कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 21 to 30 of 95 verses
Verse 21
सा संभवद्भिः कुसुमैर्लतेव ज्योतिर्भिरुद्यद्भिरिव त्रियामा । सरिद्विहङ्गैरिव लीयमानैरामुच्यमानाभरणा चकासे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): सेति । आमुच्यमानाभरणा निबध्यमानाभरणा सा गौरी संभवद्भिरुत्पद्यमानैः कुसुमैर्लतेव । अनेन पद्मरागेन्द्रनीलादीन्याभरणानि सूचितानि, लताकुसुमानां नानावर्णत्वात् । उद्यद्भिरुदयं गच्छद्भिर्ज्योतिर्भिरुडुभिस्त्रियामा रात्रिरिव । अनेन मौक्तिकानि कथितानि । लीयमानैराश्रयद्भिः । निषीदद्भिरित्यर्थः । विहंगैश्चक्रवाकैः सरिदिव । अनेन सुवर्णाभरणानि सूचितानि । विहंगाश्च तत्सूचनाय चक्रवाका अभिमताः । चकासे रेजे । अत्र लताकुसुमादीनां सहजसंबन्धिनामुपमानत्वेनोपादानादाहर्यकमपि तस्याः सहजमिवाशोभतेति भावः
अन्वयः: आमुच्यमानाभरणा सा संभवद्भिः कुसुमैः लता इव, उद्यद्भिः ज्योतिर्भिः त्रियामा इव, लीयमानैः विहङ्गैः सरित् इव चकासे ।

Verse 22
आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमितायताक्षी । हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): आत्मानमिति । किञ्चेति चार्थः । गौरी शोभमानमात्मानं निजशरीरमादर्शबिम्बि दर्पणमण्डले । `दर्पणे मुकुरादर्शौ` इत्यमरः (अ.को.2|6|141) । स्तिमितायताक्ष्यादरान्निश्चलायतलोचना सत्यालोक्य हरोपयाने हरप्राप्तौ त्वरिता व्यग्रा बभूव । स्त्रीणां वेषो नेपथ्यं प्रियस्य भर्तुरालोको दर्शनं फलं प्रयोजनं यस्य स तथोक्तो हि । अन्यथारण्यचन्द्रिका स्यादिति भावः । अनेन कालाक्षमत्वलक्षणमौत्सुक्यमुक्तमित्यनुसंधेयम्
अन्वयः: गौरी शोभमानम् आत्मानम् आदर्शबिम्बे आलोक्य स्तिमितायताक्षी (सती) हरोपयाने त्वरिता बभूव । हि स्त्रीणां वेषः प्रियालोकफलः (भवति) ।

Verse 23
अथाङ्गुलिभ्यां हरितालमार्द्रं माङ्गल्यमादाय मनःशिलां च । कर्णावसक्तामलदन्तपत्रं माता तदीयं मुखमुन्नमय्य ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथ प्रसाधनानन्तरं माता मेनका माङ्गल्यं मङ्गलार्थमार्द्रं द्रवहरितालं वर्णद्रव्यविशेषं मनःशिलां धातुविशेषं चाङ्गुलिभ्यां तर्जनीमध्याभ्यामादाय कर्णयोरवसक्ते लग्ने अमले दन्तपत्त्रे यस्य तत्तथोक्तं तस्याः पार्वत्या इदं तदीयं मुखमुन्नमय्य । `विवाहदीक्षातिलकं चकार` (७/२४) इत्युत्तरश्लोकेनान्वयः
अन्वयः: अथ माता माङ्गल्यम् आर्द्रहरितालं मनःशिलां च अङ्गुलिभ्याम् आदाय कर्णाऽवसक्ताऽमलदन्तपत्रं तदीयं मुखम् उन्नमय्य उमास्तनोद्भेदम् अनुप्रवृद्धो यो मनोरथः प्रथमं बभूव, तम् एव विवाहदीक्षातिलकं चकार ।

