कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 11 to 20 of 95 verses
Verse 11
सा मङ्गलस्नानविशुद्धगात्री गृहीतपत्युद्गमनीयवस्त्रा । निर्वृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): सेति । मङ्गलार्थस्नानेन विशुद्धगात्री निर्मलाङ्गी पत्युर्वरस्योद्गमनीयवस्त्रं धौतवस्त्रम् । `धौतमुद्गमनीयं स्यात्` इति हलायुधः । `तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम्` इत्यमरः (अ.को.2|6|113) । युगग्रहणं तु प्रायिकाभिप्रायम् । अत एवात्र क्षीरस्धामी- `युगं प्रायशो यल्लक्ष्यं तदेव` इति व्याख्याय `गृहीत पत्युद्गमनीयवस्त्रा` इत्येतदेवोदाहृतवान् । गृहीतं पतिप्रत्युद्गमनीयवस्त्रं यया सा । धौतवस्त्रमाच्छादितवतीत्यर्थः । सा पार्वती निर्वृत्तो निष्पन्नः पर्जन्यस्य जलेनाभिषेको यस्याः सा तथोक्ता । प्रफुल्लतीति प्रफुल्लकाशं काशपुष्पं यस्याः सा तथोक्ता वसुधेव रेजे शुशुभे
अन्वयः: मङ्गलस्नानविशुद्धगात्री गृहीतपत्युद्गमनीयवस्त्रा सा निर्वृत्तपर्जन्यजलाऽभिषेका प्रफुल्लकाशा वसुधा इव रेजे ।

Verse 12
तस्मात्प्रदेशाच्च वितानवन्तं युक्तं मणिस्तम्भचतुष्टयेन । पतिव्रताभिः परिगृह्य निन्ये कॢप्तासनं कौतुकवेदिमध्यम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्मादिति । किंचेति चार्थः । तस्मात्प्रदेशात्स्नानप्रदेशाद्वितानवन्तमुल्लोचयुक्तम् । `अस्त्री वितानमुल्लोचः` इत्यमरः (अ.को.2|6|121) । मणिस्तम्भचतुष्टयेन युक्तं क्लृप्तं सज्जमानमासनं यस्मिंस्तं कौतुकवेदिमध्यं पतिव्रताभिः परिगृह्य दौर्भ्यामालिङ्ग्य निन्ये नीता । प्रसाधनार्थमित्यर्थः
अन्वयः: तस्मात् प्रदेशात् वितानवन्तं मणिस्तम्भचतुष्टयेन युक्तं क्लॄप्तासनं कौतुकवेदिमध्यं पतिव्रताभिः परिगृह्य (सा) निन्ये ।

Verse 13
तां प्राङ्मुखीं तत्र निवेश्य तन्वीं क्षणं व्यलम्बन्त पुरो निषण्णाः । भूतार्थशोभाह्रियमाणनेत्राः प्रसाधने सन्निहितेऽपि नार्यः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तामिति । नार्यः प्रसाधिकास्तां तन्वीं पार्वतीं तत्र वेदिमध्ये प्राङ्मुखीं निवेश्योपवेश्य पुरोनिषण्णा अग्रे स्थिताः । प्रसाध्यतेऽनेनेति प्रसाधनेऽलंकारसाधनवर्गे संनिहितेऽपि भूतार्था सत्यरुपा । स्वाभाविकीति यावत् । या शोभा रामणीयकं तया ह्रियमाणान्याकृष्यमाणानि नेत्राणि यासां तास्तथोक्ताः क्षणं व्यलम्बन्त । स्वभावसुन्दर्याः किमस्याः प्रसाधनेनेति तूष्णीं तस्थुरित्यर्थः
अन्वयः: नार्यः तन्वीं तां तत्र प्राङ्मुखीं निवेश्य पुरोनिषण्णाः (सत्यः) प्रसाधने सति अपि भूताऽर्थशोभाह्रियमाणनेत्राः (सत्यः) क्षणं व्यलम्बन्त ।

