कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 11 to 20 of 46 verses
Verse 11
रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः । वसतिं प्रिय कामिनां प्रियास्त्वद् ऋते प्रापयितुं क ईश्वरः ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): रजनीति । हे प्रिय ! रजनीतिमिरेणावगुण्ठित आवृते पुरमार्गे घनशब्दविक्लवा गर्जितभीताः प्रियाः कामिनां वसतिं प्रापयितुं त्वदृते त्वां विना । `अन्यारादितरर्त-` इत्यादिना पञ्चमी । क ईश्वरः शक्तः । न कश्चिदित्यर्थः । न हि कामान्धनां भीतिरस्तीति भावः
अन्वयः: हे प्रिय ! रजनीतिमिराऽवगुण्ठिते पुरमार्गे घनशब्दविक्लवाः प्रियाः कामिनां वसतिं प्रापयितुं त्वत् ऋते क ईश्वरः ?

Verse 12
नयनान्यरुणानि घूर्णयन्वचनानि स्खलयन्पदे-पदे । असति त्वयि वारुणीमदः प्रमदानामधुना विडम्बना ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): नयनानीति । अरुणानि नयनानि घूर्णयन्भ्रमयन् । तथा पदे पदे प्रतिपदम् । वीप्सायां द्विरुक्तिः । वचनानि स्खलयन्विपर्यासयन्प्रमदानां वारुणीमदो मद्यमदोऽधुना त्वय्यसति विडम्बनानुकृतिमात्रम् । मदनाभावे मदस्य निष्फलत्वादिति भावः । तथा च शिशुपालवधे- `तां मदो दयितसंगमभूषः` (१०/३३) इति
अन्वयः: (हे प्रिय !) अरुणानि नयनानि घूर्णयन् पदे पदे वचनानि स्खलयन् प्रमदानां वारुणीमदः त्वयि असति विडम्बना ।

Verse 13
अवगम्य कथीकृतं वपुः प्रियबन्धोस्तव निष्फलोदयः । बहुलेऽपि गते निशाकरस्तनुतां दुःखमनङ्ग मोक्ष्यति ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): अवगम्येति । हे अनङ्ग अशरीर ! प्रियबन्धोः प्रियसखस्य तव वपुः शरीरं कथीकृतमकथा कथा संपद्यमानं कृतं शब्दमात्रावशिष्टमवगम्य ज्ञात्वा निष्फलोदयः । उद्दीप्याभावादुद्दीपनवैफल्यमिति भावः । निशाकरश्चन्द्रो बहुले कृष्णपक्षे गतेऽपि तनुतां कार्श्यं दुःखं यथा तथा कृच्छ्रान्मोक्ष्यति । वृद्धिरिति दुःखयिष्यत इत्यर्थः
अन्वयः: हे अनङ्ग ! प्रियबन्धोः तव वपुः कथीकृतम् अवगम्य निष्फलोदयो निशाकरो बहुले गते अपि तनुतां दुःखं मोक्ष्यति ।

Verse 14
हरितारुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितः । वद संप्रति कस्य बाणतां नवचूतप्रसवो गमिष्यति ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): हरितेति । हरितं चारुणं च । `वर्णो वर्णेन` (पा.2|1|69) इति तत्पुरुषः । हरितारुणं चारु बन्धनं वृन्तं पुङ्खश्च यस्य स तथोक्तः । कलेन मधुरेण पुंस्कोकिलशब्देन पुरुषकोकिलनादेन सूचितोऽनुमापितश्च । चूतवर्णकार्यंत्वात्कलशब्दस्येति भावः । नवचूतप्रसवो नवचूतकुसुमं संप्रति कस्य बाणतां शरत्वं गमिष्यति ? वद । अन्यस्य पुष्पबाणस्याभावादिति भावः
अन्वयः: (हे कुसुमायुध !) हरिताऽरुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितो नवचूतप्रसवः सम्प्रति कस्य बाणतां गमिष्यति ? वद ।

Verse 15
अलिपङ्क्तिरनेकशस्त्वया गुणकृत्ये धनुषो नियोजिता । विरुतैः करुणस्वनैरियं गुरुशोकामनुरोदितीव माम् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): अलीति । त्वयानेकशो बहुशो धनुषः कार्मुकस्य गुणकृत्ये मौर्वीकार्ये गुणवत्कर्मणि च नियोजिताधिकृतेयमलिपङ्‌क्तिः करुणस्वनेर्दीनस्वनर्विरुतैः कूजितैर्गुरुशोकां दुर्भरदुःखाम् । `गुरुस्तु गोष्पतौ श्रेष्ठे गुरौ पितरि दुर्भरे` । इति शब्दार्णवः । मामनुरोदितीव उपसर्गात्सकर्मकत्वम् । `रुदादिभ्यः सार्वधातुके` (पा.7|2|76) इतीडागमः
अन्वयः: (हे प्रिय !) त्वया अनेकशो धनुषो गुणकृत्ये नियोजिता इयम् आलिपङ्‌क्तिः करुणस्वनैः विरुतैः गुरुशोकां माम् अनुरोदिति इव ।

