कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 31 to 40 of 95 verses
Verse 31
तद्गौरवान्मङ्गलमण्डनश्रीः सा पस्पृशे केवलमीश्वरेण । स्व एव वेषः परिणेतुरिष्टं भावान्तरं तस्य विभोः प्रपेदे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तदिति । ईश्वरेण शिवेन सा मङ्गलमण्डनश्रीः शुभप्रसाधनसंपत्तद्गौरवात्तासु मातृष्वादरात्केवलं पस्पृशे स्पृष्टैव, न तु दध्रे इत्यवधारणार्थः केवलशब्दः । `केवलं चावधारणे` इति शाश्वतः । किंतु तस्य विभोर्देवस्य स एव वेषः स्वाभाविको भस्मकपालादिवेष एव परिणेतुर्लोकरुद्वोढुरिष्टमपेक्षितं भावान्तरं रुपान्तरं प्रपेदे । अङ्गरागादिरुपतां प्रापेत्यर्थः
अन्वयः: ईश्वरेण सा मङ्गलमण्डनश्रीः तद्गौरवात् केवलं पस्पृशे । (किन्तु) तस्य विभोः स एव वेषः परिणेतुः इष्टं भावान्तरं प्रपेदे ।

Verse 32
बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखरश्रीः । उपान्तभागेषु च रोचनाङ्को गजाजिनस्यैव दुकूलभावः ॥
Metre: उपेन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): बभूवेति । भस्मैव सिताङ्गरागः शुभ्रगन्धानुलेपनं बभूव । कपालमेवामलं शेखरं शिरोभूषणं तस्य श्रीः शोभा बभूव । गजाजिनस्येवोपान्तभागेष्वञ्चलप्रदेशेषु रोचनैवाङ्को हंसादिचिह्नं यस्य स तथोक्तो दुकूलभावः पटांशुकत्वं च बभूव । भस्मादिकमेवाङ्गरागादिभावं प्राप्तमित्यर्थः
अन्वयः: भस्म एव सिताऽङ्गरागः, कपालम् एव अमलशेखरश्रीः, गजाऽजिनस्य एव उपान्तभागेषु रोचनाङ्को दुकूलभावश्च बभूव ।

Verse 33
शङ्खान्तरद्योति विलोचनं यदन्तर्निविष्टामलपिङ्गतारम् । सान्निध्यपक्षे हरितालमय्यास्तदेव जातं तिलकक्रियायाः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): शङ्खेति । शङ्खान्तरे ललाटास्थिमध्ये द्योतत इति तथोक्तम् । `श्ङ्खो निधौ ललाटास्थ्नि` इत्यमरः (अ.को.2|6|93) । अन्तर्निविष्टा मध्यगतामला पिङ्गा तारा कनीनिका यस्य तत्तथोक्तम् । `तारकाक्ष्णः कनीनिका` इत्यमरः (अ.को.2|6|93) । यद्विलोचनं तद्विलोचनमेव हरितालमय्या वर्णद्रव्यविशेषविकारस्य तिलकक्रिययास्तिलकरचनायाः संनिधिरेव सांनिध्यं तदेव पक्षः साध्यम् । `पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु` इति यादवः । तस्मिन् सांनिध्यपक्षे जातम्, प्रविष्टमित्यर्थः । अनेन ललाटलोचनमेव तस्य हरितालतिलकमभूदित्युक्तम्
अन्वयः: शङ्खाऽन्तरद्योति अन्तर्निविष्टाऽमलपिङ्गतारं यद् विलोचनं तत् एव हरितालमय्याः तिलकक्रियायाः सान्निध्यपक्षे जातम् ।

Verse 34
यथाप्रदेशं भुजगेश्वराणां करिश्यतामाभरणान्तरत्वम् । शरीरमात्रं विकृतिं प्रपेदे तथैव तस्थुः फणरत्नशोभाः ॥
Metre: उपेन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): यथेति । यथाप्रदेशं प्रदेशान्कोष्ठादीननतिक्रम्याभरणान्तरत्वं कङ्कणाद्याभरणविशेषत्वं करिष्यतां संपादयिष्यतां भुजगेश्वराणां शरीरमात्रं शरीरमेव विकृतिं रुपान्तरं प्रपेदे । फणरत्नशोभास्तथैव तस्थुः । तासां तथैवोपादेयत्वादिति भावः
अन्वयः: यथाप्रदेशम् आभरणान्तरत्वं करिष्यतां भुजगेश्वराणां शरीरमात्रं विकृतिं प्रपेदे, फणरत्नशोभाः तथैव तस्थुः ।

Verse 35
दिवापि निष्ठ्यूतमरीचिभासा बाल्यादनाविष्कृतलाञ्छनेन । चन्द्रेण नित्यं प्रतिभिन्नमौलेश्चूडामणेः किं ग्रहणं हरस्य ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): दिवापीति । दिवा दिनेऽपि निष्ठ्यूता उदीर्णा मरीचिभासः किरणकान्तयो यस्य तेन बाल्यादल्पतनुत्वादनाविष्कृतलाञ्छनेन । अदृश्यमानकलङ्केत्यर्थः । चन्द्रेण नित्यं सर्वदा प्रतिभिन्नमौलेः संगतमुकुटस्य हरस्य चूडामणेर्ग्रहणं स्वीकारः किं किमर्थम् । चन्द्रचूडामणेर्देवस्य किमन्यैश्चूडामणिभिरति भावः
अन्वयः: दिवा अपि निष्ठ्यूतमरीचिभासा बाल्यात् अनाविष्कृतलाञ्छनेन चन्द्रेण नित्यं प्रतिभिन्नमौलेः हरस्य चूडामणेः ग्रहणं किम् ?

