कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 1 to 10 of 86 verses
Verse 1
तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती । निनिन्द रूपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): तथेति ॥ पर्वतस्यापत्यं स्त्री पार्वती तथा तेन प्रकारेणाक्ष्णोः समीपे समक्षं पुरतः । `अव्ययं विभक्तिसमीपसमृद्धी-` त्यादिनाव्ययीभावः । मनोभवं मन्मथं दहता भस्मीकुर्वता पिनाकिनेश्वरेण भग्नः खण्डितो मनोरथोऽभिलाषो यस्याः सा तथोक्ता सती हृदयेन मनसा रुपं सौन्दर्यं निनिन्द । `धिङ् मे रुपं यद्धरमनोहरणाय नालमिति गर्हितवतीत्यर्थः` । युक्तं चैतदित्याह-तथाहि । चारुता सैन्दर्यं प्रियेषु विषये सौभाग्यं प्रियवाल्लभ्यं फलं यस्याः सा तथोक्ता । सौन्दर्यस्य तदेव फलं यद्भर्तृसौभाग्यं लभ्यते । नो चेद्विफलं तदिति भावः । अस्मिन्सर्गे वंशस्थं वृत्तम्- `जतौ तु वंशस्थमुदीरितं जरौ` इति लक्षणात्
अन्वयः: पार्वती तथा समक्षं मनोभवं दहता पिनाकिना भग्नमनोरथा सती हृदयेन रुपं निनिन्द ; हि चारुता प्रियेषु सौभग्यफला (भवति)।

Verse 2
इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः । अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): इयेषेति ॥ सा पार्वती समाधिमेकाग्रतामास्थायावलम्ब्यतपोभिर्वक्ष्यमाणनियमैः करणभूतैरात्मनः स्वस्याबन्ध्यरुपतां सफलसौन्दर्यं कर्तुमियेषेच्छति स्म । तपसा शिवं वशीकर्तुमुद्युक्तेत्यर्थः । अन्यथा ततोऽन्यप्रकारेण कथं वा तद्‌द्वयमवाप्यते । किं तद्द्वयम् ? तथाभूता विधा प्राकारो यस्य तत्तथाविधं प्रेम स्नेहः येनार्धाङ्गहरा हरस्य भवेदिति भावः । तादृशः पतिश्च । यो मृत्युंजय इति भावः । द्वयमेव खलु स्त्रीणामपेक्षितं यद्भर्तृवाल्लभ्यं जीवद्भर्तृकत्वं चेति । तच्च तपश्चर्यैकसाध्यमिति निश्चिकायेत्यर्थः । अत्र मनुः- `यद् दुष्करं यद् दुरापं यद् दुर्गं यच्च दुस्तरम् । तत्सर्व तपसा प्राप्यं तपो हि दुरतिक्रमम् ॥` इति
अन्वयः: सा समाधिम् आस्थाय तपोभिः आत्मनः अवन्ध्यरूपतां कर्तुम् इयेष; अन्यथा तथाविधं प्रेम वा तादृशः पतिश्च द्वयं कथम् अवाप्यते ।

Verse 3
निशम्य चैनां तपसे कृतोद्यमां सुतां गिरीशप्रतिसक्तमानसाम् । उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनिव्रतात् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): निशम्येति ॥ मेना मेनका च गिरीशप्रतिसक्तमानसां हरासक्तचित्तां तपसे तपश्चरणाय कृतोद्यमां कृतोद्योगां सुतां निशम्य श्रुत्वैनां पार्वतीं वक्षसा परिरभ्यालिङ्ग्य महतो मुनिव्रतात्तपसो निवारयन्त्युवाच । मुनिव्रतादित्यत्र यद्यपि मुनिव्रतस्य मेनकाया अनीप्सितत्वात् `वारणार्थानामीप्सितः इति नापादानत्वं तथापि कृतोद्यमामिति मानसप्रवेशोक्तत्वात् `ध्रुवमपायेऽपादानम्` इत्यपादानत्वमेव स्यात् । यथाह भाष्यकारः- `यच्च मिथ्या संप्राप्य निवर्तते तच्च ध्रुवमपायेऽपादानमिति प्रसिद्धम्` इति
अन्वयः: मेना गिरीशप्रतिसक्तमानसां, तपसे कृतेद्यमां सुतां निशम्य एनां वक्षसा परिरभ्य महतो मुनिव्रतात् निवारयन्ती उवाच ।

