कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 21 to 30 of 91 verses
Verse 21
सोऽनुमान्य हिमवन्तमात्मभूरात्मजाविरहदुःखखेदितम् । तत्र तत्र विजहार संपतन्नप्रमेयगतिना ककुद्मता ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): स इति । स आत्मभूः शिव आत्मजाया दुहितुर्विरहदुःखेन पीडितं हिमवन्तमनुमान्यानुमतं कृत्वा अप्रमेयगतिनापरिच्छेद्यगतिना ककुद्मता वृषेण संचरन्संचरमाणस्तत्र तत्र नानादेशेषु विजहार
अन्वयः: स आत्मभूः आत्मजाविरहदुःखपीडितं हिमवन्तम् अनुमान्य अप्रमेयगतिना ककुद्मता तत्र तत्र संपतन् विजहार ।

Verse 22
मेरुमेत्य मरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतान्कृती । हेमपल्लवविभङ्गसंस्तरानन्वभूत्सुरतमर्दनक्षमान् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): मेरुमिति । मरुदाशुगोक्षकः । पवनजवनवाहनः पार्वतीस्तनाभ्यां पुरस्कृतः । पार्वतीपुरोगतयाश्लिष्ट इत्यर्थः । कृती कुशलो हरो मेरुमेत्य हेमपल्लवानां विभङ्गाः खण्डास्त एव संस्तरस्तल्पं यस्यां तां तथोक्तां क्षपां रात्रिं सुरततत्परः सुरतासक्तः सन् । अन्वभूत्
अन्वयः: मरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतः कृती मेरुम् एत्य सुरतमर्दनक्षमान् हेमपल्लवविभङ्गसंस्तरान् रात्रिम् एत्य अन्वभूत् ।

Verse 23
पद्मनाभचरणाङ्किताश्मसु प्राप्तवत्स्वमृतविप्रुषो नवाः । मन्दरस्य कटकेषु चावसत्पार्वतीवदनपद्मषट्पदः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): पद्मनाभेति । पार्वतीवदनपद्मे षट्पदः । प्रियामुखरसास्वादलोल इत्यर्थः । स हरः । पद्मं नाभिर्यस्य स पद्मनाभो विष्णुः । `अच्प्रत्यन्ववपूर्वात्सामलोम्नः`इत्यत्राजिति योगविभागात्समासान्तः । तस्य वलयैरङ्किता अश्मानो येषां तेषु । अमृतमथनसमय इति भावः । तथा नवाः प्रत्यग्रा अमृतविप्रुषः सुधाबिन्दून्प्राप्तवत्सु मन्दरस्य मन्थाचलस्य कटकेषु नितम्बेषु चावसत् । एतेन मन्दरस्यानेकाद्भुताधारत्वान्मनोविनोदकत्वमुक्तम्
अन्वयः: पार्वतीवदनपद्मषठ्पदः (सः) पद्मनाभवलयाऽङ्किता।़श्मसु नवाः अमृतविप्रुषः प्राप्तवत्सु मन्दरस्य कटकेषु च अवसत् ।

Verse 24
वारणध्वनितभीतया तया कण्ठसक्तघनबाहुबन्धनः । एकपिङ्गलगिरौ जगद्गुरुर्निर्विवेश विशदाः शशिप्रभाः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): रावणेति । जगद्गुरुः । विश्रवसोऽपत्यं रावणो दशकण्ठः । `तस्यापत्य्म्` इत्यण्प्रत्ययः । वृत्तिविषये विश्रवस् शब्दस्य रवणादेशः । रावणस्य ध्वनितात्कैलासोत्पाटनसमयक्ष्वेडिताद्भीतया तया पार्वत्या कण्ठसक्ताभ्यां दृढबाहुभ्यां बन्धनं यस्य स तथाभूतः । एकनेत्रत्वादेकपिङ्गलः कुबेरस्तस्य गिरौ कैलासे विशदा निर्मलाः शशिप्रभाश्चन्द्रिका बुभुजे । `निर्वेशो भृतिभोगयोः` इत्यमरः
अन्वयः: जगद्गुरुः रावणध्वनितभीतया तया कण्ठसक्तदृढबाहुबन्धनः (सन्) एकपिङ्गलगिरौ विशदाः शशिप्रभाः निर्विवेश ।

Verse 25
तस्य जातु मलयस्थलीरते धूतचन्दनलतः प्रियाक्लमम् । आचचाम सलवङ्गकेसरश्चाटुकार इव दक्षिणानिलः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तस्येति । जातु कदाचिद् धूतचन्दनलतः कम्पितपटीरशाखः । `समे शखालते` इत्यमरः । सह लवङ्गस्य केसरैः सलवङ्गकेसरः । `लवङ्गदेवकुसुमम्` इत्यमरः । विशेषणाभ्यां शैत्यसौरभ्ये दर्शिते । दक्षिणानिलो मलयमारुतः । चाटुकारश्चाटुप्रयोगः । प्रियवाद इति यावत् । भावे घञ् । स इव मलयस्थलीषु मलयाचलप्रदेशेषु रतिः सुरतं यस्य तथोक्तस्य तत्र रममाणस्येत्यर्थः । तस्य शिवस्य प्रियाक्लमं प्रियायाः सुरतश्रममाचचाम जहार । यथा लोके महानपि श्रम एकेन प्रियवादेनापैति तद्वद्दक्षिणमारुतेनाप्यस्य सकलोऽपि सुरतक्लमो हृत इत्यर्थः
अन्वयः: जातु धूतचन्दनलतः सलवङ्गकेसरः दक्षिणाऽनिलः चाटुकार इव मलयस्थलीरतेः तस्य प्रियाक्लमम् आचचाम ।

