कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 71 to 80 of 95 verses
Verse 71
तमन्वगिन्द्रप्रमुखाश्च देवाः सप्तर्षिपूर्वाः परमर्षयश्च । गणाश्च गिर्यालयमभ्यगच्छन्प्रशस्तमारम्भमिवोत्तमार्थाः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तमिति । तमीश्वरमन्वगनुपदम् । अव्ययमेतत् । `अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्` इत्यमरः (अ.को.3|1|77) । इन्द्रप्रमुखा देवाश्च सप्तर्षयः पूर्वे येषां ते सप्तर्षिपूर्वाः । `न बहुव्रीहो` इति सर्वनामसंज्ञाप्रतिषेधः । परमर्षयः सनकादिमहर्षयश्च । `सन्महत्परमेत्तमोत्कृष्टाः पूज्यमानैः` इति तत्पुरुषः । गणाः प्रमथाश्चोत्तमार्था महाप्रयोजनाः आचाराः प्रशस्तं प्रकृष्टम् । अमोधमित्यर्थः । आरभ्यत इत्यारम्भ उपायस्तमिव गिर्यालयं हिमवन्मन्दिरमभ्यगच्छन् । प्राविशन्नित्यर्थः
अन्वयः: तम् अन्वक् इन्द्रप्रमुखा देवाः, सप्तर्षिपूर्वाः परमर्षयो गणाश्च उत्तमाऽर्थाः प्रशस्तम् आरम्भम् इव गिर्यांलयम् अभ्यगच्छन् ।

Verse 72
तत्रेश्वरो विष्टरभाग्यथावत्सरत्नमर्घ्यं मधुमच्च गव्यम् । नवे दुकूले च नगोपनीतं प्रत्यग्रहीत्सर्वममन्त्रवर्जम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति । तत्र हिमवदालय ईश्वरो विष्टरभागासनगतः । उपविष्ट इत्यर्थः । यथावद्यथार्हम् । विधिवदित्यर्थः । सरत्नंरत्नसहितमर्ध्यमर्घार्यं जलम् । मधु क्षौद्रमस्मिन्नस्तीति मधुमत् । गवि भवं गव्यं दधि च । मधुपर्कमित्यर्थः । `दधिमधुनी सर्पिर्वा मध्वलाभे` इत्याश्वलायनगृह्यसूत्रात् नवे दुकूले चेति सर्वं नगोपनीतं हिमवदानीतमर्घ्यादिकं मन्त्रान्वर्जयित्वा मन्त्रवर्जम् । ततो नञ्समासः । अमन्त्रवर्जम् । मन्त्रान्न वर्जयित्वेत्यर्थः । `द्वितीयायां च` (पा.3|4|53) इति णमुल्प्रत्यय इत्याह न्यासकारः `अनुदात्तं पदमेकवर्जम्` (पा.6|1|158) इत्यत्र । प्रत्यग्रहीत्स्वीकृतवान्
अन्वयः: तत्र ईश्वरः विष्टरभाक् यथावत् सरत्नम् अर्ध्यं, मधुमत् गव्यं, नवे दुकूले च इति सर्वं नगोपनीतम् अमन्त्रवर्जं प्रत्यग्रहीत् ।

Verse 73
दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधरक्षैः । वेलासमीपं स्फुटफेनराजिर्नवैरुदन्वानिव चन्द्रपादैः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): दुकूलेति । अथ दुकूलं वसान इत्यर्थः । स हरो विनींतैरनुद्धतैरवरोधेषु ये दक्षास्तैरवरोधदक्षैर्वधूसमीपं निन्ये नीतः । कथमिव । स्फुटा फेनानां राजिर्यस्य स उदकमस्यास्तीत्युदन्वान्समुद्रः । `उदन्वानुदधौ च` (पा.8|2|13) इति निपातनात्साधुः । नवैरचिरोदितैश्चन्द्रपादैश्चन्द्रकिरणैर्वेलासमीपमिव
अन्वयः: दुकूलवासाः स विनीतैः अवरोधदक्षैः वधूसमीपं सफुटफेनराजिः उदन्वान् नवैः चन्द्रपादैः वेलासमीपम् इव निन्ये ।