Verse 4
मनीषिताः सन्ति गृहेऽपि देवतास्तपः क्व वत्से क्व च तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीशपुष्पं न पुनः पतत्रिणः ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): मनीषिता इति ॥ हे वत्से ! मनस ईषिता इष्टा मनीषिताः । शकन्ध्वादित्वात्साधुः । देवताः शच्यादयो गृहेषु सन्ति । त्वं तामाराधयेति शेषः । तपः क्व तवेदं तावकम् । `युष्मदस्मदोरन्यतरस्यां खञ्च` इत्यण्प्रत्ययः । `तवकममकावेकवचन` इति तवकादेशः । वपुश्च क्व । तथाहि । पेलवं मृदुलं शिरीषपुष्पं भ्रमरस्य भृङ्गस्य पदं पदस्थितिं सहेत । पतत्त्रिणः पुनः पक्षिणस्तु पदं न सहेत । अतिसौकुमार्याद्दिव्योपभोगभोग्यं ते वपुर्न दारुणतपःक्षममित्यर्थः । अत्र द्दष्टान्तालंकारः
अन्वयः: `हे वत्से ! मनीषिता देवता गृहेषु सन्ति तपः क्व ? तावकं वपुश्च क्व ? पेलवं शिरीषपुष्पं भ्रमरस्य पदं सहेत पतत्त्रिणः पुनः पदं न सहेत ।`

Verse 5
इति ध्रुवेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुद्यमात् । क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): इतीति ॥ इत्येवमनुशासत्युपदिशन्ती मेना ध्रुवेच्छां स्थिरव्यवसायां पार्वतीमुद्यमादुद्योगात्तपोलक्षणान्नियन्तुं न शशक समर्था नाभूत् । तथाहि । ईप्सितार्थ इष्टार्थे स्थिरनिश्चयं मनो निम्नाभिमुखं पयश्च कः प्रतीपयेत्प्रतिकूलयेत् । प्रतिनिवर्तयेदित्यर्थः । निम्नप्रवणं पय इवेष्टार्थाभिनिविष्टं मनो दुर्वारमिति भावः । अत्र दीपकानुप्राणितोऽर्थान्तरन्यासालंकारः
अन्वयः: इति अनुशासती मेना ध्रुवेच्छां सुताम् उद्यमात् नियन्तुं न शशाक; ईप्सिसाऽर्थस्थिरनिश्चयं मनो निम्नाऽभिमुखं पयश्च कः प्रतीपयेत् ।

Verse 6
कदा चिदासन्नसखीमुखेन सा मनोरथज्ञं पितरं मनस्विनी । अयाचतारण्यनिवासमात्मनः फलोदयान्ताय तपःसमाधये ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): कदाचिदिति ॥ अथ कदाचिन्मन्स्विनी स्थिरचित्ता सा पार्वती मनोरथज्ञमभिलाषाभिज्ञं पितरं हिमवन्तमासन्नसख्याप्तसखी सैव मुखमुपायः । `मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि` इति विश्वः ।` तेन फलोदयः फलोत्पत्तिरन्तोऽवधिर्यस्य तस्मै तपःसमाधये तपोनियमार्थमात्मनःस्वस्यारण्यनिवासं वनवासमयाचत । `दुह्याच्-` इत्यादिना द्विकर्मकत्वम्
अन्वयः: कदाचित् मनस्विनी सा मनोरथज्ञं पितरम् आसन्नसखीमुखेन फलोदयाऽन्ताय तपःसमाधये आत्मनः अरण्यनिवासम् अयाचत ।

Verse 7
अथानुरूपाभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा । प्रजासु पश्चात्प्रथितं तदाख्यया जगाम गौरी शिखरं शिखण्डिमत् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): अथेति ॥ अथ गौर्यनुरुपेण योग्येनाभिनिवेशेनाग्रहेण तुष्यतीति तथोक्तेन गरीयसा पूज्यतमेन गुरुणा पित्रा कृताभ्यनुज्ञा तपः कुर्विति कृतानुमतिः सती पश्चात्तपःसिद्ध्युत्तरकालं प्रजासु जनेषु तदाख्यया तस्या गौर्याः संज्ञया प्रथितम् । गौरीशिखरमिति प्रसिद्धमित्यर्थः । शिखण्डिमत् । न तु हिंस्रप्राणिप्रचुरमिति भावः । शिखरं श्रृङ्गं जगाम ययौ
अन्वयः: अथ गौरी अनुरुपाऽभिनिवेशतोषिणा गरीयसा गुरुणा कृताऽभ्यनुज्ञा (सती) पश्चात् प्रजासु तदाख्यया प्रथितं शिखण्डिमत् शिखरं जगाम ।

