा कोऽपि स्थिरः कठिनः । वर्तत इति शेषः । कुतः । यो युवा चिराय चिरात्प्रभृति कर्णोत्पलशून्यतां गते प्राप्ते कपोलदेशे गण्डस्थले श्लथाः शिथिलबन्धना अत एव लम्बिन्यस्ताः श्लथलम्बिनीः कलमाः शालिविशेषास्तेषामग्राणि तद्वत्पिङ्गला जटा उपेक्षते यस्त्वामीदृशीं दृष्ट्वा न व्यथते स नूनं वज्रहृदय इत्यर्थः
अन्वयः: अहो! तव ईप्सितो युवा कोऽपि स्थिरः । यः चिराय कर्णोत्पलशून्यतां गते (तव) कपोलदेशे श्लथलम्बिनीः कलमाऽग्रपिङ्गला जटा उपेक्षते ।

Verse 48
मुनिव्रतैस्त्वामतिमात्रकर्शितां दिवाकराप्लुष्टविभूषणास्पदाम् । शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): मुनिव्रतैरिति । मुनिव्रतैश्चान्द्रायणादिभिरतिमात्रमत्यन्तं कर्शितां कृशीकृतां दिवाकरेण सूर्येणाप्लुष्टानि दग्धानि वातातपसंस्पर्शात्मृदुत्वाच्च श्यामीकृतानि विभूषणस्थानानि यस्यास्तां तथोक्ताम् । अत एव दिवाहनि शशाङ्करेखामिव स्थितां त्वां पश्यतः सचेतसो जीवतः कस्य पुंसो मनो न दूयते न परितप्यते । अपि तु सर्वस्यैवेत्यर्थः
अन्वयः: मुनिव्रतैः अतिमात्रकर्शितां दिवाकरप्लुष्टविभूषणास्पदाम् (अत एव) दिवा शशाङ्कलेखाम् इव त्वां पश्यतः कस्य मनो न दूयते ?

Verse 49
अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः । करोति लक्ष्यं चिरमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): अवैमीति । तव प्रियं वल्लभं सौभाग्यमदेन सौन्दर्यगर्वेण कर्त्रा । वञ्चितं विप्रलब्धमवैमि वेद्मि । यः प्रियश्चतुरं मधुरमवलोकत इति चतुरावलोकिनोऽरालपक्ष्मणः कुटिलरोम्णः । `अरालं वृजिनं जिह्मम्` इत्यमरः (अ.को.3|1|70) । अस्य त्वदीयस्य चक्षुष आत्मीयं वक्त्रं मुखं चिरं लक्ष्यं विषयं न करोति दृष्टिपथं न गच्छतीत्यर्थः । तदयं गर्वेण हतो निष्फलात्मलाभो जात इति भावः
अन्वयः: (हे पार्वति !) तव प्रियं सौभाग्यमदेन वञ्चितम् अवैमि, यः चतुराऽवलोकिनः अरालपक्ष्मणः अस्य चक्षुषः आत्मीयं वक्त्रं चिरं ल्क्ष्यं न करोति ।

Verse 50
कियच्चिरं श्राम्यसि गौरि विद्यते ममापि पूर्वाश्रमसंचितं तपः । तदर्धभागेन लभस्व काङ्क्षितं वरं तमिच्छामि च साधु वेदितुम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): कियदिति ॥ हे गौरि, कियत्किंप्रमाणकम् । किमवधिकमित्यर्थः । चिरं श्राम्यसि तपस्यसि । अत्यन्तसंयोगे द्वितीया । ममापि पूर्वाश्रमः प्रथमाश्रमो ब्रह्मचर्याश्रमस्तत्र संचितं संपादितं तपो विद्यते अर्धश्चासौ भागश्च तेन तस्य तपसोऽर्धभागेनैकदेशेन काङ्क्षितमिष्टं वरमुपयन्तारं लभस्व । तं वरं साधु सम्यग्वेदितुं ज्ञातुमिच्छामि । यद्यसौ योग्यो भवति तदा संमतिरिति भावः
अन्वयः: हे गौरि ! कियत् चिरं श्राम्यसि । मम अपि पूर्वाश्रमसञ्चितं तपो विद्यते । तदर्द्धभागेन काङ्क्षितं वरं लभस्व । तं साधु वेदितुम् इच्छामि ।

Showing 41 to 50 of 86 verses