Verse 26
हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा । खे व्यगाहत तरङ्गिणीमुमा मीनपङ्क्तिपुनरुक्तमेखला ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): हेमेति । उमा गौरी हेमतामरसेन कनककमलेन ताडितः प्रियो यया तेनोत्थितस्य प्रियस्य कराम्बुना कराक्षिप्ताम्भसा विनिमीलितेक्षणा मुकुलिताक्षी । मीनपङ्क्त्या पुनरुक्ता द्विगुणिता मेखला यस्याः सा तथाभूता सती खे तरङ्गिणीं व्यगाहत । तत्र तत्र जलक्रीडामकरोदित्यर्थः
अन्वयः: उमा हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा मीनपङ्क्तिपुनरुक्तमेखला खे तरङ्गिणीं व्यगाहत ।

Verse 27
तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन् । नन्दने चिरमयुग्मलोचनः सस्पृहं सुरवधूभिरीक्षितः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तामिति । अयुग्मानि लोचनानि यस्य सोऽयुग्मलोचनस्त्र्यम्बकः । युग्मशब्दो विशेष्यनिध्नोऽप्यास्ते `तस्मिन्युग्मासु संविशेत्` `युग्मान्दैवे यथा शक्ति पित्र्येऽयुग्मांस्तथैव च` । इत्यादिप्रयोगदर्शनात् । नन्दने नन्दनोद्याने पुलोमतनया शची । `पुलोम्नस्तु शची सुता` इति हरिवंशे । तस्या अलकानामुचितैः पारिजातकुसुमैस्तां प्रसाधयन्नलंकुर्वंश्चिरं सुरवधूभिः सस्पृहमीक्षितः । केन वा पुण्येनायं लभ्यत इति साभिलाषदृष्ट इत्यर्थः । अत्र देवस्यानुकूलनायकत्वं देव्याः स्वाधीनपतिकात्वं चावसेयम्
अन्वयः: अयुग्मलोचनः नन्दने पुलोमतनयाऽलकोचितैः पारिजातकुसुमैः तां प्रसाधयन् सुरवधूभिः सस्पृहम् चिरम् ईक्षितः ।

Verse 28
इत्यभौममनुभूय शङ्करः पार्थिवं च दयितासखः सुखम् । लोहितायति कदाचिदातपे गन्धमादनगिरिं व्यगाहत ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): इतीति । इतीत्थं शंकरो वनितासखः सन् भूमौ भवं भौमम् न भौममभौमं दिव्यं, पृथिव्यां भवं पार्थिवं च सुखमनुभूय कदाचिदातपे लोहितायति लोहितवर्णे भवति । अस्तंगते सवितरीत्यर्थः । `लोहितादिडाज्भ्यः क्यष्` (पा.3|1|13) इति क्यष्प्रत्ययः । गन्धमादनगिरिं व्यगाहत । पर्वतमुद्दिश्य इत्यर्थः । उद्देशक्रियां प्रति गिरेः कर्मत्वम् । यथाह भाष्यकारः
अन्वयः: इति शङ्करः वनितासखः (सन्) अभौमं पार्थिवं च सुखम् अनुभूय कदाचित् आतपे लोहितायति (सति) गन्धमादनवनं व्यगाहत ।

Verse 29
तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यमवलोक्य भास्करम् । दक्षिणेतरभुजव्यपाश्रयां व्याजहार सहधर्मचारिणीम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति । तत्र गन्धमादने काञ्चनविकारः काञ्चनं सौवर्णं तच्च तच्छिलातलं तदाश्रयो यस्य स भगवान्नेत्रगम्यं सायंतनम् अर्थाद्दर्शनयोग्यम् । भास्करं सूर्यम् । `दिवाविभानिशाप्रभाभास्करान्तानन्तादीo` त्यादिना टप्रत्ययः । अवलोक्य दक्षिणेतरभुजः सव्यबाहुर्व्यपाश्रयो यस्यास्ताम् । निजवामभुजमवष्टभ्योपबिष्टामित्यर्थः । सह धर्म चरतीति सहधर्मचारिणीं पत्नीं व्याजहार जगाद्
अन्वयः: तत्र काञ्चनशिलातलाश्रयः (सः) नेत्रगम्यं भास्करम् अवलोक्य दक्षिणेतरभुजव्यपाश्रयां सहधर्मचारिणीं व्याजहार ।

Verse 30
पद्मकान्तिमरुणत्रिभागयोः संक्रमय्य तव नेत्रयोरिव । संक्षये जगदिव प्रजेश्वरः संहरत्यहरसावहर्पतिः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): पद्मकान्तिमिति । असावह्नां पतिरहर्पतिः सूर्यः । `अहरादीनां पत्यादिषूपसङ्ख्यानम्` इति रेफदिशः । पद्मकान्तिं पद्मशोभाम् । तृतीयो भागस्त्रिभागः । वृत्तिविषये पूरणार्थत्वं सङ्ख्याया इत्युक्तम् । अरुणस्त्रिभागो ययोस्तयोः । अरुणोपान्तयोरिति भाग्यलक्षणोक्तिः । तव नेत्रयोः सक्रमय्येव । तदानीं पद्मानामविकासान्नेत्रयोस्तु विकासाच्चेयमुत्प्रेक्षा । प्रलयकाले प्रजेश्वरः प्रजापतिर्जगदिवाहर्दिवसं संहरति । अस्तं गच्छतीत्यर्थः
अन्वयः: (हे प्रिये !) असौ अहर्पतिः पद्मकान्तिम् अरुणत्रिभागयोः तव नेत्रयोः संक्रमय्य इव संक्षये प्रजेश्वरो जगत् इव अहः संहरति ।