कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 1 to 10 of 91 verses
Verse 1
पाणिपीडनविधेरनन्तरं शैलराजदुहितुर्हरं प्रति । भावसाध्वसपरिग्रहादभूत्कामदोहदमनोहरं वपुः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): पाणीति । पाणिपीडनविधेरनन्तरं पाणिग्रहणानन्तरम् । विधेरिति पञ्चमी षष्ठी च । उभयथाप्यनुशासनसंभवादित्युक्तं प्राक् । शैलराजदुहितुः पार्वत्याः कर्त्र्याः तं हरं प्रति भावसाध्वसपरिग्रहन्मनोहरं चित्ताकर्षकं कामदोहदम् । कामसंवर्धकमित्यर्थः । `तरुगुल्मलतादीनामकाले कुशलैः कृतम् । पुष्पाद्युत्पादकं द्रव्यं दोहदं स्यात्` इति शब्दार्णवे । तच्च तत्सुखं कामदोहदसुखमभूत् । हरस्येति शेषः । नायिकानायकयोरन्योन्यानुभवदर्शनात्सुखमाविर्भवति । तच्च मदनोद्दीपकमिति रसविदां स्थितिः । तथा च हरस्य गौर्या नवोढाया स्वगोचरभावप्रत्युक्तसाध्वसदर्शनात्सुखमाविर्भवति । तच्च मदनाकारं प्रादुर्बभूवेत्यर्थः । तत्र रसभावस्थायिनः कार्यमनुभावः । तदुक्तम्--`रसागच्छन्ति संस्थानं यत्कार्यमुपलक्ष्यते । सोऽनुभावः.......... संस्थासूचकः ।` इति
अन्वयः: पाणिपीडनविधेः अनन्तरं शैलराजदुहितुः भावसाध्वसपरिग्रहात् शैलराज दुहितुः वपुः हरं प्रति कामदोहदमनोहरम् अभूत् ।

Verse 2
व्याहृता प्रतिवचो न सन्दधे गन्तुमैच्छदवलम्बितांशुका । सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): व्याहृतेति । सा पार्वती व्याहृता यत्किंचिदनिहिता सती प्रतिवचः प्रत्युत्तरं न संदधे । न ददावित्यर्थः । अवलम्बितांशुका गृहीतवस्त्रा सती गन्तुमपसर्त्तुमैच्छदिच्छति स्म । इषधातोर्लङ् । `इषुगमियमां छः` (पा.7|3|77) इति छकारः । पराङ्मुखी सती शयनं सेवते स्म । अनभिमुखमशयिष्टेत्यर्थः । तथापि इत्थं साध्वसात्प्रतिकूलचेष्टितापीत्यर्थः । पिनाकिनः शिवस्य रतये सुखाय । बभूवेति शेषः प्रातिकूल्यमपि तस्यानन्दकरमभूदित्यर्थः । एतेन नवोढाया देव्या मौग्ध्याद्विजितं तन्ममत्वमवसेयम्
अन्वयः: सा व्याहृता (सती) प्रतिवचो न सन्दधे अवलम्बितांऽशुका गन्तुम् ऐच्छत्, पराङ्मुखी (सती) शयनं सेवते स्म, तथाऽपि पिनाकिनो रतये (बभूव) ।

Verse 3
कैतवेन शयिते कुतूहलात्पार्वती प्रतिमुखं निपातितम् । चक्षुरुन्मिषति सस्मितं प्रिये विद्युदाहतमिव न्यमीलयत् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): कैतवेनेति । प्रिये भर्तरि कुतूहलात् । एषा किं करिष्यतीति बुभुत्सयेत्यर्थः । कैतवेन कपटेन शयिते सुप्ते सति पार्वती कर्त्री प्रतिमुखं यथा निपातितम् । प्रियस्वापपरीक्षार्थं तदभिमुखं प्रवर्तितमित्यर्थः । चक्षुः स्वदृष्टिं सस्मितमुन्मिषति । पुनः प्रिये सहासं पश्यतीत्यर्थः । विद्युदाहतं विद्युता प्रतिहतमिव न्यमीलयत् । साध्वसादिति भावः । एतेन किंचित्साध्वसस्यापचयो व्यज्यते
अन्वयः: पार्वती प्रिये कुतूहलात् कैतवेन शयिते (सति) मुखं प्रति निपातितं चक्षुः सस्मितम् उन्मिषति, विद्युता आहतम् इव न्यमीलयत् ।

