सामभिः सहचराः सहस्रशः स्यन्दनाश्वहृदयङ्गमस्वरैः । भानुमग्निपरिकीर्णतेजसं संस्तुवन्ति किरणोष्मपायिनः ॥
Metre: रथोद्धता
सोऽयमानतशिरोधरैर्हयैः कर्णचामरविघट्टितेक्षणैः । अस्तमेति युगभुग्नकेसरैः संनिधाय दिवसं महोदधौ ॥
Metre: रथोद्धता
खं प्रसुप्तमिव संस्थिते रवौ तेजसो महत ईदृशी गतिः । तत्प्रकाशयति यावदुद्गतं मीलनाय खलु तावतश्च्युतम् ॥
Metre: रथोद्धता
संध्ययाप्यनुगतं रवेर्वपुर्वन्द्यमस्तशिखरे समर्पितम् । येन पूर्वमुदये पुरस्कृता नानुयास्यति कथं तमापदि ॥
Metre: रथोद्धता
रक्तपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि भान्त्यमूः । द्रक्ष्यसि त्वमिति संध्ययानया वर्तिकाभिरिव साधुमण्डिताः ॥
Metre: रथोद्धता
सिंहकेसरसटासु भूभृतां पल्लवप्रसविषु द्रुमेषु च । पश्य धातुशिखरेषु भानुना संविभक्तमिव सांध्यमातपम् ॥
Metre: रथोद्धता
अद्रिराजतनये तपस्विनः पावनाम्बुविहिताञ्जलिक्रियाः । ब्रह्म गूढमभिसंध्यमादृताः शुद्धये विधिविदो गृणन्त्यमी ॥
Metre: रथोद्धता
तन्मुहूर्त्तमनुमन्तुमर्हसि प्रस्तुताय नियमाय मामपि । त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि विनोदयिष्यति ॥
Metre: रथोद्धता
निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा । शैलराजतनया समीपगामाललाप विजयामहेतुकम् ॥
Metre: रथोद्धता
ईश्वरोऽपि दिवसात्ययोचितं मन्त्रपूर्वमनुतस्थिवान्विधिम् । पार्वतीमवचनामसूयया प्रत्युपेत्य पुनराह सस्मितम् ॥
Metre: रथोद्धता