सोऽनुमान्य हिमवन्तमात्मभूरात्मजाविरहदुःखखेदितम् । तत्र तत्र विजहार संपतन्नप्रमेयगतिना ककुद्मता ॥
Metre: रथोद्धता
मेरुमेत्य मरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतान्कृती । हेमपल्लवविभङ्गसंस्तरानन्वभूत्सुरतमर्दनक्षमान् ॥
Metre: रथोद्धता
पद्मनाभचरणाङ्किताश्मसु प्राप्तवत्स्वमृतविप्रुषो नवाः । मन्दरस्य कटकेषु चावसत्पार्वतीवदनपद्मषट्पदः ॥
Metre: रथोद्धता
वारणध्वनितभीतया तया कण्ठसक्तघनबाहुबन्धनः । एकपिङ्गलगिरौ जगद्गुरुर्निर्विवेश विशदाः शशिप्रभाः ॥
Metre: रथोद्धता
तस्य जातु मलयस्थलीरते धूतचन्दनलतः प्रियाक्लमम् । आचचाम सलवङ्गकेसरश्चाटुकार इव दक्षिणानिलः ॥
Metre: रथोद्धता
हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा । खे व्यगाहत तरङ्गिणीमुमा मीनपङ्क्तिपुनरुक्तमेखला ॥
Metre: रथोद्धता
तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन् । नन्दने चिरमयुग्मलोचनः सस्पृहं सुरवधूभिरीक्षितः ॥
Metre: रथोद्धता
इत्यभौममनुभूय शङ्करः पार्थिवं च दयितासखः सुखम् । लोहितायति कदाचिदातपे गन्धमादनगिरिं व्यगाहत ॥
Metre: रथोद्धता
तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यमवलोक्य भास्करम् । दक्षिणेतरभुजव्यपाश्रयां व्याजहार सहधर्मचारिणीम् ॥
Metre: रथोद्धता
पद्मकान्तिमरुणत्रिभागयोः संक्रमय्य तव नेत्रयोरिव । संक्षये जगदिव प्रजेश्वरः संहरत्यहरसावहर्पतिः ॥
Metre: रथोद्धता