कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 81 to 90 of 91 verses
Verse 81
तां विलम्बितपनीयमेखलामुद्वहञ्जघनभारदुर्वहाम् । ध्यानसंभृतविभूतिरीश्वरः प्राविशन्मणिशिलागृहं रहः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तामिति । हरो विलम्बितपनीयमेखलां विस्रंसिहेमरसनां जघनभारेण दुर्वहां तां पार्वतीमुद्वहन्ध्यानसंभृतया संकल्पमात्रसिद्ध्या विभूत्या भोगसाधनेन संभृतं = संपूर्णं मणिशिलागृहं प्राविशत् । रिरंसुरिति भावः
अन्वयः: हरः विलम्बितपनीयमेखलां जघनभारदुर्वहां ताम् उद्वहन् ध्यानसंभूतविभूतिः रहः मणिशिलागृहं प्राविशत् ।

Verse 82
तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनम् । अध्यशेत शयनं प्रियासखः शारदाभ्रमिव रोहिणीपतिः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति । तत्र मणिभवने हंसवद्धवल उत्तरच्छदः प्रच्छदपटी यस्य तत्तथोक्तं जाह्नवीपुलिनमिव चारुदर्शनं शयनं शय्यां रोहिणीपतिश्चन्द्रः, शरदि भवं शारदमभ्रं मेघमिव । शरद्ग्रहणं धावल्यार्थम् । प्रियसखः सन् । प्रियया सहेत्यर्थः । अध्यशेत शयितवान् । `अधिशीङ्स्थासां कर्म` इति कर्मत्वम् । रोहिणीग्रहणसामर्थ्यादिन्दोरप्यभ्रारोहणे रोहिणीसाहित्यमनुसंधेयम्
अन्वयः: रोहिणीपतिः शारदाऽभ्रम् इव तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनं शयनं प्रियासखः सन् अध्यशेत ।

Verse 83
क्लिष्टकेशमवलुप्तचन्दनं व्यत्ययार्पितनखं समत्सरम् । तस्य तच्छिदुरमेखलागुणं पार्वतीरतमभून्न तृप्तये ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): क्लिष्टेति । अदयैर्निदैयैः कचग्रहैः = केशकर्षणैः क्लिष्टचन्द्रं पीडितहरचन्द्रमुत्पथमुन्मर्यादमर्पिता नखा यस्मिंस्तत्समत्सरमन्योन्यविजिगीषापूर्वकं छिदुराः स्वयमेव छिद्यमाना मेखलागुणा यस्मिंस्तत्तथोक्तम् । `विदिभिदिछिदेः कुरच्` इति कुरच्प्रत्ययः । `कर्मकर्तरि` इति काशिका । पार्वतीरतं तस्येश्वरस्य तृप्तये नाभूदिति भावः
अन्वयः: अदयैः कचगृहैः क्लिष्टचन्द्रम् उत्पथाऽर्पितनखं समत्सरं छिदुरमेखलागुणं तत् पार्वतीरतं तस्य तृप्तये न अभूत् ।

Verse 84
केवलं प्रियतमादयालुना ज्योतिषामवनतासु पङ्क्तिषु । तेन तत्परिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): केवलमिति । प्रियतमादयालुना केवलम् । प्रियतमायां दययैव तस्येश्वरस्य सौकुमार्यादनवरतं सुरतासहिष्णुत्वात् । नतु स्वयं तृप्त्येत्यर्थः । तत्परिगृहीतवक्षसा तया पार्वत्याश्लिष्टवक्षसा तेनेश्वरेण ज्योतिषां = नक्षत्राणां पङ्क्तिष्ववनतासु सतीषु । पश्चिमायामित्यर्थः । नेत्रमीलनकुतूहलं कृतम् । निद्रा स्वीकृतेत्यर्थः
अन्वयः: प्रियतमादयालुना केवलं तत्प्रतिगृहीतवक्षसा तेन ज्योतिषां पङ्क्तिषु अवनतासु (सतीषु) नेत्रमीलनकुतूहलं कृतम् ।

Verse 85
स व्यबुध्यत बुधस्तवोचितः शतकुम्भकमलाकरैः समम् । मूर्च्छनापरिगृहीतकैशिकैः किन्नरैरुषसि गीतमङ्गलः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति । बुधस्तवोचितो विद्वत्स्तोत्रार्हः स हर उषसि प्रभाते । स्वराणामारोहक्रमो मूर्च्छना । `क्रमयुक्ताः स्वरास्तत्र मूर्च्छना परिकीर्तिता` इति भरतः । तया मूर्च्छनया परिगृहीतकैशिकैः स्वीकृतरागविशेषैः किंनरैर्गीतमङ्गलः सन् । शातकुम्भकमलाकरैः समं कनकपद्माकरैः सह । `तपनीयं शातकुम्भं गाङ्गेयं भर्म कबुर्रम्` इत्यमरः । व्यबुध्यत विबुद्धवान् । बुध्यतेर्दैवादिकात्कर्तरि लङ् । अत्र बुध्यतेर्जागरविकासयोर्वोधयोः श्लेषनिमित्तकाभेदाध्यवसायमूला सहोक्तिरलंकारः
अन्वयः: बुधस्तवोचितः स उषसि मूर्च्छनापरिगृहीतकैशिकैः किन्नरैः गीतमङ्गलः (सन्) शातकुम्भकमलाकरैः समं व्यबुध्यत ।

