कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 41 to 50 of 95 verses
Verse 41
उपाददे तस्य सहस्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् । स तद्दुकूलादविदूरमौलिर्बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): उपादद इति । तस्य हरस्य सहस्ररश्मिः सूर्यस्त्वष्ट्रा विश्वकर्मणा निर्मितं नवमातपत्रमुपाददे । धृतवानित्यर्थः । उत्प्रेक्षते- तद्दुकूलात्तस्यातपत्रस्य प्रान्तलम्बिनो दुकूलादविदूरमौलिः । तद्दुकूलस्यासन्नमौलिरित्यर्थः । स हर उत्तमाङ्गे शिरसि । `उत्तमाङ्गं शिरः शीर्षम्` इत्यमरः (अ.को.2|6|96) । पतन्ती गङ्गा यस्य स पतद्गङ्ग इव बभौ । तद्दुकूलादित्यत्र `दूरान्तिकार्थैः षष्ट्यन्यतरस्याम्` इति दूरार्थयोगे विकल्पेन पञ्चमी । नाथेनोक्तम् `अन्यारात्-` इत्यत्राराच्छब्दस्यार्थग्रहणार्थत्वात् पञ्चमीति तदनाकरम् । किंचास्य शास्त्रोक्तविकल्पापवादत्वात् `दूरं ग्रामस्य` इत्यादि षष्ठीप्रयोगो दूरापास्तः स्यादित्युपेक्षणीयमेव
अन्वयः: तस्य सहस्त्ररश्मिः त्वष्ट्रा निर्मितं नवम् आतपत्रम् उपाददे । तद्दुकूलात् अविदूरमौलिः स उत्तमाऽङ्गे पतद्गङ्ग इव बभौ ।

Verse 42
मूर्ते च गङ्गायमुने तदानीं सचामरे देवमसेविषाताम् । समुद्रगारूपविपर्ययेऽपि सहंसपाते इव लक्ष्यमाणे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): मूर्ते इति । गङ्गा च यमुना च गङ्गायमुने मूर्ते विग्रहधारिण्यौ सचामरे चामरसहिते सत्यौ । अत एव समुद्रगा नदी तस्या रुपं स्वरुपं तस्य विपर्ययेऽप्यभावेऽपि सह हंसपातेन हंसचारेण वर्तेत इति सहंसपाते इव `तेन सहेति तुल्ययोगे` (पा.2|2|28) इति बहुव्रीहिः । `वोपसर्जनस्य` (पा.6|3|82) इति सभावः । लक्ष्यमाणे दृश्यमाने सत्यौ तदानीं विवाहसमये देवमसेविषातामभजताम् । सेवतेर्लङ् । गङ्गायमुने चामरग्राहिण्यौ देवमुपतस्थतुरित्यर्थः
अन्वयः: तदानीं मूर्ते गङ्गायमुने सचामरे समुद्रगारूपविपर्ययेऽपि सहंसपाते इव लक्ष्यमाणे (सत्यौ) देवम् असेविषाताम् ।

Verse 43
तमन्वगच्छत्प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश्च साक्षात् । जयेति वाचा महिमानमस्य संवर्धयन्त्या हविषेव वह्निम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तमिति । प्रथम आद्यो विधाता चतुर्मुखस्तथा श्रीवत्सलक्ष्मा श्रीवत्साङ्कः पुरुषो विष्णुश्च साक्षात्तं देवमभ्यगच्छत्संमुखमाययौ । किं कुर्वन्ती । जयेति वाचा जयशब्देनास्येश्वरस्य महिमानं महत्वं हविषा वह्निमिव संवर्धयन्तौ वृद्धिं गमयन्तौ
अन्वयः: प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश्च साक्षात् तम् अभ्यगच्छत्, `जय` इति वाचा अस्य महिमानं हविषा वह्निम् इव संवर्धयन्तौ तम् अभ्यगच्छत् (अभ्यगच्छताम्) ।