Verse 14
धूपोष्मणा त्याजितमार्द्रभावं केशान्तमन्तःकुसुमं तदीयम् । पर्याक्षिपत्काचिदुदारबन्धं दूर्वावता पाण्डुमधूकदाम्ना ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): धूपेति । काचित्प्रसाधिका धूपोष्मणा करणेनार्द्रभावमार्द्रत्वं त्याजितम् । पचादिषु पाठाद्विकर्मकत्वम् । त्यजतेर्ण्यन्तादप्रधाने कर्मणि क्तः । अन्तःकुसुममन्तर्निक्षिप्तकुसुमं तस्या इमं तदीयं केशान्तं केशपाशं दूर्वावता मध्ये ग्रथितदूर्वेण पाण्डुमधूकदाम्ना हरितमधुद्रुमकुसुममाल्येन । `मधूके तु गुडपुष्पमधुद्रुमौ` इत्यमरः (अ.को.2|4|27) । उदारबन्धं यथा तथा पर्याक्षिपद्बबन्ध
अन्वयः: काचित् धूपोष्मणा आर्द्रभावं त्याजितम् अन्तः कुसुमं तदीयं केशाऽन्तं दूर्वावता पाण्डुमधूकदाम्ना उदारबन्धं पर्याक्षिपत् ।

Verse 15
विन्यस्तशुक्लागुरु चक्रुरस्या गोरोचनापत्रविभङ्गमङ्गम् । सा चक्रवाकाङ्कितसैकतायास्त्रिस्रोतसः कान्तिमतीत्य तस्थौ ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): विन्यस्तेति । अस्या गौर्या अङ्गं गात्रं विन्यस्तं विरचितं शुक्लागुरु यस्मिस्तद् गोरोचनायाः पत्त्रैः पत्ररचनाभिर्विभक्तं विशेषितं चक्रुः । सा तथाभूता गौरी चक्रवाकैरङ्कितं सैकतं यस्यास्तस्यास्त्रिस्त्रोतसो गङ्गायाः । कान्तिं शोभामतीत्यातिक्रम्य तस्थौ । अत्र गोरोचनाचक्रवाकयोः पीतत्वेन साम्यं, त्रिस्रोतसो धावल्यं तु प्रसिद्धत्वान्न स्वपदेनोपात्तम्
अन्वयः: (ताः) अस्या अङ्गे विन्यस्तशुक्लाऽगुरु गोरोचनापत्रविभक्तं चक्रुः । सा चक्रवाकाऽङ्कितसैकतायाः त्रिस्त्रोतसः कान्तिम् अतीत्य तस्थौ ।

Verse 16
लग्नद्विरेफं परिभूय पद्मं समेघलेखं शशिनश्च बिम्बम् । तदाननश्रीरलकैः प्रसिद्धैश्चिच्छेद सादृश्यकथाप्रसङ्गम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): लग्नेति । प्रसिद्धैर्भूषितैः । `प्रसिद्धौ ख्यातभूषितौ` इत्यमरः (अ.को.3|3|112) । अलकैरुपलक्षिता तस्या गौर्याः आननश्रीर्लग्नद्विरेफं पद्मं समेधलेखं मेघरेखायुक्तं शशिनो बिम्बं च परिभूय तिरस्कृत्य सादृश्यमुपमा तस्य कथोक्तिस्तस्याः प्रसङ्गं प्रसक्तिं सादृश्यं वाङ्मात्रप्रसक्तमपि चिच्छेदाभिनत् । प्रसक्तयोः पद्मचन्द्रयोः परिभूतत्वादन्यत्र चाप्रसङ्गादित्यर्थः । अत्र पूर्वार्धवाक्यार्थस्य सादृश्यकथाच्छेदं प्रति हेतुत्वेनोपन्यासात्काव्यलिङ्गमलंकारः । लक्षणं तूक्तम्
अन्वयः: प्रसिद्धैः अलकैः तदाननश्रीः लग्नद्विरेफं पद्मं, समेघलेखं शशिनो बिम्बं च परिभूय सादृश्यकथाप्रसङ्गं चिच्छेद ।

Verse 17
कर्णार्पितो लोध्रकषायरूक्षे गोरोचनाक्षेपनितान्तगौरे । तस्याः कपोले परभागलाभाद्बबन्ध चक्षूंषि यवप्ररोहः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): कर्णेति । तस्या गौर्याः कर्णेऽर्पितो निक्षिप्तो यवप्ररोहो यवाङ्कुरो लोध्रस्य वृक्षविशेषस्य कषायेण विलेपनेन रुक्षे विशदे । उद्वर्तिते इत्यर्थः । `कषायो रसभेदे स्यादङ्गरागे विलेपने` । इति विश्वः । गोरोचनायाः क्षेपेण विन्यासेन नितान्तगौरेऽत्यन्तारुणे । `गौरः श्वेतेऽरुणे पीते` इति विश्वः । कपोले गण्डस्थले परभागलाभाद्वर्णोत्कर्षप्राप्तेश्चक्षूंषि । द्रष्टॄणामिति शेषः । बबन्ध जहार । आचकर्षेत्यर्थः । गोरोचनारुणे गण्डस्थले पाण्डुरो यवाङ्कुरो विजातीयवर्णसंनिधानाल्लब्धवर्णोत्कर्षः संश्चक्षुराकर्षकोऽभूदिति भावः
अन्वयः: तस्याः कर्णाऽर्पितो यवप्ररोहो लोध्रकषायरुक्षे गोरोचनाक्षेपनिनान्तगौरे कपोले परभागलाभात् चक्षूंषि बबन्ध ।