Verse 74
तया प्रवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्या । प्रसन्नचेतःसलिलः शिवोऽभूत्संसृज्यमानः शरदेव लोकः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तयेति । आननं चन्द्र इव इत्युपमितसमासः । प्रवृद्धाननचन्द्रस्य कान्तिर्यस्यास्तया तथोक्तया तया कुमार्या शरदा लोक इव संसृज्यमानः । संगच्छमानः शिवश्चक्षूंषि कुमुदानीव तानि प्रफुल्लानि यस्य स तथोक्तः । चेतः सलिलमिव तत्प्रसन्नं यस्य स तथोक्तः । प्रसन्नचेतः- सलिलोऽभूत् । शरल्लोकयोरपि यथोचितं विशेषणानि योज्यानि
अन्वयः: प्रवृद्धाननचन्द्रकान्त्या तया कुमार्या शरदा लोक इव संसृज्यमानः शिवः प्रफुल्लचक्षुः कुमुदः प्रसन्नचेतःसलिलः अभूत् ।

Verse 75
तयोः समापत्तिषु कातराणि किंचिद्व्यवस्थापितसंहृतानि । ह्रीयन्त्रणां तत्क्षणमन्वभूवन्नन्योन्यलोलानि विलोचनानि ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तयोरिति । तयोर्वधूवरयोः समापत्तिषु यदृच्छया संगतिषु कातराणि चकितानि । `अधीरे कातरः` इत्यमरः (अ.को.3|1|26) । द्रष्टुमसमर्थांनीति भावः । किंचिदीषद् व्यवस्थापितानि स्थिरीकृतानि पश्चात्संहृतानि निवर्तितानि चेति व्यवस्थापितसंहृतानि । `पूर्वकाले-` त्यादिना तत्पुरुषः । अन्योन्यस्मिंल्लोलानि सतृष्णानि । `लोलश्चलसतृष्णयोः` इत्यमरः (अ.को.3|1|26) । विलोचनानि दृष्टयस्तत्क्षणं तस्मिन्क्षणे ह्रीयन्त्रणां ह्रिया निमित्तेन संकोचमन्वभूवन्
अन्वयः: तयोः समापत्तिषुः कातराणि किञ्चिद् व्यवस्थापितसंहृतानि अन्योन्यलोलानि विलोचनानि तत्क्षणं ह्रीयन्त्रणाम् अन्वभूवन् ।

Verse 76
तस्याः करं शैलगुरूपनीतं जग्राह ताम्राङ्गुलिमष्टमूर्त्तिः । उमातनौ गूढतनोः स्मरस्य तच्छङ्किनः पूर्वमिव प्ररोहम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्या इति । अष्टमूर्तिः शिवः । तस्मादीश्वराच्छङ्कत इति तच्छङ्किनः । तद्भीतस्येत्यर्थः । अतएवोमातनावुमाशरीरे गूढतनोर्गुप्तशरीरस्य स्मरस्य पूर्व प्ररोहमिव प्रथमाङ्कुरमिव स्थितं शैलगुरूपनीतं शैलगुरुणा हिमवतोपनीतं प्रापितम् । अथवा शैलगुरुणा हिमवत्पुरोधसोपनीतं ताम्राङ्गुलिं रक्ताङ्गुलिं तस्याः पार्वत्याः करं जग्राह
अन्वयः: अष्टमूर्तिः तच्छङ्किनः उमातनौ गूढतनोः स्मरस्य पूर्वं प्ररोहम् इव (स्थितम्) शैलगुरुपनीतं ताम्राऽङ्गुलिं तस्याः करं जग्राह ।

Verse 77
रोमोद्गमः प्रादुरभूदुमायाः स्विन्नाङ्गुलिः पुङ्गवकेतुरासीत् । वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): रोमोद्गम इति । उमाया रोमोद्गमो रोमाञ्चः प्रादुरभूत् । पुमान्गौः पुंगवो वृषभः । `गोरतद्धितलुकि` (पा.5|4|92) इति टच् । स केतुश्चिह्नं यस्य स पुंगवकेतुः शिवः स्विन्नाङ्गुलिरासीत् । अत्रोत्प्रेक्षते-पाणिसमागमेन पाण्योः संस्पर्शेन कर्त्रा । तयोर्वधूवरयोर्मनोभवस्य वृत्तिरवस्थितिः समं विभक्तेव । समीकृतेवेत्यर्थः । प्राक्सिद्धस्याप्यनुरागसाम्यस्य संप्रति तत्कार्यदर्शनात्पाणिसंस्पर्शकृतत्वमुत्प्रेक्षते । ननु कन्या तु प्रथमसंगमे स्विन्नकरचरणा भवति पुमांस्तु रोमाञ्चितो भवतीति बात्स्यायनेन विपरीतमुक्तमिति चेन्नैष दोषः । एभिरनयोर्भावं परीक्षेतेति वाक्यशेष एभिरिति बहुवचनेन स्वेदरोमाञ्चग्रहणस्य सकलसात्त्विकोपलक्षणत्वावगमेनानियमावधारणात् । अतएव रघुवंशेऽन्यथाभिधानात्स्वोक्तिविरोध इत्यपास्तम् । तदेतद्रघुवंशसंजीविन्यां (७/२२) सुव्यक्तमवोचम् । सात्त्विकास्तु `स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू । अश्रुवैस्वर्यमित्यष्टौ सात्त्विकाः परिकीर्तिताः ।` इति
अन्वयः: उमाया रोमोद्गमः प्रादुरभूत् । पुङ्गवकेतुः स्विन्नाऽङ्गुलि आसीत् । पाणिसमागमेन तयोः मनोभवस्य वृत्तिः समं विभक्ता इव अभूत् ।

