कुले प्रसूतिः प्रथमस्य वेधसस्त्रिलोकसौन्दर्यमिवोदितं वपुः । अमृग्यमैश्वर्यसुखं नवं वयस्तपःफलं स्यात्किमतः परं वद ॥
Metre: वंशस्थम्
भवत्यनिष्टादपि नाम दुःसहान्मनस्विनीनां प्रतिपत्तिरीदृशी । विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कृशोदरि त्वयि ॥
Metre: वंशस्थम्
अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु कुतः पितुर्गृहे । पराभिमर्शो न तवास्ति कः करं प्रसारयेत्पन्नगरत्नसूचये ॥
Metre: वंशस्थम्
किमित्यपास्याभरणानि यौवने धृतं त्वया वार्द्धकशोभि वल्कलम् । वद प्रदोषे स्फुटचन्द्रतारके विभावरी यद्यरुणाय कल्पते ॥
Metre: वंशस्थम्
दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः । अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मृग्यते हि तत् ॥
Metre: वंशस्थम्
निवेदितं निश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते । न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥
Metre: वंशस्थम्
अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते । उपेक्षते यः श्लथलम्बिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः ॥
Metre: वंशस्थम्
मुनिव्रतैस्त्वामतिमात्रकर्शितां दिवाकराप्लुष्टविभूषणास्पदाम् । शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते ॥
Metre: वंशस्थम्
अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः । करोति लक्ष्यं चिरमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः ॥
Metre: वंशस्थम्
कियच्चिरं श्राम्यसि गौरि विद्यते ममापि पूर्वाश्रमसंचितं तपः । तदर्धभागेन लभस्व काङ्क्षितं वरं तमिच्छामि च साधु वेदितुम् ॥
Metre: वंशस्थम्