पाणिपीडनविधेरनन्तरं शैलराजदुहितुर्हरं प्रति । भावसाध्वसपरिग्रहादभूत्कामदोहदमनोहरं वपुः ॥
Metre: रथोद्धता
व्याहृता प्रतिवचो न सन्दधे गन्तुमैच्छदवलम्बितांशुका । सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥
Metre: रथोद्धता
कैतवेन शयिते कुतूहलात्पार्वती प्रतिमुखं निपातितम् । चक्षुरुन्मिषति सस्मितं प्रिये विद्युदाहतमिव न्यमीलयत् ॥
Metre: रथोद्धता
नाभिदेशनिहितः सकम्पया शङ्करस्य रुरुधे तया करः । तद्दुकूलमथ चाभवत्स्वयं दूरमुच्छ्वसितनीविबन्धनम् ॥
Metre: रथोद्धता
एवमालि निगृहीतसाध्वसं शङ्करो रहसि सेव्यतामिति । सा सखीभिरुपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनि प्रिये ॥
Metre: रथोद्धता
अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् । वीक्षितेन परिगृह्य पार्वती मूर्धकम्पमयमुत्तरं ददौ ॥
Metre: रथोद्धता
शूलिनः करतलद्वयेन सा संनिरुध्य नयने हृतांशुका । तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्यभूत् ॥
Metre: रथोद्धता
चुम्बनेष्वधरदानवर्जितं सन्नहस्तमदयोपगूहने । क्लिष्टमन्मथमपि प्रियं प्रभोर्दुर्लभप्रतिकृतं वधूरतम् ॥
Metre: रथोद्धता
यन्मुखग्रहणमक्षताधरं दत्तमव्रणपदं नखं च यत् । यद्रतं च सदयं प्रियस्य तत्पार्वती विषहते स्म नेतरत् ॥
Metre: रथोद्धता
रात्रिवृत्तमनुयोक्तुमुद्यतं सा विभातसमये सखीजनम् । नाकरोदपकुतूहलं ह्रिया शंसितुं च हृदयेन तत्वरे ॥
Metre: रथोद्धता