कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 31 to 40 of 91 verses
Verse 31
सीकरव्यतिकरं मरीचिभिर्दूरयत्यवनते विवस्वति । इन्द्रचापपरिवेषशून्यतां निर्झरास्तव पितुर्व्रजन्त्यमी ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): सीकरेति । विवस्तेजोऽस्यास्तीति विवस्वांस्तस्मिन्विवस्वति सूर्ये मरीचिभिः । सहार्थविवक्षायां तृतीयात एव विनापि सहशब्देन तृतीया । सीकरव्यतिकरं पयःकिरणसंपर्कं दूरयति दूरीकुर्वति सति । हे अवनते पार्वति ! अमी तव पितुर्भवत्पितुर्हिमवतो निर्झराः प्रवाहाः । `प्रवाहो निर्झरो झरः` इत्यमरः (अ.को.2|3|5) । इन्द्रचापं नानावर्णप्रभासमूहस्तस्य परिवेषेण परिवेष्टनेन शून्यतां व्रजन्ति । अर्ककिरणसंपर्ककृतत्वादैन्द्रचापस्य तन्निवृत्त्या निवृत्तिरित्यर्थः
अन्वयः: विवस्वति मरीचिभिः सीकरव्यतिकरं दूरयति (सति) हे अवनते ! अमी तव पितुः निर्झराः इन्द्रचापपरिवेषशून्यतां व्रजन्ति ।

Verse 32
दष्टतामरसकेसरस्रजोः क्रन्दतोर्विपरिवृत्तकण्ठयोः । निघ्नयोः सरसि चक्रवाकयोरल्पमन्तरमनल्पतां गतम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): दष्टेति । दष्टमर्धजग्धं तामरसकेसरं पद्मकिञ्जल्कम् । मुखद्वयेनैकमिति भावः । तत्त्यजत इति तथोक्तयोः क्रन्दतोः कूजतोर्विपरिवृत्तकण्ठयोः । परस्परालोकनार्थं वक्रीकृतग्रीवयोरित्यर्थः । निघ्नयोर्दैवाधीनयोः । `अधीनो निघ्न अयत्त` इत्यमरः । चक्रवाकी च चक्रवाकश्च तयोः `पुमान्स्त्रिया` इत्येकशेषः । सरस्यल्पमन्तरं व्यवधानमनल्पतामाधिक्यं गतम् । सरसि वियुज्यमानयोर्महद् व्यवधानमभूदित्यर्थः
अन्वयः: दष्टतामरसकेसरस्त्रजोः क्रन्दतोः विपरिवृत्तकण्ठयोः निघ्नयोः चक्रवाकयोः सरसि अल्पम् अन्तरम् अनल्पतां गतम् ।

Verse 33
स्थानमाह्निकमपास्य दन्तिनः सल्लकीविटपभङ्गवासितम् । आविभातचरणाय गृह्णाते वारि वारिरुहबद्धषट्पदम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स्थानमिति । दन्तिनो गजाः अह्नि भवमाह्निकम् `कालाट्ठञ्` (पा.4|3|11) स्थानमपास्य विहाय सल्लकी गजप्रिया काचिल्लता । `सल्लकी स्याद्गजप्रिया` इति हलायुधः । तस्या विटपभङ्गैः पल्लवखण्डैर्वासितं सुरभितं वारिरुहेषु बद्धाः संगताः षट्पदा यस्मिंस्तद्वारि जलमाविभातं प्रभातमारभ्य यच्चरणं तस्मै । तत्पर्याप्तमित्यर्थः । गृह्णत उपाददते । गजा हि भुक्तिपर्याप्तजलं सकृदेव सायं पिबन्तीति प्रसिद्धम्
अन्वयः: दन्तिनः आह्निकं स्थानम् अपास्य सल्लकीविटपभङ्ग वासितं वारिरुहबद्धषट्पदं वारि आविभातचरणाय गृह्णाते ।

Verse 34
पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे विवस्वता । दीर्घया प्रतिमया सरोऽम्भसां तापनीयमिव सेतुबन्धनम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): पश्येति । हे मितकथे, हे मितभाषिणि ! एतेन स्वस्य तत्संलापने लौल्यं सूचयति । पश्चिमदिगन्तलम्बित्वादायतया प्रतिमया निजप्रतिबिम्बेन । `प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया । प्रतिकतिरर्चा पुंसि प्रतिनिधिरूपमोपमानं स्यात् ।` इत्यमरः (अ.को.2|9|94) । सरोम्भसां तपनीयविकारस्तापनीयं हिरण्मयम् । `तपनीयं शातकुम्भम्` इत्यमरः (अ.को.2|9|94) । सेतुबन्धननिमित्तम् । इवेत्युत्प्रेक्षा । अस्तमयसमये सरः पारावारिणामरुणमायतमर्कप्रतिबिम्बं हिरण्मयसेतुरिव दृश्यत इत्यर्थः । पश्येति वाक्यार्थः कर्म
अन्वयः: हे मितकथे ! पश्चिमदिगन्तलम्बिना विवस्वता दीर्घया प्रतिमया सरोऽम्भसां तापनीयं सेतुबन्धनम् इव निर्मितम् । पश्य ।