Verse 44
एकैव मूर्तिर्बिभिदे त्रिधा सा सामान्यमेषां प्रथमावरत्वम् । विष्णोर्हरस्तस्य हरिः कदाचिद्वेधास्तयोस्तावपि धातुराद्यौ ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): एकैवेति । सैकैव मूर्तिस्त्रिघा ब्रह्मविष्णुशिवात्मकत्वेन बिभिदे । औपाधिकोऽयं भेदो न वास्तविक इत्यर्थः । अत एवैषां त्रयाणां प्रथमावरयोर्भावः प्रथमावरत्वं ज्येष्ठकनिष्ठभावः । सामान्यं साधारणम् । इच्छया सर्वे ज्येष्ठा भवन्ति कनिष्ठाश्चेत्यर्थः । एतदेव विवृणोति-कदाचिद्धरो विष्णोराद्यः । कदाचिद्धरिस्तस्याद्यः । कदाचिद्वेधास्तथोर्हरिहरयोराद्यः । कदाचित्तौ हरिहरावपि धातुः स्त्रष्टुराद्यौ । एवमेतेषां पौर्वापर्यमनियतमिति दर्शितम्
अन्वयः: सा एका एव मूर्तिः त्रिधा बिभिदे । एषां प्रथमाऽवरत्वं सामान्यम् । कदाचित् हरः विषणोः अद्यः, कदाचित् हरिः तस्य आद्यः, कदाचित् वेधाः तयोः आद्यः, कदाचित् तौ द्वो अपि धातुः आद्यौ ।

Verse 45
तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः । दृष्टिप्रदाने कृतनन्दिसंज्ञास्तद्दर्शिताः प्राञ्जलयः प्रणेमुः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): तमिति । पुरुहूतमुख्या इन्द्रादयो लोकपालाः श्रीलक्षणानामैश्वर्यचिह्नानां छत्त्रचामरवाहनानामुत्सर्गेण त्यागेन विनीतवेषा अनुनीतवेषाः सन्तः । तथा दृष्टिप्रदाने दर्शननिमित्ते । दर्शनप्रदानार्थमित्यर्थः । कृता नन्दिनः प्रतिहारस्य संज्ञा संकेतो यैस्तादृशाः । मम दर्शनं दापयेति नन्दिनं प्रति कृतहस्तादिसूचना इत्यर्थः । `संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना` इत्यमरः (अ.को.3|3|40) । तद्दर्शितास्तेन नन्दिना दर्शिता अयमिन्द्रः प्रणमत्ययं चन्द्र इत्याद्युक्तिपूर्वकं निवेदिताः प्राञ्जलयः कृताञ्जलयः सन्तः तं भवं प्रणेमुः प्रणताः
अन्वयः: पुरुहूतमुख्या लोकपाला, श्रीलक्षणोत्सर्गविनीतवेषाः (सन्तः) द्दष्टिप्रदाने कृतनन्दिसंज्ञाः तद्दर्शिताः प्राञ्जलयः (सन्तः) प्रणेमुः ।

Verse 46
कम्पेन मूर्ध्नः शतपत्रयोनिं वाचा हरिं वृत्रहणं स्मितेन । आलोकमात्रेण सुरानशेषान्संभावयामास यथाप्रधानम् ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): कम्पेनेति । स देवः शतपत्रयोनिं चतुर्मुखं मूर्ध्नः कम्पेन, तथा हरिं वाचा संभाषणेन, वृत्रं हतवन्तं वृत्रहणमिन्द्रम् । `ब्रह्मभ्रूणवृत्रेषु क्विप्` (पा.3|2|87) इति क्विप् । स्मितेन मन्दहासेनाशेषान्सुरानालोकमात्रेण दृष्टिमात्रेणेत्थं यथाप्रधानं यथार्हं संभावयामास
अन्वयः: स शतपत्रयोनिं मूर्ध्नः कम्पेन, हरिं वाचा, वृत्रहणं स्मितेन, अशेषान् सुरान् आलोकमात्रेण यथाप्रधानं संभावयामास ।

Verse 47
तस्मै जयाशीः ससृजे पुरस्तात्सप्तर्षिभिस्तान्स्मितपूर्वमाह । विवाहयज्ञे विततेऽत्र यूयमध्वर्यवः पूर्ववृता मयेति ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्मा इति । तस्मै शिवाय सप्तर्षिभिः । `दिक्संख्ये संज्ञायाम्` (पा.2|1|50) इति समासः । पुरस्तादग्रे जयेत्याशीः ससृजे प्रयुक्ता । स तान्सप्तर्षीन्स्मितपूर्वमाह-किमिति । वितते विस्तृतेऽत्र प्रवर्तिते विवाह एव यज्ञस्तस्मिन्यूयं मया पूर्वमेव वृताः प्रार्थिता अध्वर्यवः ऋत्विज इति । विशेषवाचिना सामान्यमुक्तम्
अन्वयः: तस्मै सप्तर्षिभिः पुरस्तात् जयाशीः ससृजे । स तान् `विवते अत्र विवाहयज्ञे यूयं मया पूर्ववृता अध्वर्यवः` इति स्मितपूर्वम् आह ।