Verse 18
रेखाबिभक्तश्च विभक्तगात्र्याः किंचिन्मधूच्छिष्टविमृष्टरागः । कामप्यभिख्यां स्फुरितैरपुष्यदासन्नलावण्यफलोऽध्ररोष्ठः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): रेखेति । सुविभक्तगात्र्याः सुसंश्लिष्टावयवायाः पार्वत्या रेखया मध्यगतया विभक्तः सुश्लिष्टः किंचिदीषन्मधूच्छिष्टेन सिक्थकेन विमृष्टो विशेषेण निर्मलीकृतो रागो यस्य स तथोक्तः । `मधूच्छिष्टं तु सिक्थकम्` इति, `निर्णिक्तं शोधितं मृष्टम् ।` इति चामरः । अन्यत्रोक्तम्- `अलौहित्यापगमायाधरेषु सिक्थकलेपः क्रियते` । आसन्नं संनिहितं लावण्यफलं सौन्दर्यप्रयोजनं मुखचुम्बनादिरूपं यस्य स तथोक्तोऽधरोष्ठः स्फुरितैर्भाविशुभशंसिभिः स्पन्दैः कामप्यनिर्वाच्यार्माभख्यां शोभामपुष्यत्पुपोष । `अभिख्या नामशोभयोः` इत्यमरः
अन्वयः: सुविभक्तगात्र्याः रेखाविभक्तः किञ्चिन्मधूच्छिष्टविमृष्टरागः आसन्नलावण्यफलः अधरोष्ठः स्फुरितैः काम् अपि अभिख्याम् अपुष्यत् ।

Verse 19
पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् । सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): पत्युरिति । सख्या कर्त्र्या । चरणौ रञ्जयित्वा लाक्षारसाक्तौ कृत्वा । कृताशीरिति करोतिना समानकर्तृकत्वम् । अनेन चरणेन रञ्जने द्वयोरपि नियमाच्चरणावित्युक्त्वाप्यौचित्यात्ताडनविधावेकतरपरामर्श इत्याहुः । पत्युरीश्वरस्य शिरश्चन्द्रकलाम् । सुरतविशेष इति शेषः । स्पृश ताडयेति परिहासपूर्वं कृताशीः प्रयुक्ताशीर्वादा सा पार्वती तां सखीं माल्येन मालया । `माल्यं मालास्रजौ` इत्यमरः (अ.को.2|6|136) । निर्वचनं यथा तथा । तूष्णीमित्यर्थः । जघान ताडयामास । निर्वचनमित्यनेन विहृताख्यः श्रृङ्गारानुभाव उक्तः । तदुक्तम् । `प्राप्तकाले तु यद् ब्रूयात्कुर्याद्वा विहृतं हि तत्` । इति
अन्वयः: सख्या चरणौ रञ्जयित्वा `अनेन पत्युः शिरश्चन्द्रकलां स्पृश` इति परिहासपूर्वं कृताशीः सा तां माल्येन निर्वचनं जघान ।

Verse 20
तस्याः सुजातोत्पलपत्रकान्ते प्रसाधिकाभिर्नयने निरीक्ष्य । न चक्षुषोः कान्तिविशेषबुद्ध्या कालाञ्जनं मङ्गलमित्युपात्तम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्या इति । प्रसाधिकाभिरलंकर्त्रीभिः सुजाते सम्यगुत्पन्ने उत्पलपत्त्र इव कान्ते रम्ये तस्या नयने निरीक्ष्य कालाञ्जनमञ्जनविशेषश्चक्षुषोः कान्तिविशेषबुद्ध्या । शोभातिशयो भविष्यतीति बुद्ध्येत्यर्थः । नोपात्तं न गृहीतं किंतु मङ्गलं शुभमिति हेतोरुपात्तम् । निसर्गसुभगस्य किमाहार्यकाण्डम्बरेणेति भावः
अन्वयः: प्रसाधिकाभिः सुजातोत्पलपत्त्रकान्ते तस्या नयने निरीक्ष्य कालाञ्जनं चक्षुषोः कान्तिविशेषबुद्ध्या न उपात्तं (किन्तु) मङ्गलम् इति उपात्तम् ।

Showing 11 to 20 of 95 verses