कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 41 to 50 of 91 verses
Verse 41
सामभिः सहचराः सहस्रशः स्यन्दनाश्वहृदयङ्गमस्वरैः । भानुमग्निपरिकीर्णतेजसं संस्तुवन्ति किरणोष्मपायिनः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): सामभिरिति । किरणोष्मपायिनः किरणोष्माणं पिबन्तीति तथोक्ताः । तथाहारा इत्यर्थः । चरन्तीति चराः । पचाद्यच् । सहभूताश्चराः सहचरा बालखिल्यप्रभृतयो महर्षयोऽग्नौ परिकीर्ण तेजोस्य तत्तथोक्तम् ।[अग्निर्वादित्यः सायं प्रसवति] इति श्रुतेः । भानुम् । हृदयं गच्छन्तीति हृदयंगमा मनोरमाः । गमेः सुपीति वक्तव्यात्खच् । स्यन्दनाश्वानां हृदयंगमाः स्वना येषां तैः सामभिः सामवेदैः सहस्रशः संस्तुवन्ति । [सामवेदेनास्तमये गीयते] इति श्रुतेः
अन्वयः: किरणोष्मपायिनः सहस्त्रशः सहचराः अग्निपरिकीर्णतेजसं भानुं स्यन्दनाऽश्वहृदङ्गमस्वनैः सामभिः सहस्त्रशः संस्तुवन्ति ।

Verse 42
सोऽयमानतशिरोधरैर्हयैः कर्णचामरविघट्टितेक्षणैः । अस्तमेति युगभुग्नकेसरैः संनिधाय दिवसं महोदधौ ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): स इति । सोऽयं भानुर्दिवसं महोदधौ संनिधाय निधायेत्यर्थः दिवसस्यादर्शनादियमुत्प्रेक्षा । आनतशिरोधरैर्गगनावतरणान्नम्रकन्धरैरतएव कर्णचामरविघट्टितेक्षणैर्युगभुग्नकेसरैः कुटिलितस्कन्धरोमभिर्हयैरस्तमेति । `अस्तस्तु चरमक्षमाभृत्` इत्यमरः
अन्वयः: सः अयं दिवसं महोदधौ सन्निधाय आनतशिरोधरैः कर्णचामरविघट्टितेक्षणैः युगभुग्नकेसरैः हयैः अस्तम् एति ।

Verse 43
खं प्रसुप्तमिव संस्थिते रवौ तेजसो महत ईदृशी गतिः । तत्प्रकाशयति यावदुद्गतं मीलनाय खलु तावतश्च्युतम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): खमिति । रवौ संस्थितेऽस्तमिते सति खं व्योम प्रसुप्तमिव निःप्रकाशत्वान्निद्रितमिव । स्थितमित्यर्थः । युज्यते चैतदित्याह । महतस्तेजस ईदृशी वक्ष्यमाणप्रकारा गतिः । स्वभाव इत्यर्थः । तां गतिमेवाह तदिति । तन्महत्तेज उत्थितं सद्यावत् । स्थानमिति शेषः । प्रकाशयति । तावताधश्च्युतं सत् । तत्स्थानादिति शेषः । मीलनाय संकोचाय खलु भवति । यत्र स्थाने तेजस्तिष्ठति तत्प्रकाशत इति स्थितिः । यतो गच्छति न तत्प्रकाशते । अतः सूर्यापाये खं प्रसुप्तमिवेति युक्तोत्प्रेक्षेति भावः । अस्यार्थस्य तेजोमात्रसाधारण्येऽपि महति स्फुटमिति महद्ग्रहणं कृतम्
अन्वयः: रवौ संस्थिते खं प्रसुप्तम् इव, (स्थितम्) महतः तेजस ईदृशी गतिः । तत् उद्गतं (सत्) यावत् प्रकाशयति च्युतं (सत्) तावतः मीलनाय (भवति) खलु ।

