कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 1 to 10 of 95 verses
Verse 1
अथौषधीनामधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम् । समेतबन्धुर्हिमवान्सुताया विवाहदीक्षाविधिमन्वतिष्ठत् ॥
Metre: उपेन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथ त्र्यहानन्तरं हिमवानोषधीनामधिपस्य चन्द्रस्य वृद्धौ । शुक्लपक्ष इत्यर्थः । शुभकर्मस्वापूर्यमाणपक्षस्य प्राशस्त्यात् । तिथौ च जामित्रं लग्नात्सप्तमं स्थानं तस्य गुणः शुद्धिः सा च ग्रहराहित्यं तेनान्वितायां सत्याम् । यद्यपि जामित्रशुद्धिर्युक्तबन्धुः सन् । सुताया दुहितुर्विवाहदीक्षा विवाहसंस्कारः सैव विधि कर्म तमन्वतिष्ठत्कृतवान्
अन्वयः: अथ हिमवान् ओषधीनाम् अधिपस्य वृद्धौ तिथौ च जामित्रगुणाऽन्वितायां समेतबन्धुः (सन्) सुतायाः विवाहदीक्षाविधिम् अन्वतिष्ठत् ।

Verse 2
वैवाहिकैः कौतुकसंविधानैर्गृहे गृहे व्यग्रपुरंध्रिवर्गम् । आसीत्पुरं सानुमतोऽनुरागादन्तःपुरं चैककुलोपमेयम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): वैवाहिकैरिति । अनुरागात्प्रीतिवशात् । गृहे गृहे प्रतिगृहम् । वीप्सायां द्विर्भावः । विवाहः प्रयोजनमेषामिति वैवाहिकानि तैः । `प्रयोजनम्` (पा.5|1|109) इति ठक् । कौतुकसंविधानैर्मङ्गलार्थसंपादनैर्व्यग्रो व्याकुलः पुरन्ध्रिवर्गः कुटुम्बिनीसंघो यस्मिंस्तत्तथोक्तं सानुमतोऽद्रेः पुरं बाह्यमोषधिप्रस्थमन्तःपुरमवरोधनं चैककुलेनैकगृहेण वोपमेयमासीत् `सजातीयगणे गोत्रे गृहेऽपि कथितं कुलम्` । इति विश्वः । सर्वेषामपि स्वगृह एवेदं शोभनं वर्तत इत्यभिमानोऽभूदित्यर्थः । एतेन हिमार्दैः प्रजाराग उक्तः । अत्र सर्व संपन्नमेवेत्यर्थः
अन्वयः: अनुरागात् गृहे गृहे वैवाहिकैः कौतुकसंविधानैः व्यग्रपुरन्ध्रिवर्गं सानुमतः पुरम् अन्तःपुरं च एककुलोपमेयम् आसीत् ।

Verse 3
संतानकाकीर्णमहापथं तच्चीनांशुकैः कल्पितकेतुमालम् । भासा ज्वलत्काञ्चनतोरणानां स्थानान्तरस्वर्ग इवाबभासे ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): संतानकैरिति । संतानकैर्मन्दारकुसुमैराकीर्णा आस्तृता महापथा राजकीयपथा यर्स्मिस्तत्तथोक्तम् । चीनांशुकैः पट्टवस्त्रैः कल्पिता विरचिताः केतुमाला ध्वजपङ्क्तयो यस्य तत्तथोक्तम् । काञ्चनतोरणानां भासा प्रभयोज्ज्वलद्दीप्यमानं तत्पुरं स्थानान्तरं मेरोरन्यत्र स्थितः स्वर्ग इवाबभासे । उत्प्रेक्षालंकारः
अन्वयः: सन्तानकाकीर्णमहापथं चीनांऽशुकैः कल्पितकेतुमालं काञ्चनतोरणानां भासा उज्ज्वत् स्थानान्तरं स्वर्ग इव आबभासे ।

