अथौषधीनामधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम् । समेतबन्धुर्हिमवान्सुताया विवाहदीक्षाविधिमन्वतिष्ठत् ॥
Metre: उपेन्द्रवज्रा
वैवाहिकैः कौतुकसंविधानैर्गृहे गृहे व्यग्रपुरंध्रिवर्गम् । आसीत्पुरं सानुमतोऽनुरागादन्तःपुरं चैककुलोपमेयम् ॥
Metre: उपजातिः
संतानकाकीर्णमहापथं तच्चीनांशुकैः कल्पितकेतुमालम् । भासा ज्वलत्काञ्चनतोरणानां स्थानान्तरस्वर्ग इवाबभासे ॥
Metre: इन्द्रवज्रा
एकैव सत्यामपि पुत्रपङ्क्तौ चिरस्य दृष्टेव मृतोत्थितेव । आसन्नपाणिग्रहणेति पित्रोरुमा विशेषोच्छ्वसितं बभूव ॥
Metre: उपजातिः
अङ्काद्ययावङ्कमुदीरिताशीः सा मण्डनान्मण्डनमन्वभुङ्क्त । संबन्धिभिन्नोऽपि गिरेः कुलस्य स्नेहस्तदेकायतनं जगाम ॥
Metre: इन्द्रवज्रा
मैत्रे मुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु । तस्याः शरीरे प्रतिकर्म चक्रुर्बन्धुस्त्रियो याः पतिपुत्रवत्यः ॥
Metre: इन्द्रवज्रा
सा गौरसिद्धार्थनिवेशवद्भिर्दूर्वाप्रवालैः प्रतिभिन्नरागम् । निर्नाभिकौशेयमुपात्तबाणमभ्यङ्गनेपथ्यमलञ्चकार ॥
Metre: इन्द्रवज्रा
बभौ च संपर्कमुपेत्य बाला नवेन दीक्षाविधिसायकेन । करेण भानोर्बहुलावसाने संधुक्ष्यमाणेव शशाङ्कलेखा ॥
Metre: उपजातिः
तां लोध्रकल्केन हृताङ्गतैलामाश्यानकालेयकृताङ्गरागाम् । वासो वसानामभिषेकयोग्यं नार्यश्चतुष्काभिमुखं व्यनैषुः ॥
Metre: इन्द्रवज्रा
विन्यस्तवैदूर्यशिलातलेऽस्मिन्नविद्धमुक्ताफलभक्तिचित्रे । आवर्जिताष्टापदकुम्भतोयाः सतूर्यमेनां स्नपयां बभूवुः ॥
Metre: उपजातिः