Verse 44
संध्ययाप्यनुगतं रवेर्वपुर्वन्द्यमस्तशिखरे समर्पितम् । येन पूर्वमुदये पुरस्कृता नानुयास्यति कथं तमापदि ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): संध्ययेति । संध्ययाप्यस्तशिखरेऽस्ताद्रिशृङ्गे समर्पितं निहितं वन्द्यं रवेर्वपुरनुगतमन्वगामि । असंयुतं रविमन्वगादिति भावः । युक्तं चैतदित्याह-प्राक्पूर्वमुदये तथा तेन प्रकारेण पुरस्कृताग्रतः कृता । पूजिता चेति गम्यते । प्रातः सूर्योदयात्प्रागेव संध्यागम इति हि प्रसिद्धम् । इयं संध्या तं रविमापद्यस्तसमये कथं नानुयास्यति । अनुयास्यत्येवेत्यर्थः संपदसंपदोस्तुल्यरूपमेव साधूनामिति भावः
अन्वयः: सन्ध्यया अपि अस्तशिखरे समर्पितं वन्द्यं रवेः वपुः अनुगतम् । प्राक् उदये तथा पुरस्कृता (इयम्) तम् आपदि कथं न अनुयास्यति ?

Verse 45
रक्तपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि भान्त्यमूः । द्रक्ष्यसि त्वमिति संध्ययानया वर्तिकाभिरिव साधुमण्डिताः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): रक्तेति । हे कुटिलकोशे ! `स्वाङ्गाच्चोपसर्जनादंसयोगोपधात्` इति ङीप् । अमूः पुरोगताः रक्ताः पीताः कपिशाश्च रक्तपीतकपिशाः । नानावर्णा इत्यर्थः । चार्थे द्वन्द्वः । न तु `वर्णो वर्णेन` (पा.2|1|69) इति तत्पुरुषः सामानाधिकरण्याभावात् । पयोमुचां कोटयोऽश्रयः । `स्यात्कोटिरश्वा चापाग्रे संख्याभेदप्रकर्षयोः` । इति विश्वः । त्वं द्रक्ष्यसीति हेतोरनया । सांध्यवेलया । संध्ययेत्यर्थः । `संधिवेलया` इति क्वचित्पाठः । वर्तिकाभिश्चित्रशलाकाभिः साधुवर्तिता उत्पादिताश्च भान्ति
अन्वयः: हे कुटिलकेशि ! अमूः रक्त-पीतकपिशाः पयोमुचां कोटयः भान्ति त्वं द्रक्ष्यसि इति सान्ध्यवेलया वर्तिकाभिः साधु वर्तिताः इव ।

Verse 46
सिंहकेसरसटासु भूभृतां पल्लवप्रसविषु द्रुमेषु च । पश्य धातुशिखरेषु भानुना संविभक्तमिव सांध्यमातपम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): सिंहेति । सिंहानां केसराणि स्कन्धरोमाणि तान्येव सटा जटास्तासु । `सटा जटा केसरयोः` इति विश्वः । अथवा सटाशब्देन समूहो लक्ष्यतेऽन्यथा पौनरुक्त्यात् । पल्लवप्रसविषु पल्लवप्रसवयुक्तेषु द्रुमेषु तथा धातुशिखरेषु च भूभृतास्ताद्रिणात्मना स्वयमेव सविभक्तमिव स्थितं संध्यायां भवं सांध्यमातपं यस्य तथा पश्य । आरुण्यमरुणद्रव्येषु भूयिष्ठमुपलभ्यत इति भावः
अन्वयः: सिंहकेसरसटासु पल्लवप्रसविषु धातुशिखरेषु च भूभृता आत्मना संविभक्तम् इव सान्ध्यम् आतपं पश्य ।

