कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 91 to 95 of 95 verses
Verse 91
तौ सन्धिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम् । अपश्यतामप्सरसां मुहूर्तं प्रयोगमाद्यं ललिताङ्गहारम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): ताविति । तौ दंपती संधिषु मुखादिनिर्वहणान्तेषु पञ्चसंधिषु । तदुक्तं दशरुपके- `मुखं प्रतिमुखं गर्भः सावमर्षोपसंहृतिः` इति । व्यञ्जितवृत्तिभेदं स्फुटीकृतकौशिक्यादिवृत्तिविशेषम् । रसानुगुण्येनेति शेषः । तदुक्तं भूपालेन-कौशिकी स्यात्तु श्रृङ्गारे रसे वीरे तु सात्वती । रौद्रबीभत्सयोर्वृत्तिर्नियतारभटी पुनः । श्रृङ्गारादिषु भावज्ञै रसेष्विष्टा तु भारती ।` तथा । कौशिक्यारभटी चैव सात्वतीभारती तथा । चतस्त्रो वृत्तयो ज्ञेयास्तासु नाट्यं प्रतिष्ठितम् ।` इति । रसान्तरेषु श्रृङ्गारादिरसभेदेषु । `श्रृङ्गारादौ विषे वीर्ये गुणो रागे द्रवे रसः` इत्यमरः (अ.को.1|7|17) । `श्रृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताख्या रसाः पूर्वैरुदाहृताः` इति । प्रतिबद्धरागं प्रतिनियमेन प्रवर्तितो वसन्तललितादिरागो यस्मिंस्तम् । यस्मिन् रसे यो रागो विहितस्तदनुसारेण प्रयुक्तरागमित्यर्थः । यथाह काहलः- `रौद्रेऽद्भुते तथा वीरे पुंरागेण प्रगीयते । श्रृङ्गारहस्य करुणाः स्त्रीरागेण प्रकीर्तितः । भयानके च बीभत्से शान्ते गेयो नपुंसके ।` इति । ललिताङ्गहारं मधुराङ्गविक्षेपम् । `अङ्गहारोऽङ्गविक्षेपः` इत्यमरः (अ.को.1|7|17) । आदौ भवमाद्यम् । रुपकान्तरप्रकृतिभूतमित्यर्थः । तदुक्तम् - `आहुः प्रकरणादीनां नाटकं प्रकृतिंबुधः` इति । अप्सरमामुर्वश्यादीनाम् । प्रयुज्यत इति प्रयोगो रुपकम् । नाटकमित्यर्थः । आद्यमिति विशेषणात् । तं मुहूर्तमपश्यतां दृष्टवान्तौ । `पाघ्राध्मास्था`- इत्यादिना दृशोः पश्यादेशः
अन्वयः: तौ सन्धिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागं ललिताऽङ्गहारम् आद्यम् अप्सरसां प्रयोगं मुहूर्तम् अपश्यताम् ।

Verse 92
देवास्तदन्ते हरमूढभार्यं किरीटबद्धाञ्जलयो निपत्य । शापावसाने प्रतिपन्नमूर्त्तेर्ययाचिरे पञ्चशरस्य सेवाम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): देवा इति । देवा इन्द्रादयस्तदन्ते तस्य प्रयोगदर्शनस्यान्तेऽवसान ऊढभार्यं परिणीतदारं हरं किरीटेषु बद्धा अञ्जलयो येषां ते तथोक्ताः सन्तः । निपत्य प्रणम्य शापावसाने प्रतिपन्नमूर्तेर्लब्धशरीरस्य । `परिणेष्यति पार्वती यदा` (४/४२) इत्यादिना शापस्य पार्वतीपरिणयान्तत्वादित्यर्थः । पञ्चशरस्य कामस्य कर्तुः । सेवां ययाचिरे । पुनः समासादितशरीरस्य तस्य सेवां स्वीक्रियतामिति प्रार्थयामासुरित्यर्थः । `दुह्याच्पच्`- इत्यादिना द्विकर्मकत्वम्
अन्वयः: देवाः तदन्ते ऊढभार्यं हरं किरीटबद्धाऽञ्जलयः (सन्तः) निपत्य शापाऽवसाने प्रतिपन्नमूर्तेः पञ्चशरस्य सेवां ययाचिरे ।