Verse 48
विश्वावसुप्राग्रहरैः प्रवीणैः संगीयमानत्रिपुरावदानः । अध्वानमध्वान्तविकारलङ्घ्यस्ततार ताराधिपखण्डधारी ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): विश्वावस्विति । विश्वावसुर्नाम कश्चिद् गन्धर्वो देवगायकस्तत्प्राग्रहरैस्तत्प्रमुखैः प्रवीणैः प्रकृष्टवीणैर्निपुणैर्वा । `प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः` इत्यमरः (अ.को.3|1|4) । त्रयाणां पुराणां समाहारस्त्रिपुरम् । `तद्धितार्थोत्तरपदे-`त्यादिना समाहारसमासः । `पात्रादिभ्यः प्रतिषेधो वक्तव्यः` इति स्त्रीलिङ्गतानिषेधः । त्रिपुरस्य संबन्ध्यवदानं पूर्ववृत्तं कर्म विजयरुपं त्रिपुरावदानं तत्संगीयमानं स्तूयमानं यस्य स तथोक्तः । `अवदानं कर्म वृत्तम्` इत्यमरः (अ.को.3|1|4) । ध्वान्तं तमः । मोह इति यावत् । तद्विकारेण रागादिना लङ्घ्योऽभिभवनीयो न भवतीत्यध्वान्तविकारलङ्घ्यः । विवाहादिकं तु तस्य लीलेत्यर्थः । ताराधिपखण्डधारी चन्द्रशेखरः शंभुरध्वानं मार्गं ततारात्यगच्छत्
अन्वयः: विश्वावसुप्राग्रहरैः प्रवीणैः संगीयमानत्रिपुराऽवदानः अध्वान्तविकारलङ्घ्यः ताराऽधिपखण्डधारी अध्वानं ततार ।

Verse 49
खे खेलगामी तमुवाह वाहः सशब्दचामीकरकिङ्किणीकः । तटाभिघातादिव लग्नपङ्के धुन्वन्मुहुः प्रोतघने विषाणे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): ख इति । ख आकाशे खेलं सुन्दरं गच्छतीति खेलगामी । सशब्दाः शब्दायमानाश्चामीकरकिंकिण्यः काञ्चनक्षुद्रघण्टिका यस्य स तथोक्तः । `किङ्किणी क्षुद्रधण्टिका` इत्यमरः । `नद्युतश्च` इति कप् । वाह्यतेऽनेनेति वाहो वृषभः । करणे घञ् । प्रोतघने स्यूतमेघे अत एव तटाभिघाताद्रोधोभेदाल्लग्नपङ्के श्लिष्टकर्दमे इव स्थिते विषाणे श्रृङ्गे मुहुर्धुन्वंस्तं हरमुवाह वहति स्म
अन्वयः: खे खेलगामी सशब्दचामीकरकिङ्किणीकः वाहः प्रोतघने तटाऽभिघातात् लग्नपङ्के इव विषाणे मुहुः धुन्वन् (सन्) तम् उवाह ।

Verse 50
स प्रापदप्राप्तपराभियोगं नगेन्द्रगुप्तं नगरं मुहूर्तात् । पुरो विलग्नैर्हरदृष्टिपातैः सुवर्णसूत्रैरिव कृष्यमाणः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति । स वाहोऽप्राप्तः पराभियोगः शत्रुसमाक्रान्तिर्यस्य तत्तथोक्तं नगेन्द्रेण हिमवता गुप्तं रक्षितं नगरमोषधिप्रस्थं पुरोऽग्रे विलग्नैः संक्रान्तैर्हरदृष्टिपातैः सुवर्णसूत्रैः कृष्यमाण इव मुहूर्तात्प्रापत् । अन्यथा कथं दूरस्याशुप्राप्तिः स्यादिति भावः । पुरः प्रसृता हरदृष्टयः पिङ्गलवर्णत्वात्सौवर्णानि वृषाकर्षणदामानीवालक्ष्यन्तेत्यर्थः
अन्वयः: सः अप्राप्तपराऽभियोगं नगेन्द्रगुप्तं नगरं पुरो विलग्नैः हरदृष्टिपातैः सुवर्णसूत्रैः कृष्यमाण इव मुहूर्तात् प्रापत् ।

Showing 41 to 50 of 95 verses