कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 11 to 20 of 91 verses
Verse 11
दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । प्रेक्ष्य बिम्बमनु बिम्बमात्मनः कानि कानि न चकार लज्जया ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): दर्पण इति । किंचेति चार्थः । दर्पणे मुकुरे परिभौगो नखक्षतादिसंभोगचिह्नं पश्यतीति परिभोगदर्शिनी सा पार्वती पृष्ठतः पश्चाद्भागे निषेदुषः स्थितवतः । सदेः वक्सुः । प्रणयिनः प्रियस्य हरस्य बिम्बं प्रतिबिम्बम् । दर्पणे संक्रान्तमित्यर्थः । आत्मनः स्वस्य बिम्बमनु । प्रतिबिम्बस्य पृष्ठत इत्यर्थः । `अनुर्लक्षणे` (पा.1|4|84) इति कर्मप्रवचनीयत्वाद्द्वितीया । प्रेक्ष्य लज्जया । स्वचापलप्राकट्यकृतयेत्यर्थः । कानि कानि यानि यानि भेदवाच्यानि । अङ्गसंवरणादिचेष्टितानीत्यर्थः । उक्तं च-(लज्जानुभावेन साचीकृता वर्णवैवर्ण्याधोमुखादिकृत्) इति । न चकार
अन्वयः: दर्पणे च परिभोगदर्शिनी सा पृष्ठतो निषेदुषः प्रणयिनो बिम्बम् आत्मनो बिम्बम् अनु प्रेक्ष्य लज्जया कानि कानि न चकार ।

Verse 12
नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी समाश्वसत् । भर्तृवल्लभतया हि मानसीं मातुरस्यति शुचं वधूजनः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): नीलकण्ठेति । नीलकण्ठेन परिभुक्तं यौवनं यस्याः सा तथोक्ताम् । प्रियेण भुक्तयौवनामित्यर्थः । तां पार्वतीं विलोक्य जननी मेना समाश्वसत् । संतुतोषेत्यर्थः । श्वसिधातोर्लङ् । `अङ्गार्ग्यगालवयोः` इति विकल्पादडागमः । तथाहि । वधूजनो भर्तृवल्लभतया पतिवात्सल्येन मातुर्मानसीं मनोभवां शुचं शोकमस्यति निरम्यति हि । `विपर्ययाद्विपर्ययश्च` इत्यर्थादवसेयं सामान्यैकविशेषणसमर्थंनरुपोऽर्थान्तरन्यासः
अन्वयः: नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी समाश्वसत्; वधूजनः भर्तृवल्लभतया मातुः मानसीं शुचम् अस्यति ।

Verse 13
वासराणि कतिचित्कथञ्चन स्थाणुना रतमकारि चानया । ज्ञातमन्मथरसा शनैः शनैः सा मुमोच रतिदुःखशीलताम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): वासराणीति । स्थाणुना शंभुना कर्त्रा प्रिया पार्वती कर्मभूता कतिचिद्वासराणि । कैश्चिदहोभिरित्यर्थः । अत्यन्तसंयोगे द्वितीया । कथंचन कृच्छ्रेण पदं पदप्रक्षेपमकार्यत कारिता । सुरतकर्मणीति शेषः । करोतेर्ण्यन्तात्कर्मणि लुङ् । `हृक्रोरन्यतरस्याम्` (पा.1|4|53) इत्यणि कर्तुः कर्मत्वे `ण्यन्ते कर्तुश्च कर्मणा` इत्यभिहितत्वं च । सा कृतपदा पार्वती ज्ञातमन्मथरसानुभूतसुरतसुखास्वादा सती । `आस्वादे विरसमाहुः` इति शब्दानुशासने । शनैः शनैः क्रमेण रतौ रते दुःखशीलतां प्रतिकूलस्वभावतां मुमोच `शीलं स्वभावे सद्वृत्ते` इत्यमरः (अ.को.3|3|209) । मध्यमावस्थां प्राप्तेत्यर्थः
अन्वयः: स्थाणुना अनया (सह) कतिचित् वासराणि कथञ्चन रतम् अकारि । सा शनैः ज्ञातमन्मथरसा रतिदुःखशीलतां मुमोच ।

