ददौ स दयितां भ्रात्रे मालां चाऽग्र्यां हिरण्मयीम् । राज्यं संदिश्य भोगाम्श्च ममार व्रण-पीडितः ॥
Metre: अनुष्टुप्
तस्य निर्वर्त्य कर्तव्यं सुग्रीवो राघवाऽऽज्ञया । किष्किन्धाऽद्रि-गुहां गन्तुं मनः प्रणिदधे द्रुतम् ॥
Metre: अनुष्टुप्
नाम-ग्राहं कपिभिरशनैः स्तूयमानः समन्ता- दन्वग्-भावं रघु-वृषभयोर्वानरेन्द्रो विराजन् ।अभ्यर्णेऽम्भः-पतन-समये पर्णलीभूत-सानुं किष्किन्धाद्रिं न्यविशत मधु-क्षीब-गुञ्जद्-द्विरेफम् ॥
Metre: मन्दाक्रान्ता