Verse 78
प्रयुक्तपाणिग्रहणं यदन्यद्वधूवरं पुष्यति कान्तिमग्र्याम् । सान्निध्ययोगादनयोस्तदानीं किं कथ्यते श्रीरुभयस्य तस्य ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): प्रयुक्तेति । यद्यस्मात्कारणात्प्रयुक्तं पाणिग्रहणं यस्य तत्तथोक्तमन्यल्लौकिकम् । वधूश्च वरश्च वधूवरम् । समाहारे द्वन्द्वैकवद्भावः । तदानीं पाणिग्रहणकालेऽनयोरुमाशिवयोः सांनिध्ययोगात्संनिधिभावादग्र्यामुत्तमां कान्तिं शोभां पुष्यति पुष्णाति तस्योभयस्योमामहेश्वररूपस्य मिथुनस्य श्रीः किं कथ्यते । यत्प्रसादादन्यस्य शोभालाभस्तस्य किमु वक्तव्येत्यर्थः । `विवाहसमये गौरीशिवौ वधूवरावनुप्रविशेताम्` इत्यागमः
अन्वयः: यत् प्रयुक्तपणिग्रहणम् अन्यत् वधूवरम् अनयोः सान्निध्ययोगात् अग्र्यां कान्तिं पुष्यति. तदानीं तस्य उभयस्य श्रीः किं कथ्यते ?

Verse 79
प्रदक्षिणप्रक्रमणात्कृशानोरुदर्चिषस्तन्मिथुनं चकासे । मेरोरुपान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): प्रदक्षिणेति । तन्मिथुनमुदर्चिष उन्नतज्वालस्य कृशानोः कर्मणः प्रदक्षिणप्रक्रमणात्प्रदक्षिणीकरणाच्चकासे । किमिव । मेरोरुपान्तेषु परिसरेषु वर्तमानमावर्तमानम् । मेरुं प्रदक्षिणीकुर्वंनित्यर्थः । अन्योन्येन संसक्तं संगतम् मिथुनस्याप्येतद्विशेषणम् । अहश्च त्रियामा चाहस्त्रियामं रात्रिं दिवमिव । समाहारे द्वन्द्वैकवद्भावः
अन्वयः: तत् मिथुनम् उदर्चिषः कृशानोः प्रदक्षिणप्रक्रमात् मेरोः उपान्तेषु वर्तमानम् अन्योन्संसक्तम् अहस्त्रियामम् इव चकासे ।

Verse 80
तौ दम्पती त्रिः परिणीय वह्निम्कराग्रसंस्पर्शनिमीलिताक्षीम् । तां कारयामास वधूं पुरोधास्तस्मिन्समिद्धार्चिषि लाजमोक्षम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): ताविति । स पुरस्तादेव हितं विधत्त इति पुरोधाः पुरोहितोऽन्योन्यस्य संस्पर्शन स्पर्शसुखेन निमीलिताक्षौ तौ जाया च पतिश्च दंपती कर्मभूतौ । जायाशब्दस्य दंभावो निपातितः । वह्निं त्रिस्त्रिवारम् । `द्वित्रिचतुर्भ्यः सुच्` (पा.5|4|18) सुच् । परिणीय परितो नीत्वा । प्रदक्षिणीकार्येत्यर्थः । नयतेर्द्विकर्मकाल्ल्यप् । समिद्धार्चिषि दीप्तज्वाले तस्मिन्वह्नौ वधूं लाजविसर्गं कारयामास । `हृक्रोरन्यतरस्याम्` (पा.1|4|53) इति विकल्पादणिकर्तुः कर्मत्वम्
अन्वयः: स पुरोधाः अन्योन्संस्पर्शनिमोलिताक्षौ तौ दम्पतीः वह्निं त्रिः परिणीय समिद्धाऽर्चिषि तस्मिन् वधूं लाजमोक्षं कारयामास ।