Verse 93
तस्यानुमेने भगवान्विमन्युर्व्यापारमात्मन्यपि सायकानाम् । काले प्रयुक्ता खलु कार्यविद्भिर्विज्णापना भर्तृषु सिद्धिमेति ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): तस्येति । विमन्युर्विगतक्रोधो भगवानीश्वर आत्मन्यपि तस्य कामस्य सायकानां व्यापारमनुमेने । तथाहि कार्यविद्भिः कार्यज्ञैः । अथवा कालविद्भिः अवसरज्ञैः । काले योग्यावसरे प्रयुक्तानुष्ठिता भर्तृषु स्वामिषु विषये विज्ञापना सिद्धिमेति खलु । सफला भवतीत्यर्थः । अयमेवास्य स्मरसेवास्वीकारो यदात्मन्यपि तत्सायकव्यापारमङ्गीकृतवानिति
अन्वयः: विमन्युः भगवान् आत्मनि अपि तस्य सायकानां व्यापारम् अनुमेने । (तथा हि) कार्यविद्भिः कालप्रयुक्ता भर्तृषु विज्ञापना सिद्धिम् एति खलु ।

Verse 94
अथ विबुधगणांस्तानिन्दुमौलिर्विसृज्य क्षितिधरपतिकन्यामाददानः करेण । कनककलशरक्शाभक्तिशोभासनाथं क्षितिविरचितशय्यं कौतुकागारमागात् ॥
Metre: मालिनी
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथेन्दुमौलिरीश्वरस्तान्विबुधगणान्विसृज्य क्षितिधरपतिकन्यां पार्वतीं करेणाददानः कनककलशयुक्तं मङगलार्थमन्तर्निहितहेममयपूर्णकुम्भं भक्तयः पुष्पादिरचनास्तासां शोभया सनाथम् । सहितमित्यर्थः । क्षितिविरचितशय्यं क्षितौ विरचिता स्थण्डिले कल्पिता शय्या तल्पं यस्मिंस्तत्तथोक्तं कौतुकागारमगाच्छय्यागृहं जगाम । अत्राश्वलायनः-`अत ऊर्ध्वमक्षारलवणाशिनावधःशायिनौ ब्रह्मचारिणौ स्याताम्` इति । अथ ऊर्ध्व विवाहादूर्ध्वम् । आ त्रिरात्रादिति शेषः । `त्रिरात्रं द्वादशरात्रं वा ` इति वचनात् । तथा कामशास्त्रेऽपि `अथ परिणयरात्रौ प्रक्रमेणैव किञ्चित्तिसृषु च रजनीषु स्तब्धभावा दुनोति । त्रिदिनमिह न भिन्द्याद्ब्रह्मचर्यं न चास्या हृदयमननुरुध्य स्वेच्छया कर्म कुर्यात्` इति
अन्वयः: अथ इन्दुमौलिः, तान् विबुधगणान् विसृज्य क्षितिधरपतिकन्यां करेण आददानः (सन्) कनककलशयुक्तं भक्तिशोभासनाथं क्षितिविरचिशय्यं कौतुकाऽगारम् अगात् ।

Verse 95
नवपरिणयलज्जाभूषणां तत्र गौरीं वदनमपहरन्तीं तत्कृतोत्क्षेपमीशः । अपि शयनसखीभ्यो दत्तवाचं कथंचित्प्रमथमुखविकारैर्हासयामास गूढम् ॥
Metre: मालिनी
सञ्जीविनीटीका (मल्लिनाथः): नवेति । तत्र कौतुकागार ईश ईश्वरो नवपरिणयेन नवोद्वाहेन या लज्जा सा भूषणं यस्यास्तामत एव तेनेश्वरेण कृताक्षेपं कृताकर्षणम् । उन्नमितमिति यावत् । वदनमपहरन्तीं साचीकुर्वन्तीम् । अयं लज्जाभावः । अनुभावान्तरमाह-शयनसखीभ्योऽपि शयने सहशायिनीभ्योऽपीत्यर्थः । कथंचित्कृच्छ्रेण दत्तवाचं दतोत्तरां गौरीं प्रमथा भृङ्गिरिटिप्रभृतयो हास्यरसाधिदेवताः पशुपतेः पारिषदाः । यथाह भरतः-`श्रृङ्गारो विष्णुदैवत्यो हास्यः प्रमथदैवतः` इति । `प्रमथाः स्युः पारिषदाः` इत्यमरः । तेषां मुखविकारैर्मुखविकृतचेष्टितैर्गूढप्रकाशं हासयामास । हासाद्युपायैर्लज्जामपाकर्तुं प्रवृत्तं इत्यर्थः । यथाह गोनर्दः-`हासेन मधुना नम्रवचसा लज्जितां प्रियाम् । विलुप्तलज्जां कुर्वित निपुणैश्च सखीजनैः ।` इति
अन्वयः: तत्र ईशः नवपरिणयलज्जाभूषणां तत्कृताक्षेपं वदनाम् अपहरन्तीं शयनसखीभ्यः अपि कथञ्चित् दत्तवाचं गौरीं प्रमथमुखविकारैः गूढं हासयामास ।

Showing 91 to 95 of 95 verses