उपाददे तस्य सहस्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् । स तद्दुकूलादविदूरमौलिर्बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥
Metre: उपजातिः
मूर्ते च गङ्गायमुने तदानीं सचामरे देवमसेविषाताम् । समुद्रगारूपविपर्ययेऽपि सहंसपाते इव लक्ष्यमाणे ॥
Metre: उपजातिः
तमन्वगच्छत्प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश्च साक्षात् । जयेति वाचा महिमानमस्य संवर्धयन्त्या हविषेव वह्निम् ॥
Metre: उपजातिः
एकैव मूर्तिर्बिभिदे त्रिधा सा सामान्यमेषां प्रथमावरत्वम् । विष्णोर्हरस्तस्य हरिः कदाचिद्वेधास्तयोस्तावपि धातुराद्यौ ॥
Metre: इन्द्रवज्रा
तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः । दृष्टिप्रदाने कृतनन्दिसंज्ञास्तद्दर्शिताः प्राञ्जलयः प्रणेमुः ॥
Metre: इन्द्रवज्रा
कम्पेन मूर्ध्नः शतपत्रयोनिं वाचा हरिं वृत्रहणं स्मितेन । आलोकमात्रेण सुरानशेषान्संभावयामास यथाप्रधानम् ॥
Metre: इन्द्रवज्रा
तस्मै जयाशीः ससृजे पुरस्तात्सप्तर्षिभिस्तान्स्मितपूर्वमाह । विवाहयज्ञे विततेऽत्र यूयमध्वर्यवः पूर्ववृता मयेति ॥
Metre: उपजातिः
विश्वावसुप्राग्रहरैः प्रवीणैः संगीयमानत्रिपुरावदानः । अध्वानमध्वान्तविकारलङ्घ्यस्ततार ताराधिपखण्डधारी ॥
Metre: उपजातिः
खे खेलगामी तमुवाह वाहः सशब्दचामीकरकिङ्किणीकः । तटाभिघातादिव लग्नपङ्के धुन्वन्मुहुः प्रोतघने विषाणे ॥
Metre: उपजातिः
स प्रापदप्राप्तपराभियोगं नगेन्द्रगुप्तं नगरं मुहूर्तात् । पुरो विलग्नैर्हरदृष्टिपातैः सुवर्णसूत्रैरिव कृष्यमाणः ॥
Metre: उपजातिः