Verse 4
एकैव सत्यामपि पुत्रपङ्क्तौ चिरस्य दृष्टेव मृतोत्थितेव । आसन्नपाणिग्रहणेति पित्रोरुमा विशेषोच्छ्वसितं बभूव ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): एकैवेति । पुत्राश्च दुहितरश्च पुत्राः । `भ्रातृपुत्रौ स्वसृदुहितृभ्याम्` (पा.1|2|68) इत्यैकशेषः । `पुत्रौ पुवश्च दुहिता च` इत्यमरः । तेषां पङ्क्तौ संघे सत्यामप्युमैकैव चिरस्य दृष्टेव चिरान्नष्टलब्धेव मृतोत्थितेव मृत्वा पुनरुत्पन्नेवासन्नपाणिग्रहणासन्नविवाहेति । भर्तृगृहं गमिष्यतीति हेतोरित्यर्थः । पित्रोः मातापित्रोः । `पिता मात्रा` (पा.1|2|70) इत्येकशेषः । विशेषेणोच्छ्वासितं प्राणभूता बभूव । पुमपत्यादपि अधिकप्रेमास्पदमभूदित्यर्थः
अन्वयः: पुत्रपङ्क्तौ सत्याम् अपि उमा एका एव चिरस्य दृष्टा एव मृतोत्थिता इव आसन्नपाणिग्रहणा इति पित्रोः विशेषोच्छ्वसितं बभूव ।

Verse 5
अङ्काद्ययावङ्कमुदीरिताशीः सा मण्डनान्मण्डनमन्वभुङ्क्त । संबन्धिभिन्नोऽपि गिरेः कुलस्य स्नेहस्तदेकायतनं जगाम ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): अङ्कादिति । सा पार्वत्युदीरिताशीः प्रयुक्ताशीर्वादा सत्यङ्कादङ्कमुत्सङ्ग ययौ । मण्डनान्मण्डनान्तरमन्यन्मण्डनमन्वभुङ्क्त । तदा सर्वे बन्धवः प्रत्येकमेव तामङ्कमारोप्य मण्डनं प्रायच्छन्नित्यर्थः । तच्च स्नेहनिबन्धनमेवेत्याह-संबन्धिभिन्नः स्वपुत्रादिभिर्भिन्नो विभक्तोऽपि गिरेः कुलस्य वंशस्य स्नेहस्तदेकायतनं सैवैकमायतनं स्थानं तज्जगाम । तदिति छेदेऽप्ययमेवार्थः । विधेयप्राधान्यान्नपुंसकत्वमिति । सर्वे बन्धवः स्वापत्येभ्योऽपि तस्यामधिकं स्निह्यन्तीति तात्पर्यार्थः
अन्वयः: सा उदीरिताशीः (सती) अङ्कात् अङ्कं ययौ, मण्डनात् मण्‍डनम् अन्वभुङ्क्त, सम्बन्धिभिन्नोऽपि गिरेः कुलस्य स्नेहः तदेकायतनं जगाम ।

Verse 6
मैत्रे मुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु । तस्याः शरीरे प्रतिकर्म चक्रुर्बन्धुस्त्रियो याः पतिपुत्रवत्यः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): मैत्र इति । अथ मैत्रे मित्रदैवत्ये मुहूर्ते । उदयमुहूर्तात्तृतीयमुहूर्त इत्यर्थः । `आर्द्रः सार्द्रस्तथा मैत्रः शुभो वासव एव च` । इति वृहस्पतिस्मरणात् । उत्तरफल्गुनीषु फल्गुनीनक्षत्रे । `फल्गुनी प्रोष्ठपदानां च नक्षत्रे` इत्येकस्मिन्नपि बहृवचनम् । शशलाञ्छनेन चन्द्रेण योगं गतासु सतीषु तस्याः पार्वत्याः शरीरे बन्धुस्त्रियः प्रतिकर्म प्रसाधनम् । `प्रतिकर्म प्रसाधनम्` इत्यमरः (अ.को.2|6|100) । चक्रुः । कीदृश्यः । याः पतिपुत्रवत्यः । जीवद्भर्तृका जीवदपत्याश्चेत्यर्थः
अन्वयः: मैत्रे मुहूर्ते उत्तरफल्गुनीषु शशलाञ्छनेन योगं गतासु तस्याः शरीरे याः पतिपुत्रवत्यः बन्धुस्त्रियः ताः प्रतिकर्म चक्रुः ।