Verse 36
इत्यद्भुतैकप्रभवः प्रभावात्प्रसिद्धनेपथ्यविधेर्विधाता । आत्मानमासन्नगणोपनीते खड्गे निषक्तप्रतिमं ददर्श ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): इतीति । इतीर्त्थ प्रभावात्सामर्थ्यात्प्रसिद्धस्य नेपथ्यविधेर्वेषसंविधानस्य विधाता निर्माता । अत एवाद्भुतानामाश्चर्याणामेकप्रभवो मुख्यनिधिः स देव आसन्नगणेन पार्श्वस्थवर्गेण । प्रमथगणेनेत्यर्थः । उपनीत आनीते खड्गे निषक्तप्रतिमं संक्रान्तप्रतिबिम्बमात्मानं ददर्श । वीरपुरुषाणामेष आचारः
अन्वयः: इति प्रभावात् प्रसिद्धनेपथ्यविधेः विधाता (अतक एव) अद्भुतैकप्रभवः (सः) आसन्नगणोपनीते खड्गे निषक्तप्रतिमम् आत्मानं ददर्श ।

Verse 37
स गोपतिं नन्दिभुजावलम्बी शार्दूलचर्मान्तरितोरुपृष्ठम् । तद्भक्तिसंक्षिप्तबृहत्प्रमाणमारुह्य कैलासमिव प्रतस्थे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति । स देवो नन्दिभुजावल्बी नन्दिकेश्वरभुजावलम्बनः सन् । शार्दूलचर्मणा व्याघ्रचर्मणान्तरितमाच्छादितमुरु विशालं पृष्ठं यस्य तं तथोक्तम् `शार्दूलद्वीपिनौ व्याघ्र` इत्यमरः (अ.को.2|5|2) । तस्मिन्देवे भक्त्या संक्षिप्तं संकोचितं बृहत्प्रमाणं यस्य तं गोपतिं वृषभं कैलासमिवारुह्य प्रतस्थे चचाल
अन्वयः: स नन्दिभुजाऽवलम्बी (सन्) शार्दूलचर्माऽन्तरितोरुपृष्ठं तद्भक्तिसंक्षिप्तबृहत्प्रमाणं गोपतिं कैलासम् इव आरुह्य प्रतस्थे ।

Verse 38
तं मातरो देवमनुव्रजन्त्यः स्ववाहनक्षोभचलावतंसाः । मुखैः प्रभामण्डलरेणुगौरैः पद्माकरं चक्रुरिवान्तरीक्षम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तमिति । तं देवमनुव्रजन्त्योऽनुगच्छन्त्थः स्ववाहनानां क्षोभेण प्रकम्पेण चलावतंसाश्चलकुण्डला मातरः सप्तमातृकाः प्रभामण्डलान्येण रेणवः परागास्तैर्गौरैररुणैः । `गौरोऽरुणे सिते पीते` इति यादवः । मुखैरन्तरिक्षमाकाशं पद्माकरमिव चक्रुः
अन्वयः: तम् अनुव्रजन्त्यः स्ववाहनक्षोभचलाऽवतंसाः मातरः प्रभामण्डलरेणुगौरैः मुखैः अन्तरिक्षं पद्माकरम् इव चक्रुः ।

Verse 39
तासां च पश्चात्कनकप्रभाणां काली कपालाभरणा चकासे । बलाकिनी नीलपयोदराजी दूरं पुरःक्षिप्तशतह्रदेव ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तासामिति । कनकप्रभाणां सुवर्णवर्णानां तासां मातॄणां पश्चात्कपालाभरणा । सितकपालालंकारेत्यर्थः । काली महाकाली देवी च । कृष्णवर्णत्वसूचनाय कालीसंज्ञयाभिधानम् । बलाकिनी बलाकावती । व्रीह्यादित्वादिनिः । दूरं यथा तथा पुरोऽग्रे क्षिप्ताः प्रसारिताः शतह्रदा विद्युतो यस्याः सा तथोक्ता नीलपयोदराजी कालमेघपङ्क्तिरिव चकासे
अन्वयः: कनकप्रमाणां तासां पश्चात् कपालाभरणा काली बलाकिनी दूरं पुरः क्षिप्तशतह्रदा नीलपयोदराजी इव चकासे ।

Verse 40
ततो गणैः शूलभृतः पुरोगैरुदीरितो मङ्गलतूर्यघोषः । विमानशृङ्गाण्यवगाहमानः शशंस सेवावसरं सुरेभ्यः ॥
Metre: उपेन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): तत इति । ततोऽनन्तरं शूलभृतः शिवस्य पुरो गच्छन्तीति पुरोगैरग्रेसरैः। `अन्यत्रापि दृश्यत इति वक्तव्यम्` इति गमेर्डप्रत्ययः । गणैः प्रमथैरुदीरित उत्पादितो मङ्गलतूर्यघोषो मङ्गलवाद्यध्वनिर्विमानश्रृंगाण्यवगाहमानः सन् सुरेभ्यो विमानस्थेभ्यः सेवाऽवसरं शशंस । सुराः प्रस्थानध्वनिमाकर्ण्यायमेव नः सेवाऽवसर इत्याजग्मुरित्यर्थः
अन्वयः: ततः शूलभृतः पुरोगैः गुणं उदीरितो मङ्गलतूर्यघोषो विमानशृङ्गाणि अवगाहमानः (सन्) सुरेभ्यः सेवाऽवसरं शशंस ।