Verse 24
उमास्तनोद्भेदमनुप्रवृद्धो मनोरथो यः प्रथमो बभूव । तमेव मेना दुहितुः कथंचिद्विवाहदीक्षातिलकं चकार ॥
Metre: उपेन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): उमेति । उमायाः स्तनेद्भेदमनु । स्तनोदयमारभ्येत्यर्थः । प्रवृद्धो वृद्धिं गतः । प्रागेवोत्पन्न इति भावः । यो मनोरथो वाञ्छा । `वाञ्छा लिप्सा मनोरथः` इत्यमरः (अ.को.1|7|29) । प्रथमं मनोरथान्तरात्प्राक् । अयमेव प्रथमो मनोरथ इत्यर्थः, बभूव, मेनादुहितुस्तमेव मनोरथभूतमेव । तद्विषये तत्तोपचारः । विवाहदीक्षायां विवाहकृत्ये तिलकं कथंचित्कृच्छ्रेण चकार । आनन्दवाष्पान्धतयेति शेषः । विवाहानन्तरभावित्वादन्येषामयमेव प्रथमो मनोरथ इति भावः । युग्मकम्
अन्वयः: अथ माता माङ्गल्यम् आर्द्रहरितालं मनःशिलां च अङ्गुलिभ्याम् आदाय कर्णाऽवसक्ताऽमलदन्तपत्रं तदीयं मुखम् उन्नमय्य उमास्तनोद्भेदम् अनुप्रवृद्धो यो मनोरथः प्रथमं बभूव, तम् एव विवाहदीक्षातिलकं चकार ।

Verse 25
बबन्ध चास्राकुलदृष्टिरस्याः स्थानान्तरे कल्पितसन्निवेशम् । धात्र्यङ्गुलीभिः प्रतिसार्यमाणमूर्णमयं कौतुकहस्तसूत्रम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): बबन्धेति । अस्याः पार्वत्या अस्रैरानन्दबाष्पैराकुलदृष्टिरत एव स्थानान्तरे कल्पितः संनिवेशो निक्षेपो यस्य तत् । स्वस्थानादन्यत्र स्थापितमित्यर्थः । अत एव धात्र्या उपमातुरङ्गुलीभिः प्रतिसार्यमाणं स्वस्थानं प्राप्यमाणमूर्णामयं मेषादिलोमनिर्मितम् । `ऊर्णा मेषादिलोम्नि स्यात्` इत्यमरः (अ.को.3|3|56) । कौतुकहस्तसूत्रं मङ्गलहस्तसूत्रम् । `कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले` । इति शाश्वतः । बबन्ध च मेनेति शेषः । पूर्वोक्ततिलकक्रियासमुच्चयार्थश्चकारः
अन्वयः: अस्या अस्राऽऽकुलदृष्टिः सा स्थानान्तरे कल्पितसन्निवेशां धात्र्यङ्गुलीभिः प्रतिसार्यमाणम् ऊर्णामयं कौतुकहस्तसूत्रं बबन्ध च ।

Verse 26
क्षीरोदवेलेव सफेनपुञ्जा पर्याप्तचन्द्रेव शरत्त्रियामा । नवं नवक्षौमनिवासिनी सा भूयो बभौ दर्पणमादधाना ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): क्षीरोदेति । नवं नूतनं क्षौमं दुकूलं निवस्त आच्छादयतीति नवक्षौमनिवासिनी । वस्तेराच्छादनार्थाण्णिनिः । तथा नवं दर्पणमादधाना बिभ्रती सा गौरी सफेनपुञ्जा सडिण्डीरपङ्क्तिः । क्षीरमुदकं यस्य स क्षीरोदः क्षीरसमुद्रः । `उदकस्योदः संज्ञायाम्` (पा.6|3|57) इत्युदादेशः । तस्य वेला तीरभूमिरिव । `वेला काले च जलधेस्तीरनीरविकारयोः` । इति विश्वः । पर्याप्तचन्द्रा पूर्णचन्द्रा शरतत्त्रियामा शरद्रात्रिरिव भूयो भूयिष्ठं बभौ चकासे
अन्वयः: नवक्षौमनिवासिनी नवं दर्पणम् आदधाना सा सफेनपुञ्जा क्षीरोदवेला इव, पर्याप्तचन्द्रा शरत्त्रियामा इव भूयो बभौ ।