Verse 7
सा गौरसिद्धार्थनिवेशवद्भिर्दूर्वाप्रवालैः प्रतिभिन्नरागम् । निर्नाभिकौशेयमुपात्तबाणमभ्यङ्गनेपथ्यमलञ्चकार ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): सेति । सा गौरी गौरसिद्धार्थनिवेशवद्भिः श्वेतसर्षपप्रक्षेपवद्भिर्दूर्वाप्रवालैर्दूर्वाङ्कुरैः प्रतिभिन्नशोभं विशेषितशोभं निर्नाभ्यतिक्रान्तनाभि कौशेयं वस्त्रविशेषं यस्मिंस्तत्तथोक्तम् । `कौशेयं कृमिकोशोत्थम्` इत्यमरः (अ.को.2|6|112) । उपात्तबाणं गृहीतशरम् `शरः क्षत्रियया ग्राह्यः` इति मनुस्मरणात् । अभ्यङ्गनेपथ्यमभ्यङ्गवेशमलंचकार । अलंकारमप्यलंचकारेत्यर्थः
अन्वयः: सा गौरसिद्धाऽर्थनिवेशवद्भिः दूर्वाप्रवालैः प्रतिभिन्नशोभं निर्नाभिकौशेयम् उपात्तबाणम् अभ्यङ्गनेपथ्यम् अलञ्चकार ।

Verse 8
बभौ च संपर्कमुपेत्य बाला नवेन दीक्षाविधिसायकेन । करेण भानोर्बहुलावसाने संधुक्ष्यमाणेव शशाङ्कलेखा ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): बभाविति । किंचेति चार्थः । बाला नवेव दीक्षाविधौ विवाहकृत्ये यः सायकस्तेन संपर्कमुपेत्य बहुलावसाने कृष्णपक्षात्यये । शुक्लपक्षादावित्यर्थः । भानोः करेण किरणेन संधुक्ष्यमाणोपचीयमानाः `सलिलमये शशिनि रवेर्दीधितयो मूर्च्छितास्तमो नैशम् । क्षपयन्ती` त्यादिवचनात् । शशाङ्करेखेव बभौ
अन्वयः: बाला नवा इव दीक्षाविधिसायकेन सम्पर्कम् उपेत्य बहुलाऽवसाने भानोः करेण सन्धुक्ष्यमाणा शशाऽङ्करेखा इव बभौ ।

Verse 9
तां लोध्रकल्केन हृताङ्गतैलामाश्यानकालेयकृताङ्गरागाम् । वासो वसानामभिषेकयोग्यं नार्यश्चतुष्काभिमुखं व्यनैषुः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): तामिति । लोध्रकल्केन लोध्रचूर्णेन हृतमङ्गतैलं यस्यास्ताम् । कृतोद्वर्तनामित्यर्थः । आश्यानमीषच्छुष्कं तेन कालेयेन गन्धद्रव्येण कृताङ्गरागाम् । कृतस्नैग्ध्यामित्यर्थः । `अथ जायकम् । कालेयकं च कालानुसार्यं चेत्यमरः । अभिषेकयोग्यं वासो वस्त्रं वसानां स्नानशाजीमाच्छादयन्तीं तां पार्वतीं नार्यश्चतुष्कं चतुः स्तम्भगृहं तदभिमुखं व्यनैषुः । स्नानगृहं निन्युरित्यर्थः
अन्वयः: लोध्रकल्केन हृताऽङ्गतैलाम् आश्यानकालेयकृताऽङ्गरागाम् अभिषेकयोग्यं वासो वसानां तां नार्यः चतुष्काऽभिमुखं व्यनैषुः ।

Verse 10
विन्यस्तवैदूर्यशिलातलेऽस्मिन्नविद्धमुक्ताफलभक्तिचित्रे । आवर्जिताष्टापदकुम्भतोयाः सतूर्यमेनां स्नपयां बभूवुः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): विन्यस्तेति । विन्यस्तं वैदूर्यशिलातलं मरकतशिलातलं मरकतशिलाप्रदेशो यस्मिंस्तस्मिन्नाबद्धानां मुक्ताफलानां भक्तिरचनाभिश्चित्रेऽस्मिंश्चतुष्क एनां पार्वतीमावर्जितानामानमितानामष्ठापदकुम्भानां कनककलशानां तोयैः सतूर्यं मङ्गलवाद्ययुक्तं यथा तथा स्नपयांबभूबुः । अष्टसु लोहेषु पदं प्रतिष्ठा यस्येत्यष्टापदम् । `अष्टनः संज्ञायाम्` (पा.6|3|125) इति दीर्धः । `अष्टापदं स्यात्कनकम्` इति विश्वः
अन्वयः: विन्यस्तवैदूर्यशिलातले आबद्धमुक्ताफलभक्तिचित्रे अस्मिन् एनाम् आवर्जिताऽष्टापदकुम्भतोयैः सतूर्यं स्नपयाम्बभूवुः ।

Showing 1 to 10 of 95 verses