Verse 14
सस्वजे प्रियमुरोनिपीडिता प्रार्थितं मुखमनेन नाहरत् । मेखलापणयलोलतां गतं हस्तमस्य शिथिलं रुरोध सा ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): सस्वज इति । सा पार्वत्युरसोनिपीडनं यस्मिन्कर्मणि यथा स्तात्तथा प्रियं सस्वजे आलिङ्गितवती । न तु निष्पन्दमास्तेत्यर्थः । अनेन स्मरातिशयः सूचितः । तथाऽनेन प्रियेण प्रार्थितं चुम्बनार्थं याचितम् । `याच्ञायामभियाने च प्रार्थना कथ्यते बुधैः` इति केशवः । मुखं नाहरत् नाऽवक्रयत् । मेखलायां प्रणयः परिचयः । `प्रणयः स्यात्परिचये याच्ञायां सुहृदेऽपि च` इति यादवः । तत्र लोलतां चञ्चलतां गतमस्य हस्तं शिथिलं मन्दं रुरोध न्यवारयत् । न तु निर्भरमिति भावः । अत्र सहनप्रतीकाराभ्यां तुल्यलज्जास्मरत्वं व्यज्यते
अन्वयः: सा उरोनिपीडनं प्रियं सस्वजे, अनेन प्रार्थितं मुखं न अहरत्, मेखलाप्रणयलोलतां गतम् अस्य हस्तं शिथिलं रुरोध ।

Verse 15
भावसूचितमदृष्टविप्रियं चाटुमत्क्षणवियोगकातरम् । कैश्चिदेव दिवसैस्तदा तयोः प्रेम रूढमितरेतराश्रयम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): भावेति । तयोः शिवयोः कैश्चित्कतिभिश्चिदेव दिवसैः । भावसूचितं भावैश्चेष्टाभिः कटाक्षनिक्षेपादिभिः सूचितं ज्ञापितं विप्रियमप्रियाचरणं यत्र तत्तथोक्तम् । चाटूनि प्रियोक्तयो यस्मिन्सन्ति तच्चाटुमत् भूतार्थे मतुप् । क्षणवियोगात्क्षणमात्रविरहादपि कातरं भीरुत्वम् । इतरेतराश्रयमन्योन्यविषयं प्रेम । प्रेमपदाभिलष्याऽङ्कुरावस्था भवतीत्यर्थः । गूढमभूत् । क्रमेणानुरागपदाभिलष्यां प्राप्तमित्यर्थः । तदेतत्सर्वं स्फुटीकृतं भूपालेन- (अङ्कुरपल्लवकलिकाप्रसूनफलभागियम्) इत्यादिना । एका रतिरेव स्थायीभूता रसो भवति तस्याश्चाङ्कुरावस्थाभेदोपपत्तौ सा प्रेमादिपदैरभिलष्यत इत्यर्थः । `सप्रेमभेदरहितं यूनोर्यद्भावबन्धनम् । भावो रती राग एव स्वसंवेद्यदशाप्राप्तयावदाश्रयवृत्तिश्चेदनुरागः` इति मानादिलक्षणं विस्तरभयान्न लिख्यत इत्याकर एव द्रष्टव्यम्
अन्वयः: तयोः भावसूचितम् अदृष्टविप्रियं चाटुमत् क्षणवियोगकातरं गूढं तयोः प्रेम कैश्चित् एव दिवसैः इतरेतराश्रयम् (अभूत्) ।

Verse 16
तं यथात्मसदृशं वरं वधूरन्वरज्यत वरस्तथैव ताम् । सागरादनपगा हि जाह्नवी सोऽपि तन्मुखरसैकनिर्वृतिः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तामिति । वधूरात्मसदृशं स्वानुरुपं वरं वोढारं प्रति यथान्वरज्यतानुरक्ताभूत् । रञ्जेर्दैवादिकात्कर्तरि लकारः । स्वरितत्वादात्मनेपदम् । तथैव वरोऽपि नवोढोप्यात्मनः सदृक्तामात्मसदृशम् । `त्यदादिषु दृशोऽनालोचने कञ्च` इति चकारात्क्विप्प्रत्ययः । तां वधूं प्रत्यन्वरज्यत वध्वामनुरक्तोऽभूदित्यर्थः । `गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्य` इत्यनेन सकर्मकत्वम् । दृष्टान्तमाह-- जाह्नवी गङ्गा सागरन्नापगच्छतीत्यनपगानपेता हि सोऽपि सागरस्तस्या जाह्नव्या मुखरसेनाग्रसलिलेन वक्त्रास्वादेनैका मुख्या निर्वृतिरानन्दो यस्य स तथोक्तः । अत्र दृष्टान्तालंकारः । लक्षणं तूक्तम् इत्थं समानानुरागकथनाद्रसाभासत्वं निरस्तम् । तदुक्तम्-- (योषितो बहुसक्तिश्चेद्रसाभासः स उच्यते) । कविनाप्युक्तं मालविकायाम्-- (अनातुरोक्तं प्रति विप्रसिद्धता समीपगेनापि रतिर्न मां प्रति । परस्परप्राप्तिनिराशयोर्वा शरीरनाशोऽपि समानरागयोः ।) इति
अन्वयः: वधूः आत्मसदृशं तं वरं प्रति यथा अन्वरज्यत, वरोऽपि तां प्रति तथैव अन्वरज्यत । हि जाह्नवी सागरात् अनपगा, सोऽपि तन्मुखरसैकवृत्तिभाक् ।

