सा संभवद्भिः कुसुमैर्लतेव ज्योतिर्भिरुद्यद्भिरिव त्रियामा । सरिद्विहङ्गैरिव लीयमानैरामुच्यमानाभरणा चकासे ॥
Metre: उपजातिः
आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमितायताक्षी । हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः ॥
Metre: उपजातिः
अथाङ्गुलिभ्यां हरितालमार्द्रं माङ्गल्यमादाय मनःशिलां च । कर्णावसक्तामलदन्तपत्रं माता तदीयं मुखमुन्नमय्य ॥
Metre: उपजातिः
उमास्तनोद्भेदमनुप्रवृद्धो मनोरथो यः प्रथमो बभूव । तमेव मेना दुहितुः कथंचिद्विवाहदीक्षातिलकं चकार ॥
Metre: उपेन्द्रवज्रा
बबन्ध चास्राकुलदृष्टिरस्याः स्थानान्तरे कल्पितसन्निवेशम् । धात्र्यङ्गुलीभिः प्रतिसार्यमाणमूर्णमयं कौतुकहस्तसूत्रम् ॥
Metre: उपजातिः
क्षीरोदवेलेव सफेनपुञ्जा पर्याप्तचन्द्रेव शरत्त्रियामा । नवं नवक्षौमनिवासिनी सा भूयो बभौ दर्पणमादधाना ॥
Metre: उपजातिः
तामर्चिताभ्यः कुलदेवताभ्यः कुलप्रतिष्ट्ःआं प्रणमय्य माता । अकारयत्कारयितव्यदक्षा क्रमेण पादग्रहणं सतीनाम् ॥
Metre: उपेन्द्रवज्रा
अखण्डितं प्रेम लभस्व पत्युरित्युच्यते ताभिरुमा स्म नम्रा । तया तु तस्यार्धशरीरभाजा पश्चात्कृताः स्निग्धजनाशिषोऽ पि ॥
Metre: उपजातिः
इच्छाविभूत्योरनुरूपमद्रिस्तस्याः कृती कृत्यमशेषयित्वा । सभ्यः सभायां सुहृदास्थितायां तस्थौ वृषाङ्कागमनप्रतीक्षः ॥
Metre: इन्द्रवज्रा
तावद्वरस्यापि कुबेरशैले तत्पूर्वपाणिग्रहणानुरूपम् । प्रसाधनं मातृभिरादृताभिर्न्यस्तं पुरस्तात्पुरशासनस्य ॥
Metre: उपजातिः