Verse 35
उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्क्तमतिवाहितातपाः । दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरबिसाङ्कुरा इव ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): उत्तरन्तीति । दंष्ट्रिणो दंष्ट्रावन्तः । व्रीह्यादित्वादिनिः । अतएव दष्टा भङ्गुराः कुटिला बिसाङ्कुरा मृणालाङ्कुरा यैस्ते त इव स्थिता वनवराहाणां यूथपाः । `यूथनाथस्तु यूथपः` इत्यमरः (अ.को.2|8|35) । गाढपङ्कमतिपङ्किलं पल्वलमल्पसरः । `वेशन्तः पल्वलं चाल्पसरः` इत्यमरः (अ.को.2|8|35) । विनिकीर्य विक्षिप्यातिवाहितातपा उत्तरन्ति पल्वलान्निर्गच्छन्ति
अन्वयः: दंष्ट्रिणो दष्टभङ्गुरविसाङ्कुरा वनवराहयूथपा गाढपङ्कं पल्वलं विनिकीर्य अतिवाहितातपाः (सन्तः) उत्तरन्ति ।

Verse 36
एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डलः । हीयमानमहरत्ययातपं पीवरोरु पिबतीव बर्हिणः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): एष इति । हे पीवरोरु, एष वृक्षशिखरे वृक्षाग्रे कृतस्थितिजातरूपरसगौरमण्डल आतपरुषणात्काञ्चनद्रवदरुणवर्हमण्‍लः । `चामीकरं जातरुपं महारजतकाञ्चने` इत्यमरः । बर्हमस्यास्तीति बर्हिणो मयूरः । `फलबर्हाभ्यामिनज्वक्तव्यः` हीयमानं क्षीयमाणमहरत्ययातपं दिनान्तातपं पिबतीव । कथमन्यथा क्षीयमाणत्वमिति भावः
अन्वयः: हे पीवरोरु ! एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डलो बर्हिणो हीयमानम् अहरत्ययाऽऽतपं पिबति इव ।

Verse 37
पूर्वभागतिमिरप्रवृत्तिभिर्व्यक्तपङ्कमिव जातमेकतः । खं हृतातपजलं विवस्वता भाति किञ्चिदिव शेषवत्सरः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): पूर्वभागेति । पूर्वभागे प्राचीमूले तिमिरप्रवृत्तिभिर्ध्वान्तप्रसरैरेकतो व्यक्तपङ्कं स्फुटपङ्कमिव जातं तथा विवस्वता हृतमातप एव जलं यस्य तत्तथोक्तं खमाकाशं किंचिदीषच्छेषोस्यास्तीति शेषवच्छुष्कं सर इव भाति
अन्वयः: पूर्वभागतिमिरप्रवृत्तिभिः एकतो व्यक्तपङ्कम् इव जातं विवस्वता हृताऽतपजलं खं किञ्चित् शेषवत् सर इव भाति ।

Verse 38
आविशद्भिरुटजाङ्गणं मृगैर्मूलसेकसरसैश्च वृक्षकैः । आश्रमाः प्रविशदग्निधेनवो बिभ्रति श्रियमुदीरिताग्नयः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): आविशद्भिरिति । उटजाङ्गणं पर्णशालाङ्गणमाविशद्भिः । प्रविशद्भिरित्यर्थः । `पर्णशालोटजोऽस्त्रियाम्` इत्यमरः (अ.को.2|2|6) । `उपान्वध्याङ्वस` इति कर्मत्वम् । मृगैः । तथामूलानां सेकेन सेचनेन सरसैः सद्रवैर्वृक्षकैश्चोपलक्षिताः । अल्पार्थे कप्रत्ययः । प्रविशन्त्यो वनादागच्छन्त्योऽग्निहोत्रार्थां धेनवः उदीरिताग्नयश्चाश्रमाः श्रियं बिभ्रति
अन्वयः: उटजाऽङ्गणम् आविशद्भिः मृगैः मूलसेकसरसैः वृक्षकैः प्रविशदग्निधेनवः उदीरिताऽग्नयः आश्रमाः श्रियं बिभ्रति ।

Verse 39
बद्धकोशमपि तिष्ठति क्षणं सावशेषविवरं कुशेशयम् । षट्पदाय वसतिं ग्रहीष्यते प्रीतिपूर्वमिव दातुमन्तरम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): बद्धकोशमिति । बद्धकोशमपि । मुकुलितमपीत्यर्थः । कुशेशयं कर्तृ । `शतपत्रं कुशेशयम्` इत्यमरः (अ.को.1|10|40) । वसतिं ग्रहीष्यते । स्थितिं करिष्यत इत्यर्थः । `लृटः सद्वा` इति शतृप्रत्ययः । षट्पदाय प्रीतिपूर्वमन्तरमवकाशं दातुमिव क्षणं सावशेषविवरं तिष्ठति
अन्वयः: बद्धकोशम् अपि कुशेशयं वसतिं ग्रहीष्यते षट्पदाय प्रीतिपूर्वम् अन्तरं दातुम् इव क्षणं साऽवशेषं विवरं तिष्ठति ।

Verse 40
दूरमग्रपरिमेयरश्मिना वारुणी दिगरुणेन भानुना । भाति केसरवतेव मण्डिता बन्धुजीवतिलकेन कन्यका ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): दूरलग्नेति । वारुणी दिक्प्रतीची दूरं लग्ना अत एव परिमेया अल्पावशिष्टा रश्मयः यस्य तथोक्तेनारुणेन लोहितवर्णेन केसरवता किञ्जल्कवता बन्धुजीवं बन्धुजीवककुसुमम् । `बन्धूको बन्धुजीवकः` इत्यमरः (अ.को.2|4|73) । तदेव तिलकं तेन मण्डिता कन्यकेव भाति
अन्वयः: वारुणी दिक् दूरलग्नपरिमेयरश्मिना अरुणेन केसरवता बन्धुजीवतिलकेन मण्‍डिता कन्यका इव भाति ।