Verse 47
अद्रिराजतनये तपस्विनः पावनाम्बुविहिताञ्जलिक्रियाः । ब्रह्म गूढमभिसंध्यमादृताः शुद्धये विधिविदो गृणन्त्यमी ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): पार्ष्णीति । पार्ष्णयो गृल्फाधोभागास्तैर्मुक्तवसुधास्त्यक्तभूतलाः । पादाग्रस्थिता इत्यर्थः । `गोशृङ्गमात्रमुद्धृत्य मुक्तपार्ष्णः क्षिपेज्जलम्` । इति स्मरणात् । पावनैरम्बुभी रचिताऽञ्जलिक्रियाः । विहितार्घ्यप्रक्षेपा इत्यर्थः । विधिविदः । शास्त्रज्ञा इत्यर्थः । अमी तपस्विन आदरवन्तः । श्रद्दधाना इत्यर्थः । कर्तरि क्तः । अभिसंध्य संध्यामभि । `लक्षणेनाभिप्रतीं आभिमुख्ये` इत्यव्ययीभावः । शुद्ध्यर्थं ब्रह्म गायत्रीं गूढमुपांशु गृणन्ति । `प्रत्यगा तारकोदयात्` इति स्मरणात्
अन्वयः: पार्ष्णिमुक्तः वसुधाः पावनाऽम्बुविहिताञ्जलिक्रियाः अमी तपस्विनः आदृताः (सन्तः) अभिसन्ध्यं शुद्धये ब्रह्म गूढं गृणन्ति ।

Verse 48
तन्मुहूर्त्तमनुमन्तुमर्हसि प्रस्तुताय नियमाय मामपि । त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि विनोदयिष्यति ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तदिति । तत्तस्मात्कारणान्मामपि प्रस्तुताय नियमाय प्रकृतसंध्याविधये मुहूर्तमनुमन्तुमर्हसि । हे वल्गुवादिनि मञ्जुभाषिणि ! विनोदनिपुणः कालाक्षेपचतुरः सुखीजनस्त्वां विनोदयिष्यति । विनोदशब्दात्तत्करोतीति णिच्
अन्वयः: तत् हे वल्गुवादिनि ! माम् अपि प्रस्तुताय नियमाय मुहूर्तम् अनुमन्तुम् अर्हसि । विनोदनिपुणः सखीजनः त्वां विनोदयिष्यति ।

Verse 49
निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा । शैलराजतनया समीपगामाललाप विजयामहेतुकम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): निर्विभुज्येति । ततो भर्तुर्वाचि वचनेऽवधीरणापरा तिरस्कारतत्परा शैलराजतनया पार्वती । छाद्यतेऽनेनेति छदः `पुंसि संज्ञायां घः प्रायेण` (पा.3|3|118) इति घप्रत्ययः । दशनच्छदं निर्विभुज्य कुटिलीकृत्य समीपगां विजयां विजयाख्यां सखीमहेतुकं निर्निमित्तमाललाप । न तु रोषाद्भर्त्तुरुत्तरं ददावित्यर्थः
अन्वयः: ततः भर्तुः वाचि अवधीरणापरा शैलराजतनया दशनच्छदं निर्विभुज्य समीपगां विजयाम् अहेतुकम् आललाप ।

Verse 50
ईश्वरोऽपि दिवसात्ययोचितं मन्त्रपूर्वमनुतस्थिवान्विधिम् । पार्वतीमवचनामसूयया प्रत्युपेत्य पुनराह सस्मितम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): ईश्वर इति । ईश्वरोऽपि दिवसात्ययोचितं सायंकालोचितं विधिं संध्यावन्दनकृत्यं मन्त्रपूर्वमनुतस्थिवाननुष्ठितवान् । तिष्ठतेः क्वसुप्रत्ययः । असूयया संध्यावन्दनजनितासूययाऽवचनामभाषमाणां पार्वतीं पुनः प्रत्युपेत्य सस्मितमाह
अन्वयः: ईश्वरोऽपि दिवसाऽत्ययोचितं विधिं मन्त्रपूर्वम् अनुतस्थिवान् । असूयया अवचनां पार्वतीं पुनः प्रत्युपेत्य सस्मितम् आह ।

Showing 41 to 50 of 91 verses