कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 91 to 95 of 95 verses
Verse 91
तां प्रणामादरस्रस्तजाम्बूनदवतंसकाम् । अङ्कमारोपयामास लज्जमानामरुन्धती ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तामिति । प्रणामादरेण नमस्कारासक्त्या स्रस्ते जाम्बूनदे सुवर्णविकारौ वतंसके कनककुण्डले यस्यास्तां लज्जमानां तामम्बिकामरुन्धत्यङ्कमारोपयामास । `रुहः पोऽन्यतरस्याम्` (पा.7|3|43) इति पकारः
अन्वयः: प्रणामादरस्रस्तजाम्बूनदवतंसकां लज्जमानां ताम् अरुन्धती अङ्कम् आरोपयामास ।

Verse 92
तन्मातरं चाश्रुमुखीं दुहितृस्नेहविक्लवाम् । वरस्यानन्यपूर्वस्य विशोकामकरोद्गुणैः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तदिति । दुहितृस्नेहेन पुत्रिकाप्रेम्णा विक्लवां वियोक्ष्यत इति भीताम् । अत एवाश्रूणि मुखे यस्यास्तामश्रुमुखीं तस्या अम्बिकाया मातरं तन्मातरं मेनां च । अन्या पूर्वं यस्यास्ति सोन्यपूर्वः । `सर्वनाम्नो वृत्तिविषये पुंवद्भावः` इति पूर्वपदस्य पुंवद्भावः । स न भवतीत्यनन्यपूर्वस्तस्यानन्यपूर्वस्य । सापत्न्यदुःखमकुर्वत इत्यर्थः । वरस्य वोढुर्गुणैर्मृत्युंजयत्वादिभिर्विशोकां निर्दुःखामकरोत्
अन्वयः: दुहितृस्नेहविक्लवाम् अश्रुमुखीं तन्मातरं च अनन्यपूर्वस्य वरस्य गुणैः विशोकाम् अकरोत् ।

Verse 93
वैवाहिकीं तिथिं पृष्टास्तत्क्षणं हरबन्धुना । ते त्र्यहादूर्ध्वमाख्याय चेलुश्चीरपरिग्रहाः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): वैवाहिकीमिति । चीरपरिग्रहा वल्कलमात्रवसनास्ते तपस्विनस्तत्क्षणं तस्मिन्नेव क्षणे हरबन्धुना हिमवता वैवाहिकीं विवाहयोग्यां तिथिं पृष्टाः केप्यनुयुक्ताः सन्तः । त्रयाणामह्नां समाहरस्त्र्यहः । `तद्धितार्थोत्तरपदसमाहारे च` (पा.2|1|51) इति समासः । `राजाहः सखिभ्यष्टच्` इति टच्प्रत्ययः । द्विगुत्वादेकवचनम् । `रात्राह्नाहाः पुंसि` (पा.2|4|29) इति पुलिङ्गता । तस्मात्त्र्यहादूर्ध्वमुपार्याख्याय चतुर्थेऽहनि विवाह इत्युक्त्वा चेरुश्चलिताः
अन्वयः: चीरपरिग्रहाः ते तत्क्षणं हरबन्धुना वैवाहिकीं तिथिं पृष्टाः (सन्तः) त्र्यहात् ऊर्ध्वम् आख्याय चेरुः ।

Verse 94
ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् । सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): त इति । ते मुनयो हिमालयमामन्त्र्य साधु यामेत्यापृच्छ्य पुनः शूलिनं हरं संकेतस्थानस्थं प्राप्य सिद्धं निष्पन्नमर्थं प्रयोजनमस्मै निवेद्य च प्रापयित्वा च तद्विसृष्टास्तेन शूलिना विसृष्ठाः खमाकाशं प्रत्युद्ययुरुत्पेतुः । अत्र संक्षिप्तार्थाभिधानात्संक्षेपो नाम गुण उक्तः । तदुक्तम्- `संक्षिप्तार्थाभिधानं यत्संक्षेपः परिकीर्तितः` इति
अन्वयः: ते हिमालयम् आमन्त्र्य पुनः शूलिनं प्राप्य सिद्धम् अर्थम् अस्मै निवेद्य च तद्विसृष्टाः खम् उद्ययुः ।

Verse 95
पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः । कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥
Metre: पुष्पिताग्रा
सञ्जीविनीटीका (मल्लिनाथः): पशुपतिरिति । उत्कं मनो यस्य स उत्कः । `उत्क उन्मनाः` (पा.5|2|80) इति निपातः । अद्रिसुतासमागमोत्कः पार्वतीपरिणयोत्सुकः पशुपतिरपि तानि । त्रीणीति शेषः । अहानि कृच्छ्रादगमयदयापयत् । कविराह-अमी भावा औत्सुक्यादयः संचारिणोऽवशमिन्द्रियपरतन्त्रमपरं पृथग्जनं कं न विप्रकुर्युर्न विकारं नयेयुः । यद्यस्माद्विभुं समर्थम् । जितेन्द्रियमिति यावत् । तं स्मरहरमपि स्पृशन्ति । विकुर्वन्तीत्यर्थः । अत्र विभुविकारसमर्थनादर्थादितरजनविकारः । कैमुतिकन्यायायादापततीत्यर्थापत्तिरलंकारः । तथा च सूत्रम्- `दण्डापूपिकयार्थान्तरपतनमर्थापत्तिः` इति । अर्थान्तरन्यास इति । अर्थान्तरन्यास इति केचित्, तदुपेक्षणीयम् । युक्तिस्तु विस्तरभयान्नोच्यते । पुष्पिताग्रावृत्तम् `-अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा` । इति लक्षणात्
अन्वयः: अद्रिसुतासमागमोत्कः पशुपतिः अपि तानि अहानि कृच्छ्रात् अगमयत् । अमी भावाः अवशम् अपरं कं न विप्रकुर्युः, यत् विभुं तम् अपि स्पृशन्ति ।

Showing 91 to 95 of 95 verses