गृध्रस्येहाश्वतां पक्षौ कृतौ वीक्षस्व लक्ष्मण ! । जिघत्सोर्नूनमापादि ध्वंसोऽयं तां निशा-चरात्।" ॥
Metre: अनुष्टुप्
क्रुद्धोऽदीपि रघु-व्याघ्रो रक्त-नेत्रोऽजनि क्षणात् ।उबोधि दुःस्थं त्रैलोक्यं दीप्तैरापूरि भानु-वत् ॥
Metre: अनुष्टुप्
अताय्यस्योत्तमं सत्वमप्यायि कृत-कृत्य-वत् ।उपाचायिष्ट सामर्थ्यं तस्य संरम्भिणो महत् ॥
Metre: अनुष्टुप्
अदोहीव विषादोऽस्य समरुद्धेव विक्रमः । समभावि च कोपेन न्यश्वसीच्चाऽऽयतं मुहुः ॥
Metre: अनुष्टुप्
अथाऽऽलम्ब्य धनू रामो जगर्ज गज-विक्रमः । "रुणध्मि सवितुर्मार्गं भिनद्मि कुल-पर्वतान् ॥
Metre: अनुष्टुप्
रिणच्मि जलधेस्तोयं विविनच्मि दिवः सुरान् । क्षुणद्मि सर्पान्पाताले छिनद्मि क्षणदा-चरान् ॥
Metre: अनुष्टुप्
यमं युनज्मि कालेन समिन्धानोऽस्त्र-कौशलम् । शुष्क-पेषं पिनष्म्युर्वीमखिन्दानः स्व-तेजसा ॥
Metre: अनुष्टुप्
भूतिं तृणद्मि यक्षाणां हिनस्मीन्द्रस्य विक्रमम् । भनज्मि सर्व-मर्यादास्तनच्मि व्योम विस्तृतम् ॥
Metre: अनुष्टुप्
न तृणेह्मीति लोकोऽयं मां विन्ते निष्-पराक्रम्" ।एवं वदन्दाशरथिरपृणग्धनुशा शरं ॥
Metre: अनुष्टुप्
न्यवर्तयत्सुमित्रा-भूस्तं चिकीर्षुं जगत्-क्षयम् ।ऐक्षेतामाश्रमादाराद्गिरिकल्पं पतत्रिणम् ॥
Metre: अनुष्टुप्