Verse 8
विमुच्य सा हारमहार्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम् । बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): विमुच्येति ॥ अहार्यनिश्चया अनिवार्यनिश्चया सा गौरी विलालाभिश्चलाभिर्यष्टिभिः प्रतिसरैः प्रविलुप्तं प्रमुष्टं चन्दनं स्तनान्तगतं येन तं तथोक्तं हारं मुक्तावलीं विमुच्य विहाय बालारुणबभ्रु बालार्कपिङ्गलं पयोधरयोः स्तनयोरुत्सेघेनोच्छ्रायेण विशीर्णा विघटिता संहतिरवयवसंश्लेषो यस्य तत्तथोक्तं वल्कलं कण्ठलम्बिस्तनोत्तरीयभूतं बबन्ध । धारयामासेत्यर्थः
अन्वयः: अहार्यनिश्चया सा विलोलयष्टिप्रविलुप्तचन्दनं हारं विमुच्य बालारुणबभ्रु पयोधरोत्सेधविशीर्णसंहति वल्कलं बबन्ध ।

Verse 9
यथा प्रसिद्धैर्मधुरं शिरोरुहैर्जटाभिरप्येवमभूत्तदाननम् । न शट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): यथेति ॥ तस्या देव्या आननं तदाननं प्रसिद्धैर्भूषितैः । `प्रसिद्धौ ख्यातभूषितौ` इत्यमरः (अ.को.3|3|112) । रोहन्तीति रुहाः । `इगुपधज्ञाप्रीकिरः कः ` इति कप्रत्ययः । शिरसि रुहास्तैः शिरोरुहैर्मूर्धजैर्यथा मधुरं प्रियमभूत् । `स्वादुप्रियौ तु मधुरौ` इत्यमरः (अ.को.3|3|112) । जटाभिरप्येवं मधुरमभूत् । तथाहि पङ्कजं पद्मं षट्पद्श्रेणिभिर्भ्रमरपङ्किभिरेव न किंतु सह शैवालसङ्गेन सशैवालसङ्गमपि । `तेन सहेति तुल्ययोग` इति बहुव्रीहिः । प्रकाशते । शैवलेनापि शोभत एवेत्यर्थः
अन्वयः: तदाननं प्रसिद्धैः शिरोरुहैः यथा मधुरम् अभूत्, जटाभिः अपि एवम् अभूत् । पङ्कजं षट्पदश्रेणिभिः एव न (किन्तु) सशैवलासङ्गम् अपि प्रकाशते ।

Verse 10
प्रतिक्षणं सा कृतरोमविक्रियां व्रताय मौञ्जीं त्रिगुणां बभार याम् । अकारि तत्पूर्वनिबद्धया तया सरागमस्या रसनागुणास्पदम् ॥
Metre: वंशस्थम्
सञ्जीविनीटीका (मल्लिनाथः): प्रतीति । सा देवी प्रतिक्षणं क्षणे क्षणे कृतरोमविक्रियां पारुष्यात्कृतरोमाञ्चां त्रिगुणां त्रिरावृतां यां मौञ्जीं मुञ्जमयीं मेखलां व्रताय तपसे बभार । तदेव पूर्वं प्रथमं यस्य तत्पूर्वं यथा तथा निबद्धया तया मौञ्ज्यास्या देव्या रसनागुणस्यास्पदं स्थानं जघनम् । सह रागेण सरागं सलोहितमकारि कृतम् । सौकुमार्यातिशयादिति भावः
अन्वयः: सा प्रतिक्षणं कृतरोमविक्रियां त्रिगुणा यां मौञ्जीं व्रताय बभार । तत्पूर्वनिबद्धया तया अस्या रसनागुणास्पदं सरागम् अकारि ।

Showing 1 to 10 of 86 verses