Verse 17
शिष्यतां निधुवनोपदेशिनः शङ्करस्य रहसि प्रपन्नया । शिक्षितं युवतिनैपुणं तया यत्तदेव गुरुदक्षिणीकृतम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): शिष्यतामिति । रहस्येकान्ते निधुवनमुपदिशतीति निधुवनोपदेशिनः सुरतविद्यागुरोः । `व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम्` इत्यमरः (अ.को.2|7|61) । शंकरस्य शिष्यतां प्रपन्नया प्राप्तया तया पार्वत्या यद्युवतिनैपुणं युवतिजनोचितं नैपुणम् । सुरतकौशलमित्यर्थः । शिक्षितमभ्यस्तम् । आचरितमित्यर्थः । अनेन कृतप्रतिकृतं सूच्यते
अन्वयः: रहसि निधुवनोपदेशिनः शङ्करस्य शिष्यतां प्रपन्नया तया यद् युवतिनैपुणं शिक्षितं तया तदेव गुरुदक्षिणीकृतम् ।

Verse 18
दष्टमुक्तमधरोष्ठमाम्बिका वेदनाविधुतहस्तपल्लवा । शीतलेन निरवापयत्क्षणं मौलिचन्द्रशकलेन शूलिनः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): दष्टमिति । अम्बिका पार्वती दष्टश्चासौ मुक्तश्च तं दष्टमुक्तम् । `पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन` (पा.2|1|49) इत्यनेन समासः । अधरोष्ठं वेदनया विधुतौ कम्पितौ हस्तपल्लवौ पाणिपल्लवौ यस्याः सा तथोक्ता सती शीतलेन शूलिनो मौलिचन्द्रशकलेन क्षणं निरवापयत् । शीतलोपचारेण निर्व्यथमकरोदिति विश्रम्भोक्तिः । निर्वातेर्धातोर्ण्यन्तात् `अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ` (पा.7|3|36) इत्यनेन पुगागमः । अत्राधरपीडनात्सुखेऽपि दुःखवदुपचारात्कुट्टिमनामानुभाव उक्तः । तदुक्तम्- (केशाधरादिसंग्रहणे मोदमानापि मानसे । दुःखितेव बहिः कुप्येतत्कुट्टिमम्)
अन्वयः: अम्बिका दष्टमुक्तम् अधरोष्ठं वेदनाविधुतहस्तपल्लवा (सती) शूलिनो मौलिचन्द्रशकलेन क्षणं निरवापयत् ।

Verse 19
चुम्बनादलकचूर्णदूषितं शङ्करोऽपि नयनं ललाटजम् । उच्छ्वसत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): चुम्बनादिति । अथ शंकरोऽपि चुम्बनाच्चुम्बनार्थितोऽलकचूर्णेन दूषितमुपहतं ललाटजं नयनमुच्छ्वसत्कमलगन्धये विकचारविन्दगन्धधारिणे । `उपमानाच्च` (पा.5|4|137) इतीकारः । पार्वत्या वदनगन्धवाहिने । फूत्कारमारुतायेत्यर्थः । एतेन देव्याः प्रियवशंवदत्वमुक्तम् । अत्र हरचक्षुष्यलकचूर्णकथनाद्देव्या उपरिभावः सूचितः
अन्वयः: अथ शङ्करोऽपि चुम्बनात् अलकचूर्णदूषितं ललाटजं नयनम् उच्छ्वसत्कमलगन्धये पार्वतीवदनगन्धवाहिने ददौ ।

Verse 20
एवमिन्द्रियसुखस्य वर्त्मनः सेवनादनुगृहीतमन्मथः । शैलराजभवने सहोमया मासमात्रमवसद्वृषध्वजः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): एवमिति । वृषध्वजो हर एवमुक्तरीत्येन्द्रियाणां सुखस्यानुकूलस्य वर्त्मनो मार्गस्य स्त्रीप्रसङ्गस्येत्यर्थः । सेवनात्परिभोगादनुगृहीतमन्मथः पुरुज्जीवितमदनः सन् । उमया सह शैलराजभवने हिमवद्गेहे मासमात्रमवसत् । अत्यन्तसंयोगे द्वितीया । मासमात्रमिति वधूवशीकरणकालक्लृप्तिः प्रदर्शिता
अन्वयः: वृषध्वजः एवम् इन्द्रियसुखस्य वर्त्मनः सेवनात् अनुगृहीतमन्मथः (सन्) उमया सह शैलराजभवने मासमात्रम् अवसत् ।

Showing 11 to 20 of 91 verses