Verse 4
नाभिदेशनिहितः सकम्पया शङ्करस्य रुरुधे तया करः । तद्दुकूलमथ चाभवत्स्वयं दूरमुच्छ्वसितनीविबन्धनम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): नाभीति । नाभिदेशनिहितः । नीवीमोचनायेति शेषः । शंकरस्य करः सकम्पया वेपथुमत्या । प्रियकरस्पर्शादुत्पन्नसात्विकभावयेत्यर्थः । तया पार्वत्या रुरुधे निवारितः । अथ च । तथापीत्यर्थः । तद्दुकूलं स्वयं स्वत एव दूरमत्यन्तमुच्छ्वसितं स्स्तं नीवीबन्धनं नीवीग्रन्थिर्यस्य तत्तथाभूतमभवत् । रतिपारवश्यादिति भावः
अन्वयः: नाभिदेशनिहितः शङ्करस्य करः सकम्पया तया रुरुधे, अथ तद्दुकूलं स्वयं दूरम् उच्छ्वसितनीवीबन्धनम् अभवत् ।

Verse 5
एवमालि निगृहीतसाध्वसं शङ्करो रहसि सेव्यतामिति । सा सखीभिरुपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनि प्रिये ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): एवमिति । हे आलि सखि पार्वति ! रहसि शंकर एवम् । स्वोपदिष्टप्रकारेणेत्यर्थः । निगृहीतसाध्वसं निरस्तभयं यथा तथा सेव्यतामिति । सखीभिरुपदिष्टमुक्तं वचनं सा पार्वती प्रिये शंकरे प्रमुखवर्तिनि सत्याकुला साध्वसविह्वला सती नास्मरत् । न स्मृतवतीत्यर्थः । स हि भयपरिप्लुते चेतसि दृष्टतरोऽप्युपदेशः संसारमाधत्त इति भावः
अन्वयः: `हे आलि ! रहसि शङ्करः एवं निगृहीत साध्वसं सेव्यताम् ।` इति सखीभिः उपदिष्टं सा शङ्करे प्रमुखवर्तिनि सति आकुला न अस्मरत् ।

Verse 6
अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् । वीक्षितेन परिगृह्य पार्वती मूर्धकम्पमयमुत्तरं ददौ ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): अपीति । अथाप्रवृत्तये संलापप्रवर्तनायावस्तुन्यप्रस्तुतार्थेऽपि प्रश्नतत्परम् । यत्किंचित्पृच्छन्तमित्यर्थः । अनङ्गशासनमीश्वरं पार्वती वीक्षितेन । न तु वाचेत्यर्थः । परिगृह्याङ्गीकृत्य मूर्धकम्पमयं शिरःकम्पस्वरुपम् । स्वर्थे मयट् । उत्तरं ददौ । नतु वाङ्मयं साध्वसादिति भावः । विहृतनामा लज्जानुभाव उक्तः । तदुक्तम् रतिरहस्ये-- (ईर्ष्यामानातिलज्जाभ्यां न दत्तं योग्यमुत्तरम् । क्रियया व्यज्यते यत्र विहृतं तदुदीरितम् ।) इति
अन्वयः: कथाप्रवृत्तये अवस्तुनि अपि प्रश्वतत्परम् अनङ्गशासनं पार्वती वीक्षितेन परिगृह्य मूर्धकम्पमयम् उत्तरं ददौ ।

Verse 7
शूलिनः करतलद्वयेन सा संनिरुध्य नयने हृतांशुका । तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्यभूत् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): शूलिन इति । सा पार्वती रहसि हृतांशुका प्रियेणाकृष्टवस्त्रा सती करतलद्वयेन । स्वकीयेनेत्यर्थः । शूलिनो हरस्य नयने नेत्रद्वयं संनिरुध्य संच्छाद्य तस्य शूलिनो ललाटलोचने तृतीयेऽक्ष्णि पश्यति सति मोघयत्नाखिलप्रयासात एव विधुराभूत् । तृतीयकराभावादिति भावः । एते न किंचिद्धार्ष्ट्यादयो व्यज्यन्ते
अन्वयः: रहसि हृतांऽशुका करतलद्वयेन शूलिनः नयने संनिरुध्य सा तस्य ललाट लोचने पश्यति (सति) मोघयत्नविधुरा अभूत् ।