Verse 27
तामर्चिताभ्यः कुलदेवताभ्यः कुलप्रतिष्ट्ःआं प्रणमय्य माता । अकारयत्कारयितव्यदक्षा क्रमेण पादग्रहणं सतीनाम् ॥
Metre: उपेन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): तामिति । कारयितव्येषु दक्षा कारयित्री । कर्मोपदेशकुशलेत्यर्थः । माता मेना प्रतितिष्ठत्यस्यामिति प्रतिष्ठा । `आतश्चोपसर्गे` (पा.3|1|136) इति कः स्त्रियां टाप् । कुलस्य प्रतिष्ठां कुलालम्बनभूताम् । स्थितिकारिणीमित्यर्थः । तां गौरीम् । अर्चिताभ्यः पूजिताभ्यः कुलदेवताभ्यो गृहदेवाभ्यः प्रणमय्य प्रणामं कारयित्वा । `ल्यपि लघुपूर्वात्` (पा.6|4|56) इति णेरयादेशः । सतीनां पतिव्रतानां पादग्रहणं पादाभिवन्दनं क्रमेणाकारयत्कारयामास । `हृक्रोरन्यतरस्याम्` (पा.1|4|53) इत्यणि कर्तुः कर्मत्वम् । अन्यत्र च `गतिबुद्धी` त्यादिना नमेरकर्मकत्वात्
अन्वयः: कारयितव्यदक्षा माता कुलप्रतिष्ठां ताम् अर्चिताभ्यः कुलदेवताभ्यः प्रणमय्य सतीनां पादग्रहणं क्रमेण अकारयत् ।

Verse 28
अखण्डितं प्रेम लभस्व पत्युरित्युच्यते ताभिरुमा स्म नम्रा । तया तु तस्यार्धशरीरभाजा पश्चात्कृताः स्निग्धजनाशिषोऽ पि ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अखण्डितमिति । नम्रा प्रणतोमा ताभिः सतीभिः पत्युः शिवस्याखण्जितमक्षतं प्रेम लभस्व प्राप्नुहीत्युच्यते स्म अभिहिता । `लट्स्मे` इति भूतार्थे लट् । तस्य हरस्य । अर्धं शरीरस्यार्धशरीरम् । `अर्धनपुंसकम्` इति समासः । तद्भजतीत्यर्धशरीरभाजा तथा गौर्या तु स्निग्धजनाशिषो बन्धुजनाशीर्वादा अपि पश्चात्कृता अधरीकृताः । ततोऽप्यधिकफललाभादिति भावः
अन्वयः: नम्रा उमा ताभिः `पत्युः अखण्डितं प्रेम लभस्व` इति उच्यते स्म । तस्य अर्धशरीरभाजा तया तु स्निग्धजनाशिषः अपि पश्चात्कृताः ।

Verse 29
इच्छाविभूत्योरनुरूपमद्रिस्तस्याः कृती कृत्यमशेषयित्वा । सभ्यः सभायां सुहृदास्थितायां तस्थौ वृषाङ्कागमनप्रतीक्षः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): इच्छेति । कृती कुशलः । सभायां साधुः सभ्यः । `सभाया यः` (पा.4|4|105) इति यप्रत्ययः । अद्रिर्हिमवानिच्छाविभूत्योरुत्साहैश्वर्ययोरनुरुपं सदृशं यथा तथा तस्याः पार्वत्याः कृत्यं कर्तव्यमशेषं निःशेषं कृत्वा । समाप्येत्यर्थः । अशेषशब्दात् `तत्करोति` इति ण्यन्तात्क्त्वाप्रत्ययः । सुहृदास्थितायां बन्धुजनाक्रान्तायां सभायां संसदि वृषाङ्कस्य हरस्यागमनं प्रतीक्षत इति तथोक्तः सन् `कर्मण्यण्` (पा.3|2|1) इत्यण् । तस्थौ स्थितः
अन्वयः: कृकती सभ्यः अद्रिः इच्छाविभूत्योः अनुरुपं तस्याः कृत्यम् अशेषयित्वा सुहृदास्थितायां सभायां वृषाऽङ्कागमनप्रतीक्षः (सन्) तस्थौ ।

Verse 30
तावद्वरस्यापि कुबेरशैले तत्पूर्वपाणिग्रहणानुरूपम् । प्रसाधनं मातृभिरादृताभिर्न्यस्तं पुरस्तात्पुरशासनस्य ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तावदिति । तावत्, यावद् गौरीप्रसाधनं क्रियते तत्काल एवेत्यर्थः कुबेरशैले कैलासे । तदेव पूर्वं तत्पूर्वं तच्च तत्पाणिग्रहणं तस्यानुरुपं प्रसाधनमलंकारसामग्री आदृताभिः सादराभिः । कर्तरि क्तः । मातृभिर्ब्राह्मीप्रभृतिभिः सप्तमातृकाभिः । पुरं शास्तीति पुरशासनस्तस्य । कर्तरि ल्युट् । भवस्यापि पुरस्तादग्रे न्यस्तं निक्षिप्तम्
अन्वयः: तावत् कुबेरशैले तत्पूर्वपाणिग्रहणाऽनुरुपं प्रसाधनम् आदृताभिः मातृभिः पुरशासनस्य पुरस्तात् न्यस्तम् ।