Verse 86
तौ क्षणं शिथिलितोपगूहनौ दम्पती चलितमानसोर्मयः । पद्मभेदपिशुनाः सिषेविरे गन्धमादनवनान्तमारुताः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): ताविति । शिथिलितोपगूहनौ शिथिलितालिङ्गनौ । जाया च पतिश्चदंपती । जायाशब्दस्य दंभावो निपातितः तौ शिवौ रचितमानसोर्मयः । मानसे सरसि रचिततरङ्गा इत्यर्थः । पद्मभेदनिपुणाः । पद्मभेदपिशुना इति यावत् । विकाससूचका इत्यर्थः । गन्धमादनवनान्तमारुताः क्षणं सिषेविरे
अन्वयः: शिथिलितोपगूहनौ दम्पती तौ रचितमानसोर्मयः पद्मबोधनिपुणाः गन्धमादनवनाऽन्तमारुताः क्षणं सिषेविरे ।

Verse 87
ऊरुमूलनखमार्गराजिभिस्तत्क्षणं हृतविलोचनो हरः । वाससः प्रशिथिलस्य संयमं कुर्वतीं प्रियतमामवारयत् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): ऊर्विति । तत्क्षणं मारुतवीजनसमय ऊरुमूले नखमार्गराजिभिर्नखपदपङ्क्तिभिः । मरुता प्रसारितवस्त्रतया प्रकाशिताभिरित्यर्थः । हृतविलोचन आकृष्टदृष्टिर्हरः प्रशिथिलस्य वाससः संयमं बन्धनं कुर्वतीं प्रियतमामवारयत्
अन्वयः: तत्क्षणम् ऊरुमूलनखमार्गराजिभिः हृतविलोचनः हरः प्रशिथिलस्य वाससः संयमं कुर्वतीं प्रियतमाम् अवारयत् ।

Verse 88
स प्रजागरकषायलोचनं गाढदन्तपदताडिताधरम् । आकुलालकमरंस्त रागवान्प्रेक्ष्य भिन्नतिलकं प्रियामुखम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): स इति । रागवान्रागी स हरः प्रजागरेण कषायलोचनं रक्तनेत्रं गाढैर्दन्तक्षतैस्ताडिताधरमाकुलालकं भिन्नतिलकं प्रियामुखं प्रेक्ष्यारंस्तान्वरज्यत । तादृङ्मुखदर्शनमेव तस्योद्दीपकमित्यर्थः
अन्वयः: रागवान् स प्रजागरकषायलोचनं गाढदन्तपदताडिताऽधरम् आकुलाऽलकं भिन्नतिलकं प्रियामुखं प्रेक्ष्य अरंस्त ।

Verse 89
तेन भङ्गिविषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलम् । निर्मलेऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तेनेति । निशात्यये प्रभाते निर्मलेऽपि तेन हरेण भङ्गिभिर्भङ्गैर्विषमो निम्नोन्नत उत्तरच्छदः प्रच्छदपटो यस्मिंस्तत् । मध्ये पिण्डिता पुञ्जीकृता विसूत्रमेखला छिन्नरसना यस्मिंस्तत्तथोक्तं चरणयो रागेण लाक्षारागेण लाञ्छितं चिह्नितं शयनं नोज्झितं न त्यक्तम् । अत्र देव्याः सकलसुरतोपचारसंपन्नत्वं पुरुषायितं सूच्यते
अन्वयः: निशात्यये अपि तेन भिन्नविषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलं (तथा) चरणरागलाञ्छितं शयनं न उज्झितम् ।

Verse 90
स प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिषेविषुः । दर्शनप्रणयिनामदृश्यतामाजगाम विजयानिवेदनात् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): स इति । स हरो हर्षवृद्धिजननं सुखातिशयकारणं प्रियामुखरसं मदिरामृतं दिवा च निशि च दिवानिशम् । द्वन्द्वैकवद्भावः । सिसेविषुः सेवितुमिच्छुः सन् । विजयानाम्नी काचिद्देव्याः सखी तया निवेदितः । एतदर्थमागतेति ज्ञापितोऽपीत्यर्थः । दर्शनप्रणयिनामदृश्यतामाजगाम । दर्शनं न ददावित्यर्थः
अन्वयः: हर्षवृद्धिजननं प्रियामुखरसं दिवानिशं सिसेविषुः (सन्) विजयानिवेदितः दर्शनप्रणयिनाम् अदृश्यताम् आजगाम ।

Showing 81 to 90 of 91 verses