कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 91 to 91 of 91 verses
Verse 91
समदिवसनिशीथं सङ्गिनस्तत्र शम्भोः शतमगमद् ऋतूनां साग्रमेका निशेव । न तु सुरतसुखेषु छिन्नतृष्णो बभूव ज्वलन इव समुद्रान्तर्गतस्तज्जलेषु ॥
Metre: मालिनी
सञ्जीविनीटीका (मल्लिनाथः): समेति । निशीथोऽत्र निशामात्रलक्षकः । समदिवसनिशीथं तुल्याहर्निशं यथा तथा तत्र तस्यां पार्वत्यां सङ्गिन आसक्तस्य । रात्रिंदिवं रममाणस्येत्यर्थः । शम्भोः शिवस्य साग्रं किञ्चित्साधिकसंख्यमृतूनां शतं पञ्चाशदुत्तरं मानुषमानेन पञ्चविंशतिवर्षाण्येका निशेवागमत् । स शम्भुः समुद्रान्तर्गतः समुद्रस्यान्तर्वृत्तिर्ज्वलनो वडवाग्निरिव तज्जलौघैस्तस्य प्रवाहैरिव सुरतसुखेभ्यश्छिन्नतृष्णो निवृताभिलाषो न बभूव । किन्तु चिरमवर्धतेत्यर्थः
अन्वयः: समदिवसनिशीथं तत्र सङ्गिनः शम्भोः साग्रम् ऋतूनां शतम् एका निशा इव अगमत् । स समुद्राऽन्तर्गतः ज्वलन इव जलोघैः छिन्नतृष्णो न बभूव ।

Showing 91 to 91 of 91 verses