Verse 16
प्रतिपद्य मनोहरं वपुः पुनरप्यादिश तावदुत्थितः । रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): प्रतिपद्येति । तावत्पुनरपि मनोहरं वपुः शरीरं प्रतिपद्य प्राप्योत्थितः सन् । मधुरालापेषु प्रियोक्तिषु निसर्गपण्डितां स्वभावप्रगल्भां कोकिलां रतिदूतिपदेषु । सुरतदूतीस्थानेष्वादिशाज्ञापय । प्रगल्भानामेव दौत्याधिकार इति भावः । ङीबन्तस्यापि दूतीशब्दस्य छन्दोभङ्‌गभयाद्‌ध्रस्वः । `अपि माषं मषं कुर्याच्छन्दोभङ्गे त्यजेद्‌गिरम्` इति केचित् । `उणादयो बहुलम्` (पा.3|3|1) इति बहुलग्रहणाद्‌घ्रस्व इति वल्लभः
अन्वयः: (हे कान्त !) तावत् पुनरपि मनोहरं वपुः प्रतिपद्य उत्थितः सन् मधुरालापनिसर्गपण्डितां कोकिलां रतिदूतिपदेषु आदिश ।

Verse 17
शिरसा प्रणिपत्य याचितान्युपगूढानि सवेपथूनि च । सुरतानि च तानि ते रहः स्मर संस्मृत्य न शान्तिरस्ति मे ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): शिरसेति । हे स्मर ! शिरसा प्रणिपत्य याचितानि सवेपथूनि सकम्पानि । `ट्वितोऽथुच्` (पा.3|3|89) इत्यथुच्प्रत्ययः । सात्विकान्तरोपलक्षणमेतत् । `स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू । अश्रुवैस्वर्यमित्यष्टौ सात्विकाः परिकीर्तिताः ॥` इति । उपगूढान्यालिङ्गनानि च । नपुंसके भावे क्तः । तान्यनुभूतप्रकाराणि रह एकान्ते सुरतानि च संस्मृत्य मे शान्तिर्नास्ति । अत्र समानकर्तृकत्वं दुर्घटं समानक्रियापेक्षास्तीति केचित्
अन्वयः: हे स्मर ! शिरसा प्रणिपत्य याचितानि सवेपथूनि उपगूढानि च, तानि रहः सुरतानि च संस्मृत्य मे शान्तिः न अस्ति ।

Verse 18
रचितं रतिपण्डित त्वया स्वयमङ्गेषु ममेदमार्तवम् । ध्रियते कुसुमप्रसाधनं तव तच्चारु वपुर्न दृश्यते ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): रचितमिति । हे रतिपण्डित रतिकुशल, त्वया ममाङ्‌गेष्ववयवेषु स्वयं रचितम् ऋतुरस्य प्राप्त आर्तवं वासन्तम् । `ऋतोरण्` (पा.5|1|105) इत्यण्प्रत्ययः । कुसुमप्रसाधनं पुष्पाभरणमिदं ध्रियतेऽवतिष्ठते । `धृञ् अवस्थाने` इति धातोस्तौदादिकात्कर्तरि लट् । तव तत्प्रसाधकं चारु सुन्दरं वपुस्तु न दृश्यते
अन्वयः: हे रतिपण्डित ! त्वया मम अङ्गेषु स्वयं रचितम् इदम् आर्तवं कुसुमप्रसाधनं ध्रियते, तव चारु वपुः न दृश्यते ।

Verse 19
विबुधैरसि यस्य दारुणैरसमाप्ते परिकर्मणि स्मृतः । तमिमं कुरु दक्षिणेतरं चरणं निर्मितरागमेहि मे ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): विबुधैरिति । दारुणैः क्रूरैः । प्राणान्तिके कर्मणि नियोगादिति भावः । विबुधैर्देवैः । अनभिज्ञत्रत्वं च ध्वन्यते । यस्य मच्चरणस्य परिकर्मणि प्रसाधने । `परिकर्म प्रसाधनम्` इत्यमरः । आसमाप्ते सति स्मृतोऽसि । तमिमं दक्षिणेतरं वामं मे चरणं निर्मितरागं कुर्वेह्यागच्छ
अन्वयः: दारुणैः विबुधैः यस्य परिकर्मणि असमाप्ते (सति) स्मृतः असि, तम् इमं दक्षिणेतरं निर्मितरागं कुरु । एहि ।

Verse 20
अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयिणी भवामि ते । चतुरैः सुरकामिनीजनैः प्रिय यावन्न विलोभ्यसे दिवि ॥
Metre: वियोगिनी
सञ्जीविनीटीका (मल्लिनाथः): अहमिति । अहं पतङ्गवर्त्मना शलभमार्गेण । अग्निप्रवेशेनेत्यर्थः । `पतङ्गः शलभे चाग्नौ मार्जारेऽर्के शरे खगे` । इति वैजयन्ती । एत्यागत्य पुनस्तेऽङ्काश्रयण्युत्सङ्गवर्तिनी भवामि संप्रत्येव भविष्यामि । `वर्तमानसामीप्ये वर्तमानवद्वा` (पा.3|3|131) इति लट् । हे प्रिय ! दिवि स्वर्गे चतुरैः सुरकामिनीजनैरप्सरोगणैर्यावन्न विलोभ्यसे विलोभयिष्यसे । `यावत्पुरानिपातयोर्लट्` (पा.3|3|4) इति लट्
अन्वयः: अहं पतङ्गवर्त्मना एत्य पुनः ते अङ्काश्रयणी भवामि, हे प्रिय ! दिवि चतुरैः सुरकामिनीजनैः यावत् न विलोभ्यसे ।