तेन वह्येन हन्तासि त्वमर्यं पुरुषाऽशिनाम् । राक्षसं क्रूर-कर्माणं शक्राऽरिं दूर-वासिनम् ॥
Metre: अनुष्टुप्
आस्ते स्मरन्स कान्ताया हृताया वालिना कपिः । वृषो यथोपसर्याया गोष्ठे गोर्दण्ड-ताडितः ॥
Metre: अनुष्टुप्
तेन सङ्गतमार्येण रामाऽजर्यं कुरु द्रुतम्। । लङ्कां प्राप्य ततः पापं दश-ग्रीवं हनिष्यसि ॥
Metre: अनुष्टुप्
अनृतोद्यं न तत्रास्ति सत्य-वद्यं ब्रवीम्यहम्। । मित्र-भूयं गतस्तस्य रिपु-हत्यां करिष्यसि ॥
Metre: अनुष्टुप्
आदृत्यस्तेन वृत्येन स्तुत्यो जुष्येण संगतः ।इत्यः शिष्येण गुरुवद्गृध्यमर्थमवाप्स्यसि ॥
Metre: अनुष्टुप्
नाऽखेयः सागरोऽप्यन्यस्तस्य सद्-भृत्य-शालिनः । मन्युस्तस्य त्वया मार्ग्यो मृज्यः शोकश्च तेन ते।" ॥
Metre: अनुष्टुप्
स राजसूययाजीव तेजसा सूर्य-सन्निभः ।अ-मृषोद्यं वदन्रुच्यो जगाहे द्यां निशा-चरः ॥
Metre: अनुष्टुप्
अ-कृष्ट-पच्याः पश्यन्तौ ततो दाशरथी लताः । रत्नाऽन्न-पान-कुप्यानामाटतुर्नष्टसंस्मृती ॥
Metre: अनुष्टुप्
समुत्तरन्ताव-व्यथ्यौ नदान्भिद्योद्ध्य-सन्निभान् । सिध्य-तारामिव ख्यातां शबरीमापतुर्वने ॥
Metre: अनुष्टुप्
वसानां वल्कले शूद्धे विपूयैः कृत-मेखलाम् । क्षामामञ्जन-पिण्डाऽऽभा दण्दिनीमजिनाऽऽस्तराम् ॥
Metre: अनुष्टुप्