Verse 8
चुम्बनेष्वधरदानवर्जितं सन्नहस्तमदयोपगूहने । क्लिष्टमन्मथमपि प्रियं प्रभोर्दुर्लभप्रतिकृतं वधूरतम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): चुम्बनेष्विति । चुम्बनेष्वधरदानवर्जितमोष्ठार्पणरहितमदयोपगूहने निर्दयालिङ्गने सन्नौ स्तब्धौ हस्तौ करौ यस्मिंस्तत्तथोक्तम् । तथा दुर्लभप्रतिकृतम् । प्रगल्भत्वान्नखदन्तताडनाद्यकृतप्रयत्नमित्यर्थः । अत एव क्लिष्टमन्मथं लज्जयोपरुद्धमदनमपि वध्वा नवोढाया रतं वधूरतं प्रभोरीश्वरस्य प्रियम् । अभूदिति शेषः । `वधूः स्नुषानवोढास्त्रीभार्यासृष्टाङ्गनासु च` इति विश्वः । अयं लज्जासाध्वसाभ्यां संकुचितोपचारत्वात्संक्लिष्टसंभोगः । तदुक्तं भूपालेन-(युवानौ यत्र संक्षिप्तसाध्वसव्रीडयादिभिः । उपचारान्निषेवन्ते स संक्लिष्ट इतीरितः ।) इति
अन्वयः: चुम्बनेषु अधरदानवर्जितम् अदयोपगूहने सन्नहस्तं दुर्लभप्रतिकृतं क्लिष्टमन्मथम् अपि वधूरतं प्रभोः प्रियम् (अभूत्) ।

Verse 9
यन्मुखग्रहणमक्षताधरं दत्तमव्रणपदं नखं च यत् । यद्रतं च सदयं प्रियस्य तत्पार्वती विषहते स्म नेतरत् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): यदिति । पार्वती प्रियस्य संबन्ध्यक्षतोऽखण्टितोऽधरो यस्मिंस्तत्तथोक्तं यन्मुखग्रहणं मुखचुम्बनम् । अव्रणपदं लक्ष्मरहितम् । `पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु` इत्यमरः (अ.को.3|3|101) । दत्तं यच्च नखं नखकर्म । यत्सदयं रतं तत्सर्वं विषहते सहते स्म । नेतरद्विपरीतम् । प्रचण्डमिति यावत् । तच्चुम्बनं नखं सुरतं वा न सहते स्म । नवोढात्वादिति हृदयम् । तदुक्तं रतिरहस्ये-(नात्यन्तमानुलोम्येन न चातिप्रतिलोमतः । सिद्धिं गच्छन्ति वा तस्मान्मध्येन साधयेदिति । नवोढाम्) इति
अन्वयः: पार्वती प्रियस्य अक्षताऽधरं यत् मुखग्रहणम् अव्रणपदं यत् नखं, सदयं यत् रतं तत् विषहते स्म इतरत् न (विषहते स्म) ।

Verse 10
रात्रिवृत्तमनुयोक्तुमुद्यतं सा विभातसमये सखीजनम् । नाकरोदपकुतूहलं ह्रिया शंसितुं च हृदयेन तत्वरे ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): रात्रीति । सा पार्वती विभातसमये प्रभातकाले रात्रिवृत्तम् । सुरतवृत्तान्तमित्यर्थः । अनुयोक्तुं प्रष्टुम् । `प्रश्नोऽनुयोगः पृच्छा च` इत्यमरः (अ.को.1|6|10) । उद्यतं प्रवृत्तं सखीजनं ह्रिया लज्जयापकुतूहलं निराकाङ्क्षं नाकरोत् । न किंचिदाचष्ट इत्यर्थः । हृदयेन हृदा च शंसितुं तत्वरे त्वरिताभूत् । औत्सुक्यादिति भावः । त्वरा संभ्रमादीनामनुभावत्वादिति
अन्वयः: सा प्रभातसमये रात्रिवृत्तम् अनुयोक्तुम् उद्यतं सखीजनं ह्रिया अपकुतूहलं न अकरोत्, हृदा तु शंसितुं तत्वरे ।

Showing 1 to 10 of 91 verses